स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २५८

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

॥ गालव उवाच ॥ ॥
प्रवृत्तायां शैलपुत्र्यां महत्तपसि दारुणे ॥
कन्दर्पेण पराभूतो विचचार महीं हरः ॥ १ ॥
वृक्षच्छायासु तीर्थेषु नदीषु च नदेषु च ॥
जलेन सिंचत्स्ववपुः सर्वत्रापि महेश्वरः ॥ २ ॥
तथापि कामाकुलितो न लेभे शर्म कर्हिचित् ॥
एकदा यमुनां दृष्ट्वा जलकल्लोलमालिनीम् ॥ ॥ ३ ॥
विगाहितुं मनश्चक्रे तापार्तिं शमयन्निव ॥
कृष्णं बभूव तन्नीरं हरकायाग्निवह्निना ॥ ४ ॥
दग्धं विगाहनेनाशु मषीप्रायं तदा बभौ १।
साऽपि दिव्यवपुः पूर्वं श्यामा भूत्वा हराद्यतः ॥ ५ ॥
स्तुत्वा नत्वा महेशानमुवाच पुनरेव सा ॥
प्रसादं कुरु देवेश वशगास्मि सदा तव ॥ ६ ॥
॥ ईश्वर उवाच ॥ ॥
अस्मिंस्तीर्थवरेपुण्ये यः स्नास्यति नरो भुवि ॥
तस्य पापसहस्राणि यास्यंति विलयं ध्रुवम् १। ७ ॥
हरतीर्थमिति ख्यातं पुण्यं लोके भविष्यति ॥
इत्युक्त्वा तां प्रणम्याथ तत्रैवांतरधीयत ॥ ८ ॥
तस्यास्तीरे महेशोऽपि कृत्वा रूपं मनोहरम् ॥
कामालयं वाद्यहस्तं कृतपुंड्रं जटाधरम् ॥ ९ ॥
स्वेच्छया मुनिगेहेषु दर्शयत्यंगचापलम् ॥
क्वचिद्गायति गीतानि क्वचिन्नृत्यति छन्दतः ॥ 6.258.१० ॥
स च क्रुद्ध्यति हसति स्त्रीणां मध्यगतः क्वचित् ॥
एवं विचरतस्तस्य ऋषिपत्न्यः समंततः ॥ ११ ॥
पत्युः शुश्रूषणं गेहे त्यक्त्वा कार्याण्यपि क्षणात् ॥
तमेव मनसा चक्रुः पतिरूपेण मोहिताः ॥ १२ ॥
भ्रमंत्यश्चैव हास्यानि चक्रुस्ता अपि योषितः ॥
ततस्तु मुनयो दृष्ट्वा तासां दुःशीलभावनाम् ॥ १३ ॥
चुक्रुधुर्मुनयः सर्वे रूपं तस्य मनोहरम् ॥
गृह्यतां हन्यतामेष कोऽयं दुष्ट उपागतः ॥ १४ ॥
इति ते गृह्य काष्ठानि यदोपस्थे ययुस्तदा ॥
पलायितः स बहुधा भयात्तेषां महात्मनाम् ॥ १५ ॥
यो जीवकलया विश्वं व्याप्य तिष्ठति देहिनाम् ॥
न ज्ञायते न च ग्राह्यो न भेद्यश्चापि जायते ॥ १६ ॥
न शेकुस्ते यदा सर्वे ग्रहीतुं तं महेश्वरम् ॥
तदा शिवं प्रकुपिता शेपुरित्थं द्विजातयः ॥ १७ ॥
यस्माल्लिंगार्थमागत्य ह्याश्रमांश्चोरवत्कृतम् ॥
परदारापहरणं तल्लिङ्गं पततां भुवि ॥ १८ ॥
सद्य एव हि शापं त्वं दुष्टं प्राप्नुहि तापस ॥
एवमुक्ते स शापाग्निर्वज्ररूपधरो महान् ॥ १९ ॥
तल्लिगं धूर्जटेश्छित्त्वा पातयामास भूतले ॥
रुधिरौघपरिव्याप्तो मुमोह भगवान्विभुः ॥ 6.258.२० ॥
वेदनार्त्तोज्ज्वलवपुर्महाशापाभिभूतधीः ॥
तं तथा पतितं दृष्ट्वा त आजग्मुर्महर्षयः ॥ २१ ॥
आकाशे सर्वभूतानि त्रेसुर्विश्वं चचाल ह ॥
देवाश्च व्याकुला जाता महाभयमुपागताः ॥ २२ ॥
ज्ञात्वा विप्रा महेशानं पीडिता हृदयेऽभवन् ॥
शुशुचुर्भृशदुःखार्ता दैवं हि बलवत्तरम् ॥ २३ ॥
किं कृतं भगवानेष देवैरपि स सेव्यते ॥
साक्षी सर्वस्य जगतोऽस्माभिर्नैवोपलक्षितः ॥ २४ ॥
वयं मूढधियः पापाः परमज्ञानदुर्बलाः॥
कथमस्माभिर्यस्यात्मा श्रुतश्च न निवेदितः ॥ २५ ॥
मयेदृशो गृहस्थाय ह्यात्माऽयं न निवेदितः ॥
निर्विकारो निर्विषयो निरीहो निरुपद्रवः ॥ २६ ॥
निर्ममो निरहंकारो यः शंभुर्नोपलक्षितः ॥
यस्य लोका इमे सर्वे देहे तिष्ठंति मध्यगाः ॥ २७ ॥
स एष जगतां स्वामी हरोऽस्माभिर्न वीक्षितः ॥
इत्युक्त्वा ते ह्युपविष्टा यावत्तत्र समागताः ॥ २८ ॥
तान्दृष्ट्वा सहसा त्रस्तः पुनरेव महेश्वरः ॥
विप्रशापभयान्नष्टस्त्रिपुरारिर्दिवं ययौ ॥ २९ ॥
सुरभिं गां च गोलोके तां तुष्टाव सुसंयतः १।
सृष्टिस्थिति विनाशानां कर्त्र्यै मात्रे नमोनमः ॥ 6.258.३० ॥
या त्वं रसमयैर्भावैराप्यायसि भूतलम् ॥
देवानां च तथासंघान्पितॄणामपि वै गणान् ॥ ३१ १।
सर्वै र्ज्ञाता रसाभिज्ञैर्मधुरास्वाददायिनी ॥
त्वया विश्वमिदं सर्वं बलस्नेहसमन्वितम् ॥ ३२ ॥
त्वं माता सर्वरुद्राणां वसूनां दुहिता तथा ॥
आदित्यानां स्वसा चैव तुष्टा वांच्छितसिद्धिदा ॥ ३३ ॥
त्वं धृतिस्त्वं तथा पुष्टिस्त्वं स्वाहा त्वं स्वधा तथा ॥
ऋद्धिः सिद्धिस्तथा लक्ष्मीर्धृतिः कीर्ति स्तथा मतिः ॥ ३४ ॥
कांतिर्लज्जा महामाया श्रद्धा सर्वार्थसाधिनी ॥
त्वया विरहितं किंचिन्नास्ति त्रिभुवनेष्वपि ॥ ३५ ॥
वह्नेस्तृप्तिप्रदात्री च देवादीनाम् च तृप्तिदा ॥
त्वया सर्वमिदं व्याप्तं जगत्स्थावरजंगमम् ॥ ३६ ॥
पादास्ते वेदाश्चत्वारः समुद्राः स्तनतां ययुः ॥
चंद्रार्कौ लोचने यस्या रोमाग्रेषु च देवताः ॥ ३७ ॥
शृङ्गयोः पर्वताः सर्वे कर्णयोर्वायवस्तथा ॥
नाभौ चैवामृतं देवि पातालानि खुरास्तथा ॥३८॥
स्कन्धे च भगवान्ब्रह्मा मस्तकस्थः सदाशिवः ॥
हृद्देशे च स्थितो विष्णुः पुच्छाग्रे पन्नगास्तथा ॥ ३९ ।।
शकृत्स्था वसवः सर्वे साध्या मूत्रस्थितास्तव ॥
सर्वे यज्ञा ह्यस्थिदेशे किन्नरा गुह्यसंस्थिताः ॥ 6.258.४० ॥
पितॄणां च गणाः सर्वे पुरःस्था भांति सर्वदा ॥
सर्वे यक्षा भालदेशे किन्नराश्च कपोलयोः ॥ ४१ ॥
सर्वदेवमयी त्वं हि सर्वभूतविवृद्धिदा ॥
सर्वलोकहिता नित्यं मम देहहिता भव ॥ ४२ ॥
प्रणतस्तव देवेशि पूजये त्वां सदाऽनघे ॥
स्तौमि विश्वार्तिहन्त्रीं त्वां प्रसन्ना वरदा भव ॥ ४३ ॥
विप्रशापाग्निना दग्धं शरीरं मम शोभने ॥
स्वतेजसा पुनः कर्त्तुमर्हस्यमृतसंभवे ॥ ४४ ॥
इत्युक्त्वा ता परिक्रम्य तस्या देहे लयं गतः ॥
साऽपि गर्भे दधाराथ सुरभिस्तदनन्तरम् ॥ ४५ ॥
कालातिक्रमयोगेन सर्वव्याकुलतां ययौ ॥
यस्मिन्प्रनष्टे देवेशे विप्रशापभयावृते ॥ ४६ ॥
देवा महार्तिं प्रययुश्चचाल पृथिवी तथा ॥
चंद्रार्कौ निष्प्रभौ चैव वायुरुच्चण्ड एव च ॥ ४७ ॥
समुद्राः क्षोभमग मंस्तस्मिन्काले द्विजोत्तम ॥ ४८ ॥
यस्मिञ्जगत्स्थावरजंगमादिकं काले लयं प्राप्य पुनः प्ररोहति ॥
तस्मिन्प्रनष्टे द्विजशापपीडिते जयद्धतप्राय मवर्तत क्षणात् ॥ ४९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये हरशापो नामाष्टपंचाशदुत्तरद्विशततमोऽध्यायः ॥ २५८ ॥ ॥ ।