स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ०१

विकिस्रोतः तः
Jump to navigation Jump to search

॥ श्रीगणेशाय नमः ॥

अथ तृतीयमर्बुदखण्डं प्रारभ्यते ॥

॥ व्यास उवाच ॥ ॥
ॐनमोनंताय सूक्ष्माय ज्ञानगम्याय वेधसे ॥
शुद्धाय विश्वरूपाय देवदेवाय शंभवे ॥ १ ॥
॥ ऋषय ऊचुः ॥ ॥
कथितो वंशविस्तारो भवता सोमसूर्ययोः ॥
मन्वंतराणि सर्वाणि सृष्टिश्चैव पृथग्विधा ॥ २ ॥
अधुना श्रोतुमिच्छामस्तीर्थमाहात्म्यमुत्तमम् ॥
कानि तीर्थानि पुण्यानि भूतलेऽस्मिन्महामते ॥ ३ ॥
॥ सूत उवाच ॥ ॥
नाना तीर्थानि लोकेऽस्मिन्येषां संख्या न विद्यते ॥
तिस्रः कोट्योऽर्द्धकोटिश्च तेषां संख्या कृता पुरा ॥ ४ ॥
क्षेत्राणि सरितश्चैव पर्वताश्च नदा स्तथा ॥
ऋषीणां तपसो वीर्यान्माहात्म्यं परमं गताः ॥ ५ ॥
तेषां मध्येऽर्बुदोनाम सर्वपापहरोऽनघः ॥
अस्पृष्टः कलिदोषेण वसिष्ठस्य प्रभावतः ॥ ६ ॥
पुनंति सर्वतीर्थानि स्नानदानादिकैर्यथा ॥
अर्बुदो दर्शनादेव सर्वपापहरो नृणाम् ॥ ७ ॥
॥ ऋषय ऊचुः ॥ ॥
किं प्रमाणोऽर्बुदो नाम कस्मिन्देशे व्यवस्थितः ॥
कथं वासिष्ठमाहात्म्यात्प्रथितो धरणीतले ॥ ८ ॥
कानि तीर्थानि मुख्यानि ह्यर्बुदे संति पर्वते ॥
सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि नः ॥ ९ ॥
॥ सूत उवाच ॥ ॥
अहं च संप्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥
अर्बुदस्य द्विजश्रेष्ठा माहात्म्यं च यथा श्रुतम् ॥ 7.3.1.१० ॥
वसिष्ठो नाम देवर्षिः पितामहसमुद्भवः ॥
स पूर्वं भूतलं प्राप्तस्तपस्तेपे सुदारुणम् ॥ ११ ॥
नियतो नियताहारः सर्वभूतहिते रतः ॥
वर्षास्वाकाशवासी च हेमंते सलिलाशयः ॥ १२ ॥
पंचाग्निसाधको ग्रीष्मे जपहोमपरायणः ॥
केनचित्त्वथ कालेन तस्य धेनुः पयस्विनी ॥
नंदिनीति सुविख्याता सा वै कामदुघा शुभा ॥ १३ ॥
सा कदाचिद्धरापृष्ठे भ्रममाणा तृणाशया ॥
पतिता दारुणे श्वभ्रे अगाधे तिमिरावृते ॥ १४ ॥
एतस्मिन्नेव काले तु भगवांस्तीक्ष्णदीधितिः ॥
अस्तं गतो न संप्राप्ता नंदिनी मुनिसत्तमाः ॥ १५ ॥
तस्याः क्षीरेण नित्यं स सायं प्रातर्द्विजो मुनिः ॥
करोति होममग्नौ हि सुसमिद्धे जितव्रतः ॥ १६ ॥
अथ चिंतापरो विप्रः प्रायश्चित्तभयाद्ध्रुवम् ॥
वीक्षांचक्रे वने तस्मिन्समेषु विषमेषु च ॥ १७ ॥
स तच्छ्वभ्रमथासाद्य भूंभारावमथाशृणोत् ॥
तां प्रोवाच मुनिश्रेष्ठः कथं त्वं पतिता शुभे ॥ १८ ॥
अहं होमस्य चोद्वेगान्निःसृतस्त्वामवेक्षितुम्॥
साऽब्रवीद्भक्षमाणाहं विप्रर्षे तृणवांछया ॥ १९ ॥
पतितात्र विभो त्राहि कृच्छ्रादस्मात्सुदुःसहात् ॥
तस्यास्तद्वचनं श्रुत्वा स मुनिर्ध्यान मास्थितः ॥ 7.3.1.२० ॥
सरस्वतीं समादध्यौ नदीं त्रैलोक्यपावनीम् ॥
सा ध्याता मनसा तेन मुनिना तत्र तत्क्षणात् ॥ २१ ॥
श्वभ्रं तत्पूरयामास समंताद्विमलैर्जलैः ॥
परिपूर्णं ततः श्वभ्रे निष्क्रांता नंदिनी तदा ॥ २२ ॥
संहृष्टा मुनिना सार्द्धं ययावाश्रमसम्मुखम् ॥ २३ ॥
स दृष्ट्वा श्वभ्रमध्यं तं गंभीरं च महामुनिः ॥
चिंतयामास मेधावी श्वभ्रस्यैव प्रपूरणे ॥ २४ ॥
तस्य चिंतयतो विप्रा बुद्धिरेषोदपद्यत ॥
आनीय पर्वतं मुक्त्वा श्वभ्रमेतत्प्रपूर्यते ॥
तस्माद्गच्छाम्यहं शीघ्रं हिमवन्तं नगोत्तमम् ॥ २५ ॥
स एव पर्वतं चात्र प्रेषयिष्यति भूधरः ॥
येन स्यात्परिपूर्णं च श्वभ्रमेतन्महात्मना ॥ २६ ॥
ततो जगाम स मुनिर्हिमवन्तं नगोत्तमम् ॥
दृष्ट्वा वसिष्ठमायांतं हिम वान्हृष्टमानसः ॥
अर्घ्यपाद्यादिसंस्कारैः संपूज्य इदमब्रवीत् ॥ २७ ॥
स्वागतं ते मुनिश्रेष्ठ सफलं मेऽद्य जीवितम् ॥
यद्भवान्मे गृहे प्राप्तः पूज्यः सर्वदिवौकसाम् ॥ २८ ॥
ब्रूहि कार्यं मुनिश्रेष्ठ अपि जीवितमात्मनः ॥
नूनं तुभ्यं प्रदास्यामि नियोगो दीयतां मम ॥२९॥
॥वसिष्ठ उवाच॥ ॥
ममाश्रमस्य सांनिध्ये श्वभ्रमस्ति सुदारुणम् ॥
अगाधं नन्दिनी तत्र पतिता धेनुरुत्तमा ॥ 7.3.1.३० ॥
यत्नादाकर्षिता तस्माद्भूयः पतनजाद्भयात् ॥
तवांतिकमनुप्राप्तो नान्यो योग्यो महीपतिः ॥ ३१ ॥
तस्मात्कञ्चिन्नगश्रेष्ठं तत्र प्रेषय भूधरम्॥
येन तत्पूर्यते श्वभ्रं भृशं प्रेषय तादृशम् ॥ ३२ ॥
॥ हिमवानुवाच ॥ ॥
किंप्रमाणं मुने श्वभ्रं विस्तारायामतो वद ॥
तत्प्रमाणं नगं कंचित्प्रेषयामि विचिंत्य च ॥ ३३ ॥
॥ वसिष्ठ उवाच ॥ ॥
द्विसहस्रं तु दैर्घ्येण विस्तरेण त्रिसहस्रकम्॥
न संख्या विद्यतेऽधस्तात्तस्य पर्वतसत्तम ॥ ३४ ॥
॥ हिमवानुवाच ॥ ॥
कथं तेन प्रमाणेन सञ्जातो विवरो महान्॥
अभूत्कौतूहलं तेन सर्वं विस्तरतो वद ॥ ३५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे तृतीयेऽर्बुदखण्डे वसिष्ठाश्रमसमीपवर्ति विवरवृत्तान्तोपक्रमवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥