स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १४७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि ब्रह्मकुण्डमनुत्तमम् ॥
तस्यैव नैर्ऋते भागे ब्रह्मणा निर्मितं पुरा ॥ १ ॥
यदा तु ऋक्षराजेन सोमनाथः प्रति ष्ठितः ॥
तदा ब्रह्मादयो देवाः सर्वे तत्र समागताः ॥
प्रतिष्ठार्थं हि देवस्य शशांकेन निमन्त्रिताः ॥ २ ॥
अथाऽब्रवीन्निशानाथो ब्रह्माणं विनयान्वितः ॥ ३ ॥
कृतं भवद्भिर्जानाति स्थापनं वै यथा जनः ॥
तथा कुरु सुरश्रेष्ठ चिह्नमात्मसमुद्भवम् ॥ ४ ॥
एवं श्रुत्वा तदा ब्रह्मा ध्यानं कृत्वा तु निश्चलम् ॥
आह्वयत्सर्वतीर्थानि पुष्करादीनि सर्वशः ॥ ५ ॥
स्वर्गे वै यानि तीर्थानि तथैव च रसातले ॥
तपःसामर्थ्ययोगेन ब्रह्मणा ऽऽकर्षितानि च ॥
अतस्तस्यैव नाम्ना तु ब्रह्मकुण्डं तु गीयते ॥ ६ ॥
गणानां च सहस्रैस्तु चतुर्दशभिरीक्ष्यते ॥
अतश्चाभक्तियुक्तानां दुष्प्राप्यं तीर्थमुत्तमम् ॥ ७ ॥
अथाब्रवीत्सर्वदेवान्ब्रह्मा लोकपितामहः ॥ ८ ॥
अत्र कुण्डे नरः स्नात्वा यः पितॄंस्तर्पयिष्यति ॥
अग्निष्टोमफलं सव लप्स्यते स च मानवः ॥
तत्प्रसादात्स्वर्गलोके विमानेन चरिष्यति ॥ ९ ॥
गोदानं चाश्वदानं च तथा स्वर्णकमण्डलुम् ॥
दद्याद्विप्राय विदुषे सर्वपापापनुत्तये ॥ 7.1.147.१० ॥
पौर्णमास्यां महादेवि तथा च प्रतिपद्दिने ॥
सर्वपापविनाशार्थं तत्र स्नाति सरस्वती ॥ ११ ॥
सिद्धं रसायनं देवि तत्र वै ह्युदकं प्रिये ॥
नानावर्णसमायुक्तमुपदेशेन सिद्ध्यति ॥ १२ ॥
दारिद्र्यदुःखरुक्छोकान्मानवः सेवते कथम् ॥
ब्रह्मकुण्डमनुप्राप्य कल्पवृक्षमिवापरम् ॥ ॥ १३ ॥
॥ देव्युवाच ॥ ॥
भगवन्विस्तराद्ब्रूहि ब्रह्मकुण्डमहोदयम् ॥
सर्वप्राणिहितार्थाय विस्तराद्वद मे प्रभो ॥ १४ ॥
ब्रह्मकुंडस्य माहात्म्यं श्रोतुं मे कौतुकं महत्॥
लोकानां दुःखनाशाय दारिद्यक्षयहेतवे ॥ १५ ॥
भगवन्मानुषाः सर्वे दुःखशोकनिपीडिताः ॥
भ्रमंति सकलं जन्म रसायनविमोहिताः ॥ १६ ॥
तेषां हिताय मे ब्रूहि निर्वाणं रसमुत्तमम् ॥
आदाविह शरीरं तु अक्षय्यं तु यथा भवेत् ॥ १७ ॥
अष्टसिद्धिसमा युक्तं सर्वविद्यासमन्वितम् ॥
कामरूपं क्रियायुक्तं सर्वव्याधिविवर्जितम् ॥ १८ ॥
ततस्तु परमं देव निर्वाणं येन वै लभेत् ॥
मानवः कृतकृत्यश्च जायते च यथा प्रभो ॥ १९ ॥
तथा कथय मे देव दयां कृत्वा जगत्प्रभो ॥
निर्वाणपरमं कल्पं सर्वभ्रांतिविवर्जितम् ॥
प्रसिद्धं सुखदं दिव्यं समा चक्ष्व महेश्वर ॥ 7.1.147.२० ॥
॥ ईश्वर उवाच ॥ ॥
साधुसाधु महादेवि लोकानां हितकारिणि ॥
मर्त्यलोके महादेवि तीर्थं(?) तीर्थवरं शुभम् ॥ ॥ २१ ॥
प्रभासं परमं ख्यातं तच्च द्वादशयोजनम् ॥
तत्र सोमेश्वरो देवस्त्रिषु लोकेषु विश्रुतः ॥ २२ ॥
तस्य पूर्वे समाख्यातः श्रीकृष्णो दैत्यसूदनः ॥
चण्डिका योगिनी तत्र सखीभिः परिवारिता ॥ २३ ॥
ततः पूर्वे दिशां भागे चतुर्वक्त्रेण निर्मितम् ॥
तीर्थात्तीर्थं वरं दिव्यं सर्वाश्चर्यमयं शुभम् ॥ २४ ॥
सेवितं सर्वदेवैस्तु सिद्धैः साध्यैर्ग्रहैस्तथा ॥
अप्सरोमुनिभिर्दिव्यैर्यक्षैश्च पन्नगैः सदा ॥ २५ ॥
सिद्ध्यर्थं सर्वकामार्थं दिव्यभोगावहं शुभम् ॥
ब्रह्मकुण्डमिति ख्यातं ब्रह्मणा निर्मितं यतः ॥ २६ ॥
तस्य वायव्यकोणे तु हिर ण्येशः स्वयं स्थितः ॥
तमाराध्य महादेवं हिरण्येश्वरमुत्तमम् ॥ २७ ॥
महामन्त्रं जपेत्क्षिप्रं दशांशं होमयेत्सुधीः ॥
होमेन सिद्ध्यते मन्त्रः सत्यं सत्यं वरानने ॥ २८ ॥
तस्योत्तरे तु दिग्भागे किञ्चिदीशानमाश्रितः ॥
चतुर्वक्त्रो महादेवि क्षेत्रपो लिंगरूपधृक् ॥ २९ ॥
तत्स्थानं रक्षते देवि लिंगरूपेण शंकरः ॥
तमाराध्य प्रयत्नेन ततः कुण्डं समाश्रयेत् ॥ 7.1.147.३० ॥
सर्वैश्वर्यमयं देवि नानावर्णविचित्रितम् ॥
कुण्डस्यास्येशदिग्भागे भैरवेश्वरमुत्तमम् ॥ ३१ ॥
दुर्गन्धा भासुरा देवि वहते रसरूपिणी ॥
तस्या रसेन संयुक्तं पृथग्वर्णं हि कर्बुरम् ॥ ३२ ॥
मेघवर्णं महादिव्यं राजतं च पुनः शुभम् ॥
कपिलं दुग्धवर्णं च कर्पूराभं सुशोभनम् ॥ ३३ ॥
कदा कस्तूरिकाभासं कुंकुमच्छविकावहम् ॥
सौगन्धं चंदनोपेतं कदाचिद्रौधि रोदकम् ॥ ३४ ॥
एते रसाश्च विविधा दृश्यंते तत्र सर्वदा ॥
यस्य तुष्टो महादेवः सिद्ध्यते तस्य तत्क्षणात् ॥ ३५ ॥
रजतं क्षिप्यते तत्र सुवर्ण मिव जायते ॥
प्रत्यक्षमेव तत्रैव रसायनमनुत्तमम् ॥ ३६ ॥
पश्यंति मानवा देवि कौतुकं तत्क्षणाद्भृशम् ॥
रसं हि परमं दिव्यं तत्रस्थं च कलौ युगे ॥ ३७ ॥
सिद्धं सिद्धरसं पुंसां व्याधीनां क्षयकारकम् ॥
हेमबीजमयं दिव्यं ब्रह्मकुण्डोद्भवं महत् ॥ ३८ ॥
इदानीं ते प्रवक्ष्यामि मनुष्याणां हिताय वै ॥
दारिद्र्यं क्षयमाप्नोति तत्क्षणाच्च यशस्विनि ॥ ३९ ॥
आदावेव प्रकुर्वन्ति ताम्रकुम्भं दृढं शुभम् ॥
तीर्थोदकं क्षिपेत्तत्र पत्रैस्ताम्रस्तथा युतम् ॥ 7.1.147.४० ॥
निक्षिप्य भूमौ तत्कुम्भं ज्वालयेदनलं ततः ॥
चुह्लीरूपेण षण्मासं पाचयेत्तं शनैःशनैः ॥ ४१ ॥
पश्चादुद्धृत्य तं कुम्भं पुनरेव जलं क्षिपेत् ॥
मासमेकं पुनः कुर्यान्मासमेकं पुनर्भृशम् ॥४२॥
ततः सर्वाणि खण्डानि एकीकृत्य प्रयत्नतः ॥
पुनरेवोदकेनैव प्लाव्य चावर्तयेत्पुनः ॥ ॥४३॥
कांचनं जायते तत्र यदि तुष्टो महेश्वरः ॥४४॥
सिद्धिं शरीरजां देवि यदीच्छेन्मानवोत्तमः ॥
स स्नानमादितः कृत्वा संवत्सरत्रयं पुनः ॥ ॥ ४५ ॥
मौनेन नियमेनैव महामंत्रजपान्वितः ॥
पूजयेच्च हिरण्येशं क्षेत्रपालं प्रयत्नतः ॥४६॥
पंचोपचारसंयुक्तं ध्यानधारणसंयुतम् ॥
तीर्थोदकेन पाकं वै पेयं तद्वदुदुम्बरे ॥४७॥
एवं वर्षत्रयेणैव दिव्यदेहः प्रजायते ॥
तेजस्वी वलवान्प्राज्ञः सर्वव्याधिविवर्जितः ॥४८ ॥
जीवेद्वर्षेशतान्येव त्रीणि दुःखविवर्जितः ॥
वर्षत्रयमविच्छिन्नं यस्तत्र स्नानमाचरेत् ॥४९॥
वागीश्वरीं जपेन्नित्यं पूजाहोमसमन्वितः ॥
तस्य प्रवर्तते वाणी सिद्धिः सारस्वती भवेत् ॥7.1.147.५०॥
संस्कृतं प्राकृतं चैवापभ्रंशं भूतभाषितम् ॥
गांगस्रोतःप्रवाहेण उद्गिरेद्गिरमात्मवान् ॥
अश्रान्तां च वरारोहे ह्यविच्छिन्नां च संततम् ॥५१॥
वदेद्वादिसहस्रैस्तु न श्रमस्तस्य जायते ॥
तीर्थस्यास्य प्रभावेण सर्वशास्त्रविशारदाः ॥ ५२ ॥
पंडिता गर्विताः सर्वे तर्कशास्त्रविशारदाः ॥
आगच्छन्ति समं तात विद्ययोद्धतकन्धराः ॥
न शक्नुवंति ते वक्तुं द्रष्टुं वक्त्रमपि प्रिये ॥ ५३ ॥
वादिनां च सहस्राणि भनक्त्येवं निरीक्षणात् ॥ ५४ ॥
उद्वाहयति शास्त्राणि विबुद्धार्थानि सत्वरम् ॥
विमलं पाञ्चरात्रं च वैष्णवं शैवमेव च ॥ ५५ ॥
इतिहासपुराणं च भूततंत्रं च गारुडम् ॥
भैरवं च महातंत्रं कुलमार्गं द्विधा प्रिये ॥ ५६ ॥
रथप्रवरवेगेन वाणी चास्खलिता भवेत् ॥
नश्यंति वादिनः सर्वे गरुडस्येव पन्नगाः ॥ ५७ ॥
न दारिद्र्यं न रोगश्च न दुःखं मानसं पुनः ॥
राजमान्यो महामानी भवेद्ब्रह्मप्रसादतः ॥ ५८ ॥
उत्साहबलसंयुक्तो देववज्जीवते सुधीः ॥
दाता भोक्ता च वाग्ग्मी च तीर्थस्यास्य प्रसादतः ॥ ५९ ॥
तैलाभ्यक्तस्य यत्तेजो जायते मनुजेषु च ॥
स्नातमात्रे तथा तेजस्तीर्थस्यैव प्रसादतः ॥ 7.1.147.६० ॥
यत्पापं कुरुते जंतुः पैशुन्यं च कृतघ्नताम् ॥
मित्रद्रोहे च यत्पापं यत्पापं पारदारिकम् ॥
तत्सर्वं विलयं याति कुंडस्नानरतस्य च ॥ ६१ ॥
मुशलं लङ्घयेद् यस्तु यो गास्त्यजति वै द्विजः ॥
तत्पापं क्षयमाप्नोति ब्रह्मकुण्डस्य दर्शनात् ॥ ६२ ॥
पृथिव्यां यानि तीर्थानि दैवतानि तथा पुनः ॥
पूजितानि च सर्वाणि कुण्डस्नानप्रभावतः ॥ ६३ ॥
सप्तजन्मार्जितं पापं दर्शनात्क्षयमाव्रजेत् ॥ ६४ ॥
यत्पापं गुरुगोघ्ने च परस्वहरणेषु च ॥
तत्पापं क्षयमाप्नोति ब्रह्मकुण्डनिषेवणात् ॥ ६५ ॥
प्रदक्षिणं च यः कुर्यात्स्नात्वा कुण्डस्य नामतः ॥
संख्यया पंचदश वै शृणु तस्यापि यत्फलम् ॥ ६६ ॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥
सप्तपातालसहिता तीर्थकोटिभिरावृता ॥ ६७ ॥
आहारमात्रं यो दद्यात्तत्र वेदविदां वरे ॥
लक्षभोज्यं कृतं तेन तीर्थस्यास्य प्रभावतः ॥ ६८ ॥
ब्रह्मेश्वरं च संपूज्य हिरण्येश्वरमुत्तमम् ॥
क्षेत्रपालं चतुर्वक्त्रं पूजयेच्चिन्तितं लभेत् ॥ ६९ ॥
एकविंशत्कुलै र्युक्तः सर्वपापविवर्जितः ॥
ब्रह्मलोकं स वै याति नात्र कार्या विचारणा ॥ 7.1.147.७० ॥
विरंचिकुण्डे स्नात्वा वा यो जपेद्वेदमातरम् ॥
लक्षजाप्यविधानेन स मुक्तः पातकैर्भवेत् ॥ ७१ ॥
स एव पुण्यकर्त्ता च स एव पुरुषोत्तमः ॥
यात्रा तत्र कृता येन ब्रह्मकुण्डे वरानने ॥ ७२ ॥
अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् ॥
ब्रह्मकुण्डं समाश्रित्य ब्रह्मदेवमुपासते ॥ ७३ ॥
तावद्गर्जंति तीर्थानि त्रैलोक्ये सचराचरे ॥
यावद्ब्रह्मेश्वरं तीर्थं न पश्यन्ति नराः प्रिये ॥ ७४ ॥
ब्रह्मकुण्डे च पानीयं ये पिबन्ति नराः सकृत् ॥
न तेषां संक्रमेत्पापं वाचिकं मानसं तनौ ॥ ७५ ॥
ब्रह्मांडोत्तरमध्ये तु यानि तीर्थानि संति वै ॥
तेषां पुण्यमवाप्नोति ब्रह्मकुण्डे प्रदक्षिणात् ॥ ७६ ॥
याज्ञवल्क्यो महात्मा च परब्रह्मस्वरूपवान् ॥
सोऽपि कुंडं न मुंचेत निकुं भस्तु गणस्तथा ॥ ७७ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं ब्रह्मकुण्डजम् ॥
तव स्नेहेन देवेशि किमन्यत्परिपृच्छसि ॥ ७८ ॥
य इदं शृणुयान्मर्त्यः सम्यक्छ्रद्धासमन्वितः ॥
स मुक्तः पातकैः सर्वैर्ब्रह्मलोकं च गच्छति ॥ ७९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्यवर्णनंनाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४७ ॥ ॥ छ ॥