स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०१९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१८ स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्
अध्यायः ०१९
वेदव्यासः
अध्यायः ०२० →

॥ देव्युवाच ॥ ॥
यद्येवं सकलश्चंद्रः कथं न विधृतस्त्वया ॥
अन्तभावे कलानां तत्कारणं कथय प्रभो ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
अमा षोडशभेदेन देवि प्रोक्ता महाकला ॥
संस्थिता परमा माया देहिनां देह धारिणी ॥ २ ॥
अमादिपौर्णमास्यंता या एव शशिनः कलाः ॥
तिथयस्ताः समाख्याताः षोडशैव प्रकीर्तिताः ॥ ३ ॥
अमा सूक्ष्मा परा शक्तिः सा त्वं देवि प्रकीर्तिता ॥
प्रलयोत्पत्तियोगेन स्थिताः कालक्रमोदिताः ॥४॥
षोडशैव स्वरा ये तु आद्याः सृष्टयंतकाः प्रिये ॥
कालस्यावयवास्ते च विज्ञेयाः कालवेदिभिः ॥ ५ ॥
त्रुटिर्लवो निमेषश्च कला काष्ठा मुहूर्तकम्॥
रात्र्यहःपक्षमासाश्च अयनं वत्सरं युगम् ॥ ६ ॥
मन्वतरं तथा कल्पं महाकल्पं च षोडश ॥
कला विसर्जनी या तु जीवमाश्रित्य वर्तते ॥७॥
सा सृजत्यखिलं विश्वं विषुवद्वयसंयुतम् ॥
तथा संवरणी या तु विश्वं संहरते प्रिये ॥ ॥
नेत्रपाताच्चतुर्भागस्त्रुटिकालो निगद्यते ॥
तस्माच्च द्विगुणं विद्धि निमिषं तन्महेश्वरि ॥ ९ ॥
निमिषैस्त्रिंशद्भिः काष्ठा ताभिर्विंशतिभिः कला॥
विंशतिकलो मुहूर्तः स्याद्दिनं पंचदशैस्तु तैः॥7.1.19.१०॥।
दिनमाना निशा ज्ञेया अहोरात्रं द्वयाद्भवेत् ।
तैः पंचदशभिः पक्षो द्विपक्षो मास उच्यते ॥११॥
मासैश्चैवायनं षड्भिर्वर्षं स्यादयनद्वये ॥
चत्वारिंशच्च लक्षाणि लक्षाणां त्रितयं पुनः॥१२॥
विंशतिश्च सहस्राणि ज्ञेयं सौरं चतुर्युगम्॥
चतुर्युगैकसप्तत्या मन्वंतरमुदाहृतम्॥१३॥
ऐंद्रमेतद्भवेदायुः समासांतं च कीर्तितम्॥
चतुर्दशेन्द्रैः प्रलीनैः कल्पं ब्रह्मदिनं भवेत् ॥१४॥
रात्रिश्च तावती चैव चतुर्युगसहस्रिका॥
अनेन दिनमानेन शताब्दं जीवति प्रिये ॥१५॥
ममैव निमिषार्द्धेन सहस्राणि चतुर्द्दश ॥
विनश्यंति ततो विष्णोरसंख्याताः पितामहाः ॥१६॥
एवं क्रमेण देवेशि समुत्पन्नमिदं जगत् ॥
शशिसूर्यविभागेन चित्ररूपमनंतकम् ॥१७॥
कला देवि यदाद्यंतमनादिमजमव्ययम्॥
तदान्वितः शशी तस्यामधोमुखमवस्थितः ॥ १८ ॥
एवं क्षयोदयं ज्ञेयं चंद्रार्काभ्यामवस्थितम् ॥
सृष्टिक्रमं मया प्रोक्तं संहारमधुना शृणु ॥ १९ ॥
महाकल्पं हतं कल्पैः कल्पं मन्वंतरैर्हतम् ॥
मासं पक्षाहतं कृत्वा तं चाहोरात्रिभाजितम् ॥7.1.19.२॥।
अहोरात्रं मुहूर्तेन मुहूर्तं तु कलाहतम्॥
कलां काष्ठा हतां कृत्वा काष्ठां निमिषभाजिताम् ॥ २१ ॥
निमिषं च लवैर्हत्वा लवं त्रुटिविभाजितम् ॥
तदतीतं प्रशांतं च निर्विकारमलक्षणम् ॥२२॥
तस्य चेयं परा माया कला शिरसि धारिता ॥
सा शक्तिर्देवदेवस्य विश्वाकारा परा प्रिये ॥
मोहयित्वा तु संतानं संसारयति पार्वति ॥२३॥

30a
एवमेतज्जगद्देवि उत्पत्तिस्थितिलक्षणम् ॥
यत्रैवोत्पद्यते कृत्स्नं पुनस्तत्रैव लीयते ॥ २४ ॥
सेयं मायामयी शक्तिः शुद्धाशुद्धस्वरूपिणी ॥
चंद्ररूपा स्थिता सा तु तव देवि प्रकाशयेत्॥ २५ ॥
॥ देव्युवाच ॥ ॥
पंचाग्निनोपसन्तप्ता वर्षकोटीरनेकधा ॥
तत्तपः सफलं जातं मेऽद्य देव जगत्पते ॥ २६ ॥
सृष्टियोगो मया ज्ञातः संहारश्च महेश्वर ॥
चन्द्रोत्पत्तिस्वरूपं च कलामानं तथैव च ॥ २७ ॥
अधुना मम देवेश सन्देहो हृदि संस्थितः ॥
कौतूहलं परं देव कथयस्व महेश्वर ॥ २८ ॥
अमृतादेव संभूतः सर्वाह्लादकरः शशी ॥
प्रियश्च तव देवेश वल्लभश्चंद्रमास्तथा ॥ २९ ॥
चंद्रे च चदि इत्येष ह्लादने धातुरिष्यते॥
शुक्लत्वे चापतत्त्वे च मया त्वेष विभाव्यते ॥7.1.19.३॥।
सर्वौषधीनामधिपः पितॄणां प्रीणनं परम् ॥
तदाश्रयश्च त्वद्भक्तस्त्व त्सेवातत्परः शशी ॥ ३१ ॥
तथापि सकलंकोऽयं कौतुकं कुरुते मम ॥
देवि ब्रह्मांडसंघट्टमालामंडितशेखरः ॥ ३२ ॥
शीर्षे तव निविष्टस्य कष्टं चंद्रस्य चेद्यदि ॥
तर्हि नाथ न शोच्या वै संसारे दुःखभागिनः ॥ ३३ ॥
न चास्ति त्रिषु लोकेषु न चैतत्संभविष्यति ॥
यत्र शक्तो भवत्कर्तुं दुःखस्यास्य च संक्षयम्॥ ३४ ॥
सर्वेषां वर्तते शंका यथा मम महेश्वर ॥
उत्पन्नं कारणं किंतद्येन सोमस्य लांछनम् ॥ ३५ ॥
किमेतत्कारणं देव कथयस्व महेश्वर ॥
अमृते संभवो यस्य कथं तस्यापि लांछनम्॥ ३६ ॥
प्रियश्च तव देवेश लांछनं चापि तिष्ठति ॥
कौतूहलं परं देव तत्त्वं मे वक्तुमर्हसि ॥ ३७ ॥
एवमुक्तः स पार्वत्या देवदेवो महेश्वरः ॥
उवाच परमप्रीतः प्रेम्णा शैलसुतां प्रभुः ॥ ३८ ॥
॥ ईश्वर उवाच ॥
किं ते देवि महाशंकाद्योत्पन्ना वरवर्णिनि ॥
ममोपरि न कर्त्तव्या निरुद्विग्ना भव प्रिये ॥
पितुस्तव प्रभावेन लांछनं शशिनोऽभवत् ॥ ३९ ॥
भावित्वात्कर्मणो देवि दक्षस्याज्ञाव्यतिक्रमात् ॥
समं वर्त्तस्व भार्याभिरित्युक्तः शशलांछनः ॥ 7.1.19.४० ॥
तद्वाक्यमन्यथा चक्रे ततः शप्तः शशी प्रिये॥
इदं पृष्टं तु यद्देवि त्वया लांछनकारणम् ॥ ४१ ॥
कल्पेकल्पे पृथग्भावं कारणैरस्ति भामिनि ॥
असंख्यातं च तद्वक्तुं शक्यं नैव मया प्रिये ॥ ४२ ॥
असंख्येयाश्चन्द्रमसः संभवंति पुनःपुनः ॥
विनश्यंति च देवेशि सर्वमन्वन्तरान्तरम् ॥४३ ॥
असंख्याताश्च कल्पाख्या असंख्याताः पितामहाः ॥
हरयश्चाप्यसंख्याता एक एव महेश्वरः ॥ ४४ ॥
कोटिकोट्ययुतान्यत्र ब्रह्माण्डानि मम प्रिये ॥
जलबुद्बुदवद्देवि संजातानि तु लीलया॥ ४५॥
तत्रतत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः॥
सृष्टाः प्रधानेन तदा लब्धा शंभोस्तु संनिधिः॥४६॥
लयं चैव तथान्योन्यमाद्यंतं प्रकरोति च॥
सर्गसंहारसंस्थानां कर्त्ता देवो महेश्वरः॥४७॥
सर्गे च रजसा पृक्तः सत्त्वस्थः परिपालने॥
प्रतिसर्गे तमोयुक्तः सोऽहं देवि त्रिधा स्थितः॥४८॥
तस्मान्माहेश्वरो ब्रह्मा ब्रह्मणोऽधिपतिः शिवः ॥
सदाशिवो भवेद्विष्णुर्ब्रह्मा सर्वात्मको ह्यतः ॥ ४९ ॥
स एव भगवान्रुद्रो विष्णुर्विश्व जगत्प्रभुः ॥
अस्मिन्नण्डे त्विमेलोका अन्तर्विश्वमिदंजगत् ॥ 7.1.19.५० ॥
चन्द्रसूर्यग्रहा देवि ब्रह्माण्डेऽस्मिन्मनस्विनि ॥
संख्यातुं नैव शक्यन्ते ये भविष्यंति ये गताः ॥ ५१ ॥
अस्मिन्वाराहकल्पे तु वर्तमाने मनस्विनि ॥
षडतीता महादेवि रोहिणीपतयः पुरा ॥ ५२ ॥
सप्तमोऽयं महादेवि वर्ततेऽमृतसंभवः ॥
दक्षशापेन यो देवि संक्षीणो दृश्यतेऽधुना ॥ ५३ ॥
अथ द्वितीये संप्राप्ते परार्द्धे चैव वेधसः ॥
तस्य त्रिंशत्तिमे कल्पे पितृ कल्पेति विश्रुते ॥ ५४ ॥
स्वायंभुवेंऽतरे प्राप्ते तस्यादौ त्वं सती किल ॥
तस्मिन्काले महादेवि योभूद्दक्षः पिता तव ॥ ५५ ॥
प्राणात्प्रजापतेर्जन्म तस्य दक्षस्य कीर्तितम् ॥
अस्मिन्मन्वन्तरे देवि दक्षः प्राचेतसोऽभवत् ॥ ५६ ॥
अंगुष्ठाद्दक्षिणाद्दक्षो भविष्यत्यधुना प्रिये ॥
युगेयुगे भवन्त्येते सर्वे दक्षादयो द्विजाः ॥ ५७ ॥
पुनश्चैव विनश्यन्ति विद्वांस्तत्र न मुह्यति ॥
तस्यापमानात्त्वं देवि देहं तत्यक्थ वै पुरा ॥ ५८ ॥
तावद्वियुक्तोऽहं देवि त्वया मुक्तोऽभवं पुरा ॥
यावद्वराहकल्पस्य चाक्षुषस्यान्तरं प्रिये ॥ ५९ ॥
एकविंशो मनुश्चायं कल्पे वाराहसंज्ञके ॥
कल्पेकल्पे महादेवि भवेन्नामान्तरं तव ॥ 7.1.19.६० ॥
अस्मिन्कल्पे तु वाराहे हिमवत्तपसार्ज्जिते ॥
संभूता पार्वती देवि चाक्षुषस्यांतरे गते ॥ ६१ ॥
ब्रह्मणो दिनमेकं तु षण्मासेन तवावधिः ॥
त्वं वियुक्ता मया सार्द्धं दक्षकोपेन भामिनि ॥ ६२ ॥
तव क्रोधेन ये शप्ता ऋषयो वै मया पुरा ॥
तेऽपि देवि त्वया सार्द्धं जाता वैवस्वतेंतरे ॥ ६३ ॥
भृगुरंगिरा मरीचिस्तु पुलस्त्यः पुलहः क्रतुः ॥
अत्रिश्चैव वसिष्ठश्च अष्टौ ते ब्रह्मणः सुताः ॥ ६४ ॥
दक्षस्य यज्ञे ते शप्ताः पूर्वं स्वायंभुवेन्तरे ॥
जाता देवि पुनस्ते वै कल्पेस्मिंश्चाक्षुषे गते ॥ ६५ ॥
देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥
ब्रह्मणो जुह्वतः शुक्रमग्नौ पूर्वं प्रजेप्सया ॥ ६६ ॥
ऋषयो जज्ञिरे पूर्वं सूर्यबिंबसमप्रभाः ॥
पितुस्तव समीपं ते वरणाय तव प्रिये ॥
प्रस्थापिता मया पूर्वं तत्त्वं जानासि सुव्रते ॥ ६७ ॥
अथ किं बहुनोक्तेन वच्मि ते प्रश्नमुत्तमम् ॥
द्वितीये तु परार्द्धेऽस्मिन्वर्त्तमाने च वेधसः ॥ ६८ ॥
श्वेतकल्पात्समारभ्य यावद्वाराहगोचरम् ॥
समतीताश्च ये चन्द्रास्ताञ्छृणुष्व वरानने ॥ ६९ ॥
चतुःशतानि देवेशि षड्विंशत्यधिकानि तु ॥
गतानि शीतरश्मीनां सप्तविंशोऽधुना प्रिये ॥ 7.1.19.७० ॥
वैवस्वतेंऽतरे प्राप्ते यश्चायं वर्ततेऽधुना ॥
त्रेतायुगे तु दशमे दत्तात्रेयपुरःसरः ॥ ७१ ॥
संजातो रोहिणीनाथो योऽधुना वर्त्तते प्रिये ॥
तस्योत्पत्तिप्रसंगेन विष्णोर्मानुषसंभवान् ॥ ७२ ॥
देहावतारान्वक्ष्यामि प्रारंभात्प्रथमान्प्रिये ॥
पञ्चमः पंचदश्यां स त्रेतायां तु बभूव ह ॥ ७३ ॥
मांधाता चक्रवर्त्तित्वे तस्योतथ्यपुरःसरः ॥
एकोनविंशत्रेतायां सर्वक्षत्रांतकोऽभवत् ॥ ७४ ॥
जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ॥
चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा ॥ ७५ ॥
सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ॥
अष्टमे द्वापरे विष्णुरष्टाविंशे पराशरात् ॥ ७६ ॥
वेदव्यासस्ततो जज्ञे जातूकर्ण्यपुरःसरः ॥
तत्रैव नवमो विष्णुरदितेः कश्यपात्मजः ॥ ७७ ॥
देवक्यां वसुदेवात्तु ब्रह्मगर्गपुरःसरः ॥
एकविंशतमस्यास्य द्वापरस्यांशसंक्षये ॥
नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम् ॥ ७८ ॥
कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनः ॥
पूर्वजन्मनि विष्णुः स प्रमतिर्नाम वीर्यवान् ॥ ७९ ॥
गोत्रेण वै चंद्रमसः संध्यामिश्रे भविष्यति ॥
कल्किर्विष्णुयशानाम पाराशर्यप्रतापवान् ॥ 7.1.19.८० ॥
दशमो भाव्यसंभूतो याज्ञवल्क्यपुरःसरः ॥
अनुकर्षश्च वै सेनां हस्त्यश्वरथसंकुलाम् ॥ ८१ ॥।
प्रगृहीतायुधैर्विप्रैर्भृशं शतसहस्रशः ॥
निःशेषाञ्छूद्रराज्ञस्तांस्तदा स तु करिष्यति ॥ ८२ ॥
पाखंडान्म्लेच्छजातींश्च दस्यूंश्चैव सहस्रशः ॥
नात्यर्थं धार्मिका ये च ब्रह्मब्रह्मद्विषः क्वचित् ॥ ८३ ॥
 प्रवृत्तचक्रो बलवाञ्च्छूराणामंतको बली ॥
अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति ॥ ८४ ॥।
मानवस्य तु सोंऽशेन देवस्य भुवि वै प्रभुः॥
क्षपयित्वा तु तान्सर्वान्भाविनार्थेन नोदितान् ॥
गंगायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः ॥ ८५ ॥।
ततो व्यतीते कल्कौ तु सामात्ये सहसैनिके ॥
नृपेष्वपि च नष्टेषु तदात्वप्रहराः प्रजाः ॥ ८६ ॥
रक्षणे विनिवृत्ते च हत्वा चान्योन्यमाहवे ॥
परस्परहतास्ताश्च निराक्रंदाः सुदुःखिताः ॥ ८७ ॥
क्षीणे कलियुगे चास्मिन्दशवर्षसहस्रके ॥
स संध्यांशे तु निःशेषे कृतं वै प्रतिपत्स्यति ॥ ८८॥
यदा चंद्रश्च सूर्यश्च तथा तिष्यबृहस्पती ॥
एकराशौ समेष्यंति प्रपत्स्यति तदा कृतम् ॥ ८९ ॥
अभिजिन्नाम नक्षत्रं जयंतीनाम शर्वरी॥
मुहूर्तो विजयो नाम यत्र जातो जनार्द्दनः ॥ 7.1.19.९० ॥
॥ देव्युवाच ॥ ॥
नोक्तं यथावदखिलं भृगुशापविचेष्टितम्॥
पूर्वावतारान्मे ब्रूहि नोक्तपूर्वान्महेश्वर॥९१॥
ईश्वर उवाच॥
यदा तु पृथिवी व्याप्ता दानवैर्बलवत्तरैः॥
ततः प्रभृति शापेन भृगुनैमित्तिकेन ह॥ ९२॥
जज्ञे पुनःपुनर्विष्णुः कर्त्तुं धर्मव्यवस्थितिम्॥
धर्मान्नारायणः साध्यः संभूतश्चाक्षुषेंतरे॥९३॥
यज्ञं प्रवर्तयामास स च वैवस्वतेंऽतरे ॥
प्रादुर्भावे तदा तस्य ब्रह्मा चासीत्पुरोहितः॥९४॥
चतुर्थ्यां तु युगाख्यायामापन्नेषु सुरेष्विह॥
संभूतः स समुद्रात्तु हिरण्यकशिपोर्वधे॥९५॥
द्वितीयो नरसिंहोऽभूद्रुद्रस्तस्य पुरःसरः॥
लोकेषु बलिसंस्थेषु त्रेतायां सप्तमे युगे॥९६॥
दैत्यैस्त्रैलोक्य आक्रांते तृतीयो वामनोभवत्॥
संक्षिप्यात्मानमंगेषु बृहस्पतिपुरःसरः ॥ ९७ ॥
त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह ॥
नष्टे धर्मे चतुर्थांशे मार्कंडेयपुरःसरः ॥
एते दिव्यावतारा वै मानुष्ये कथिताः पुरा ॥ ९८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्रीविष्ण्ववतारवर्णनंनामैकोनविंशोऽध्यायः ॥ १९ ॥ छ ॥