स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २०२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि रामेश्वरमनुत्तमम् ॥
मंकीशाद्दक्षिणे भागे आग्नेये तु कृतस्मरात् ॥
पूर्वतस्तु सरस्वत्या बलभद्रप्रतिष्ठितम् ॥ १ ॥
यत्र मुक्तोऽभवद्देवि रामो ब्रह्मवधात्किल ॥
पातकात्प्रतिलोमां तामगाहत सरस्वतीम् ॥ २ ॥
॥ देव्युवाच ॥ ॥
कथं स पातकान्मुक्तः कथं पापमभूत्पुरा ॥
कथं तत्स्थापितं लिंगं किंप्रभावं वदस्व मे ॥ ३ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥
यां श्रुत्वा मानवो देवि मुक्तः संसारसागरात् ॥
सर्वान्कामान्स लभते सततं मनसि प्रियान् ॥ ४ ॥
रामः पूर्वं परां प्रीतिं कृत्वा कृष्णस्य लांगली ॥
चिन्तयामास बहुधा किं कृतं सुकृतं भवेत् ॥ ५ ॥
कृष्णेन हि विना नाहं यास्ये दुर्योधनान्तिकम् ॥
पाण्डवान्वा समाश्रित्य कथं दुर्योधनं नृपम् ॥ ६ ॥
जामातरं तथा शिष्यं घातयिष्ये नरेश्वरम् ॥
तस्मान्न पार्थं यास्यामि नापि दुर्योधनं नृपम् ॥ ७ ॥
तीर्थेष्वाप्लावयिष्यामि तावदात्मानमात्मना ॥
कुरूणां पाण्डवानां च यावदंताय कल्पते ॥ ॥ ८ ॥
इत्यादिश्य हृषीकेशं पार्थदुर्योधनावपि ॥
जगाम द्वारकां शौरिः स्वसैन्यैश्च परीवृतः ॥ ९ ॥
गत्वा द्वारावतीं रामो हृष्टतुष्टजनाकुलाम् ॥
स्वैरन्तःपुरगैः सार्धं पपौ पानं हलायुधः ॥ 7.1.202.१० ॥
पीतपानो जगामाथ रैवतोद्यानमृद्धिमत् ॥
हस्ते गृहीत्वा स गदां रेवत्यादिभिरन्वितः ॥ ११ ॥
स्त्रीकदंबकमध्यस्थो ययौ मत्तवदास्खलन् ॥
ददर्श च वनं वीरो रमणीयमनुत्तमम् ॥ १२ ॥
सर्वत्र तरुपुष्पाढ्यं शाखामृगगणाकुलम् ॥
पुष्प पद्मवनोपेतं सपल्वलमहावनम् ॥ १३ ॥
स शृण्वन्प्रीतिजनकान्वन्यान्मदकलाञ्छुभान् ॥
श्रोत्ररम्यान्सुमधुराञ्छब्दान्खगसुखेरितान् ॥ १४ ॥
सर्वतः फलरत्नाढ्यान्सर्वतः कुसुमोज्ज्वलान् ॥
अपश्यत्पादपांश्चैव विहगैरनुमोदितान् ॥ १५ ॥
आम्रानाग्रातकान्भव्यान्नालिकेरान्सतिंदुकान् ॥
आबल्वनांस्था पीतान्दाडिमान्बीजपूरकान्॥
पनसाँल्लकुचान्मोचांस्तापांश्चापि मनोहरान् ॥
पालेवतान्कुसंकुल्लान्नलिनानथ वेतसान् ॥ १७ ॥
भल्लातकानामलकींस्तिन्दुकांश्च महाफलान् ॥
इंगुदान्करमर्दांश्च हरीतकबिभीतकान् ॥ १८ ॥
एतानन्यांश्च स तरून्ददर्श यदुनन्दनः ॥
तथैवाशोकपुन्नागकेतकीबकुलांस्तथा ॥ १९ ॥
चंपकान्सप्तपर्णांश्च कर्णिकारान्सुमालतीः ॥
पारिजातान्कोविदारा न्मन्दारेन्दीवरांस्तथा ॥ 7.1.202.२० ॥
पाटलान्पुष्पितान्रम्भान्देवदारुद्रुमांस्तथा ॥
शालांस्तालांश्च स्तमालांनिचुलान्वञ्जुलांस्तथा ॥ २१ ॥
चकोरैः शतपत्रैश्च भृंगराजैः समावृतान् ॥
कोकिलैः कलविंकैश्च हारीतैर्जीवजीवकैः ॥ २२ ॥
प्रियपुत्रैश्चातकैश्च शुकैरन्यैर्विहंगमैः ॥
श्रोत्ररम्यं सुमधुरं कूज द्भिश्चाप्यधिष्ठितैः ॥ २३ ॥
सरांसि च सपद्मानि मनोज्ञसलिलानि च ॥
कुमुदैः पुण्डरीकैश्च तथा रोचनकोत्पलैः ॥ २४ ॥
कह्लारैः कमलैश्चापि चर्चितानि समंततः ॥
कदंबैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ २५ ॥
कारण्डवैः प्लवैर्हंसैः कूर्मैर्मंडुभिरेव च ॥
एतैरन्यैश्च कीर्णानि तथान्यैर्जलवा सिभिः ॥ २६ ॥
क्रमेण संचरन्रामः प्रेक्षमाणो मनोरमम् ॥
जगामानुगतः स्त्रीभिर्लतागृहमनुत्तमम् ॥ २७ ॥
स ददर्श द्विजांस्तत्र वेदवेदांगपार गान् ॥
कौशिकान्भार्गवांश्चैव भारद्वाजांश्च गौतमान् ॥ २८ ॥
विविधेषु च संभूतान्वंशेषु द्विजसत्तमान् ॥
कथाश्रवणसोत्कण्ठानुपविष्टान्महा त्मनः ॥ २९ ॥
कृष्णाजिनोत्तरीयेषु कूर्चेषु च वृसीषु च ॥
सूते च तेषां मध्यस्थं कथयानं कथाः शुभाः ॥ 7.1.202.३० ॥
पौराणिकाः सुरर्षीणामा द्यानां चरितक्रियाः ॥
दृष्ट्वा रामं द्विजाः सर्वे मधुपानारुणेक्षणम् ॥ ३१ ॥
मत्तोऽयमिति मन्वानाः समुत्तस्थुस्त्वरान्विताः ॥
पूजयन्तो हलधरं तमृते सूतवंशजम् ॥ ३२ ॥
ततः क्रोधसमाविष्टो हली सूतं महाबलः ॥
निजघान विवृत्ताक्षः क्षोभिताशेषदानवः ॥ ३३ ॥
अन्वासिते पदं ब्राह्म्यं तस्मिन्सूते निपातिते ॥
निष्क्रान्तास्ते द्विजाः सर्वे वनात्कृष्णाजिनांबराः ॥ ३४ ॥
अवधूतं तथात्मानं मन्यमानो हलायुधः ॥
चिन्तयामास सुमहन्मया पापमिदं कृतम् ॥ ३५ ॥
ब्रह्मासनगतो ह्येष यः सूतो विनिपातितः॥
तथा ह्येते द्विजाः सर्वे मामवेक्ष्य विनिर्गताः ॥ ३६ ॥
शरीरस्य च मे गन्धो लोहस्येवासुखावहः ॥
आत्मानं चावगच्छामि ब्रह्मघ्नमिति कुत्सितम् ॥ ३७ ॥
धिङ्ममार्थं तथा मद्यं महिमानमकीर्तिदम् ॥
येना विष्टेन सुमहन्मया पापमिदं कृतम्॥३८॥
स्मृत्युक्तं ते करिष्यामि प्रायश्चित्तं यथाविधि॥
उक्तमस्त्येव मनुना प्रायश्चित्तादिकं क्रमात्॥३९॥
जपः प्रच्छन्नपापानां मनस्ताप एव च॥
भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम्॥7.1.202.४॥
क्षेत्रेश्वरस्य विज्ञानाद्विशुद्धिः परमा मता॥
शरीरस्य विशुद्धिस्तु प्रायश्चित्तैः पृथग्विधैः॥ ४१॥
ततोऽद्यतः करिष्यामि व्रतं द्वादशवार्षिकम्॥
स्वकर्मख्यापनं कुर्वन्प्रायश्चित्तमनुत्तमम्॥४२॥
इयं विशुद्धिरज्ञानाद्धत्वा चाकामतो द्विजम् ॥
कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ ४३ ॥
यः कामतो महापापं नरः कुर्य्नात्कथंचन ॥
न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते ॥ ४४ ॥
अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः ॥
कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥ ४५ ॥
विधिः प्राथमिकस्तस्माद्द्वितीये द्विगुणं चरेत् ॥
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ॥ ४६ ॥
औषधं स्नेहमाहारं ददद्गोब्राह्मणादिषु ॥
दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते ॥ ४७ ॥
अकारणं तु यः कश्चिद्द्विजः प्राणान्परित्यजेत् ॥
तस्यैव तत्र दोषः स्यान्न तु योऽस्मै ददाति तत् ॥ ४८ ॥
परिष्कृतो यदा विप्रो हत्वाऽऽत्मानं मृतो यदि ॥
निर्गुणः सहसा क्रोधाद्गृहक्षेत्रादिकारणात् ॥ ४९ ॥
त्रिवार्षिकं व्रतं कुर्या त्प्रतिलोमां सरस्वतीम् ॥
गच्छेद्वापि विशुद्ध्यर्थं तत्पापस्येति निश्चितम् ॥ 7.1.202.५० ॥
उद्दिश्य कुपितो हत्वा तोषितं वासयेत्पुनः ॥
तस्मिन्मृते न दोषोऽस्ति द्वयोरुच्छ्रावणे कृते ॥ ५१ ॥
षण्ढं तु ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् ॥
बहूनामेककार्याणां सर्वेषां शस्त्रधारिणाम् ॥ ५२ ॥
यद्येको घातयेत्तत्र सर्वे ते घातकाः स्मृताः ॥
प्रायश्चित्ते व्यवसिते यदि कर्ता विपद्यते ॥ ५३ ॥
एनस्तत्प्राप्नुयादेनमिह लोके परत्र च ॥
तदहं किं करोम्येष क्व गच्छामि दुरात्मवान् ॥ ५४ ॥
धिङ्मां च पापचरितं महादुष्कृतकर्मिणम् ॥ ५५ ॥
॥ ईश्वर उवाच ॥ ॥
इत्येवं विलपन्यावच्छोका कुलितमानसः ॥
तावदाकाशसंभूता वागुवाचाशरीरिणी ॥ ५६ ॥
भोभो राम न संतापस्त्वया कार्यः कथंचन ॥
गच्छ प्राभासिकं क्षेत्रं यत्र देवी सरस्वती ॥ ५७ ॥
पञ्चस्रोताः स्थिता तत्र पञ्चपातकनाशनी ॥
नदीनां प्रवरा सा तु ब्रह्मभूता सरस्वती ॥ ५८ ॥
एकतः सर्वतीर्थानि ब्रह्माण्डे सचराचरे ॥
गंगादीनि नरश्रेष्ठ तेषां पुण्या सरस्वती ॥ ५९ ॥
तावद्गर्जंति पापानि ब्रह्महत्यादिकानि च ॥
यावन्न दृश्यते देवी प्रभासस्था सर स्वती ॥ 7.1.202.६० ॥
तस्मात्तत्रैव गच्छ त्वं यत्र देवी सरस्वती ॥
नान्यैस्तीर्थैः सहस्रैस्त्वं कर्तुं शक्यो विकल्मषः ॥ ६१ ॥
तन्मा कार्षीर्विलंबं त्वं गच्छ तीरं महोदधेः ॥
प्राभासिके महादेवीं प्रतिलोमां विगाहय ॥ ६२ ॥
तत्रैवाराधय विभुं लिंगरूपिणमीश्वरम् ॥
प्रतिष्ठाप्य महापापाच्छारी रात्त्वं विमोक्ष्यसि ॥ ६३ ॥
इति श्रुत्वा वचो रामः परमानंदपूरितः ॥
प्रभासक्षेत्रगमने मतिं चक्रे महामनाः ॥ ६४ ॥
ततः स्वसैन्यसंयुक्तो द्रव्योपस्करसंयुतः ॥
आजगाम महाक्षेत्रं प्रभासमिति विश्रुतम् ॥ ६५ ॥
दृष्ट्वा मनोरम तीर्थं सरस्वत्यब्धिसंगमे ॥
चकार हृदि संकल्पं प्रति लोमावगाहने ॥ ६६ ॥
आहूय ब्राह्मणांस्तत्र प्रभासक्षेत्रवासिनः ॥
सम्यग्यात्राविधानेन यात्रां तत्राकरोद्विभुः ॥ ६७ ॥
यानि प्राभासिके क्षेत्रे तीर्थानि विविधानि तु ॥
रवियोजनसंस्थानि तेषु यात्रां चकार सः ॥ ६८ ॥
प्रत्येकं च ददौ तेषु दानानि विविधानि तु ॥
तथाऽधः स्थाप यामास सरस्वत्यब्धिसंगमे ॥ ६९ ॥
पूर्वभागे महालिंगं कृत्वा यज्ञविधिक्रियाम् ॥
एवं कृते महादेवि विमुक्तः पातकैरभूत् ॥ 7.1.202.७० ॥
निर्मर्लांगस्ततो देवि दिनानि दश संस्थितः ॥
ततस्तां चैव स स्नात्वा प्रतिलोमां क्रमाद्ययौ ॥
प्लक्षावहरणं यावत्समुद्राच्च हिमाह्वयम् ॥ ॥ ७१ ॥
एवं मुक्तः स पापौघै रामोऽभूत्प्रथितः प्रिये ॥
तस्य लिंगस्य माहात्म्यात्सरस्वत्याः प्रसादतः ॥ ७२ ॥
यस्तत्पूजयते देवि लिंगं पापभयापहम् ॥
रामेश्वरेति कथितं सोऽपि मुच्येत पातकात् ॥ ७३ ॥
अष्टम्यां च विशेषेण ब्रह्मकूर्चविधानतः ॥
यस्तत्र कुरुते देवि सोऽश्वमेधफलं लभेत् ॥ ७४ ॥
स्नात्वा तत्र वरारोहे सरस्वत्यब्धिसंगमे ॥
रामेश्वरेतिनामानं ततः संपूज्य शंकरम् ॥
गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः ॥ ७५ ॥
इत्येवं कथितं देवि रामेश्वरमहोदयम् ॥
यच्छ्रुत्वा मानवः सम्यक्छ्रद्धावान्प्राप्नुयाद्दिवम् ॥ ७६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रामेश्वरक्षेत्रमाहात्म्यवर्णनंनाम द्व्युत्तरद्विशततमोऽध्यायः ॥ २०२ ॥ ॥ छ ॥