स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १५३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि हिरण्येश्वरमुत्तमम् ॥
ब्रह्मकुण्डस्य वायव्ये धनुषां द्वितये स्थितम् ॥ १ ॥
सर्वपापप्रशमनं दारिद्र्यौघविनाशनम् ॥
कृतस्मराच्च परतो ह्यग्नितीर्थाच्च पूर्वतः ॥ २ ॥
यमेश्वराच्च नैर्ऋत्ये समुद्रस्योत्तरे तथा ॥
तस्य लिंगस्य प्राग्भागे ब्रह्मा तेपे महत्तपः ॥
आराधयामास तदा देवदेवं त्रिलोचनम् ॥ ३ ॥
ततस्तुष्टो महादेवो ब्रह्मन्ब्रूहि वरो मम ॥ ४ ॥
॥ ब्रह्मोवाच ॥ ॥
यदि तुष्टोऽसि मे देव याज यामीति मे मतिः ॥
स्थानं च यन्महापुण्यं तन्ममाख्यातुमर्हसि ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
कृतस्मराद्ब्रह्मकुंडं यमेशात्सागरावधि ॥
एतदंतरमासाद्य पापी चापि विमुच्यते ॥ ६ ॥
वहेद्विषुवती तत्र सदा पुण्यात्मनां नृणाम् ॥
यत्र तत्र कुरु विभो मनसा ते यथेप्सितम् ॥ ७ ॥
इत्युक्तः स तदा ब्रह्मा प्रारेभे यज्ञमुत्तमम् ॥ ८ ॥
ततो भागार्थिनो देवा इन्द्राद्यास्तत्र चागताः॥
ऋषयो भागकामास्तु सर्वे तत्र समागताः ॥९॥
ततो यज्ञागतेभ्यः स दक्षिणामददात्पुनः ॥
ततोऽथ दक्षिणा क्षीणा दीयमाना यशस्विनि ॥ 7.1.153.१० ॥
ततोब्रह्मा बहूद्विग्नो दध्यौ वै मनसा तदा ॥
बद्धाञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् ॥ ११ ॥
भगवन्वै विरूपाक्ष क्रतुर्नैव समाप्यते ॥
दक्षिणाहै(दै?)न्यतो देव न याति परिपूर्णताम् ॥ १२ ॥
दक्षिणासहिताः सर्वे यथा यांति तथा कुरु ॥
पितामहवचः श्रुत्वा कृत्वा ध्यानं तदा मया ॥ १३ ॥
स्मृता सरस्वती देवी देवानां हितकाम्यया ॥
आगता सा महापुण्या उक्ता देवी मया तदा ॥ १४ ॥
पद्मयोनेर्धनं क्षीणं क्रतुर्वै न समाप्यते ॥
तस्मान्मम प्रसादेन भव काञ्चनवाहिनी ॥ १५ ॥
सरस्वत्यास्ततः स्रोत उत्थितं पश्चिमामुखम् ॥
काञ्चनानां तु पद्मानि उच्छ्रितानि सहस्रशः ॥ १६ ॥
काञ्चनेन प्रवाहेण तोयं सारस्वतं शुभम् ॥
दैत्यसूदनमासाद्य अग्नितीर्थावधि प्रिये ॥
पूरयामास पद्मैश्च कोटिशश्च समंततः ॥ १७ ॥
काञ्चनानि तु तान्येव दत्त्वा विप्रेषु दक्षिणाम् ॥
यज्ञं निर्वर्तयामास हृष्टो ब्रह्मा द्विजैः सह ॥ १८ ॥
शेषाणि यानि पद्मानि तानि निःक्षिप्य भूतले ॥
तदूर्ध्वं स्थापयामास लिगं तु कनके श्वरम्॥ १९ ॥
तत्र लिंगं प्रतिष्ठाप्य सर्वदेवनमस्कृतम् ॥
ऋषिभ्यो दक्षिणां प्रादादेकैकस्य यथाक्रमम् ॥
काञ्चनानां च पद्मानां प्रत्येकमयुतं ददौ ॥7.1.153.२०॥
ततः शेषाणि पद्मानि निहितानि धरातले ॥
ब्रह्मकुण्डस्य मध्ये तु नापुण्यो लभते नरः ॥२१॥
तत्कुण्डतोयमद्यापि नानावर्णं प्रदृश्यते ॥
तत्राधः पद्मसंयोगान्नीरं स्वर्णायते क्षणात् ॥ २२ ॥
हिरण्मयानि पद्मानि अधः कृत्वा प्रजापतिः ॥
लिंगमूर्ध्वं प्रतिष्ठाप्य स्वयं पूजितवांस्तदा ॥
हिरण्यकमलैर्दिव्यैर्हिरण्येशस्ततोऽभवत् ॥ २३ ॥
सर्वपापप्रशमनं तथा दारिद्र्यनाशनम् ॥
दृष्ट्वा हिरण्मयेशानं सर्वपापैः प्रमुच्यते ॥ २४ ॥
माघ मासे चतुर्दश्यां यस्तल्लिंगं प्रपूजयेत् ॥
पूजितं तेन सकलं ब्रह्माण्डं सचराचरम् ॥ २५ ॥
सर्वदानानि दत्तानि सर्वे देवाश्च तोषिताः ॥
ब्रह्माण्डं तेन दत्तं स्याद्येन तल्लिंगमर्चितम् ॥ २६ ॥
एतन्मया ते कथितं स्नेहेन वरवर्णिनि ॥
न कस्यचिन्मयाऽऽख्यातं महागोप्यं वरानने । २७ ॥
य इदं शृयुयाद्भक्त्या पठेद्वा भक्तिसंयुतः ॥
स गच्छेद्देवलोकं तु मुक्तः सर्वैस्तु पातकैः ॥ २८ ॥
इति ते चातिविख्याताः पवित्राः पञ्च भैरवाः ॥
ब्रह्मकुण्डसमीपस्थाः कथितास्तव सुन्दरि ॥ २९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्ये हिरण्येश्वरमाहात्म्यवर्णनंनाम त्रिपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५३ ॥ ॥