स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २४३

विकिस्रोतः तः
Jump to navigation Jump to search


॥ ब्रह्मोवाच ॥ ॥
शूद्रः पैजवनोनाम गार्हस्थ्याच्छुद्धिमाप्तवान् ॥
धर्ममार्गाविरोधेन तन्निबोध महामते ॥ १ ॥
आसीत्पैजवनः शूद्रः पुरा त्रेतायुगे किल ॥
स्वधर्मनिरतः ख्यातो विष्णुब्राह्मणपूजकः ॥ २ ॥
न्यायागतधनो नित्यं शांतः सर्वजनप्रियः ॥
सत्यवादी विवेकज्ञस्तस्य भार्या च सुन्दरी ॥ ३ ॥
धर्मोढा वेदविधिना समानकुलजा शुभा ॥
पतिव्रता महाभागा देवद्विजहिते रता ॥ ॥ ४ ॥
काश्यां संबंधिता बाला वैजयंत्यां विवाहिता ॥
सा धर्माचरणे दक्षा वैष्णवव्रतचारिणी ॥ ५ ॥
भर्त्रा सह तथा सम्यक्चिक्रीडे सुविनीतवत् ॥
सोऽपि रेमे तया काले हस्तिन्येव महागजः ॥६॥
अर्थाप्तिः पूर्वपुण्येन जाता तस्य महात्मनः ॥
वाणिज्यं स्वजनैर्नित्यं स्वदेशपरदेशजम् ॥ ॥७॥
कारयत्यर्थजातैश्च परकीयस्वकीयजैः ॥
एवमर्थश्च बहुधा संजातो धर्मदर्शिनः ॥ ८ ॥
पुत्रत्रयं च संजातं पितुः शुश्रूषणे रतम् ॥
तस्य पुत्राः पितुर्भक्ता द्रव्यादिमदवर्जिताः ॥ ९ ॥
पितृवाक्यरताः श्रेष्ठाः स्वधर्माचारशोभनाः ॥
पित्रोः शुश्रूषणादन्यन्नाभिनंदंति किंचन ॥6.243.१०॥
ते सम्बन्धैः सुसंबद्धाः पित्रा धर्मार्थदर्शिना ॥
तत्पत्न्यो मातृपित्रर्चां कारयंत्यनिवारितम् ॥ ११ ॥
ऋद्धिमद्भवनं तस्य धनधान्यसमन्वितम् ॥
सोऽपि धर्मरतो नित्यं देवतातिथिपूजकः ॥ १२ ॥
गृहागतो न विमुखो यस्य जातु कदाचन ॥
शीतकाले धनं प्रादादुष्णकाले जलान्नदः ॥ १३ ॥
वर्षा काले वस्त्रदश्च बभूवान्नप्रदः सदा ॥
वापीकूपतडागादिप्रपादेवगृहाणि च ॥ १४ ॥
कारयत्युचिते काले शिवविष्णुव्रतस्थितः ॥
इष्टधर्मस्तु वर्णानां समाचीर्णो महाफलः ॥ १५ ॥
अन्येषां पूर्तधर्माणां तेषां पूर्तकरः सदा ॥
स बभूव धनाढ्योपि व्यसनैर्न समाश्रितः ॥ १६ ॥
विष्णुभक्तिरतो नित्यं चातुर्मास्ये विशेषतः ॥१८॥
एकदा गालवमुनिः शिष्यैर्बहुभिरावृतः ॥ १७ ॥
ब्रह्मज्ञानरतः शांतस्तपोनिष्ठो महावशी ॥
अभ्याजगाम शूद्रस्य गेहे पैजवनस्य सः ॥ १८ ॥
स वाग्भिर्मधुभिस्तस्य अभ्युत्थानासनादिभिः ॥
उपचारैः पुनर्युक्तः कृतार्थ इव मानयन् ॥ १९ ॥
अद्य मे सफलं जन्म जातं जीवितमुत्तमम् ॥
अद्य मे सफलो धर्मः कुशलश्चोद्धृतस्त्वया ॥ 6.243.२० ॥
मम पापसहस्राणि दृष्ट्या दग्धानि ते मुने ॥
गृहं मम गृहस्थस्य सकलं पावितं त्वया ॥ २१ ॥
तस्य भक्त्या प्रसन्नोऽभूद्गतमार्गपरिश्रमः ॥
उवाच मुनिशार्दूलः सच्छूद्रं तं कृतांजलिम् ॥ २२ ॥
कच्चित्ते कुशलं सौम्य मनो धर्मे प्रवर्तते ॥
अर्थानुबंधाः सततं बन्धुदारसुतादयः ।1 २३ ॥
गोविन्दे सततं भक्तिस्तथा दाने प्रवर्तते ॥
धर्मार्थकाम कार्येषु सप्रभावं मनस्तव ॥ २४ ॥
विष्णुपादोदकं नित्यं शिरसा धार्यते न वा ॥
पादोद्भवं च गंगोदं द्वादशाब्दफलप्रदम् ॥ २५ ॥
चातुर्मास्ये विशेषेण तत्फलं द्विगुणं भवेत् ॥
हरिभक्तिर्हरिकथा हरिस्तोत्रं हरेर्नतिः ॥ २६ ॥
हरिध्यानं हरेः पूजा सुप्ते देवे च मोक्षकृत् ॥
एवं ब्रुवाणं स मुनिं पुनराह नतिं गतः ॥ २७ ॥
भवद्दृष्ट्याश्रमफलमेतज्जातं न संशयः ॥
तथापि श्रोतुमिच्छामि तव वाणीमनामयीम् ॥ २८ ॥
भवादृशानां गमनं सर्वार्थेषु प्रकल्पते ॥
ततस्तौ सुमुदा युक्तौ संजातौ हृष्टचेतसौ ॥ २९ ॥
मुनिं पैजवनोनाम सच्छूद्रः प्राह संमतः ॥
किमागमनकृत्यं ते कथयस्व प्रसादतः ॥ 6.243.३० ॥
को वा तीर्थप्रसंगश्च चातुर्मास्ये समीपगे ॥
गालवः प्राह सच्छूद्रं धार्मिकं सत्यवादिनम् ॥ ३१ ॥
मम तीर्थावसिक्तस्य मासा बहुतरा गताः ॥
इदानीमाश्रमं यास्ये चातुर्मास्ये समागते ॥ ३२ ॥
आषाढशुक्लैकादश्यां करिष्ये नियमं गृहे ॥
नारायणस्य प्रीत्यर्थं श्रेयोऽर्थं चात्मनस्तथा ॥
प्रत्युवाच मुनिर्धर्मान्विनयानतकन्धरम् ॥ ३३ ॥
॥ पैजवन उवाच ॥ ॥
मामनुग्रहजां बुद्धिं ब्रूहि त्वं द्विजपुंगव ॥
वेदेऽधिकारो नैवास्ति वेदसारजपस्य वा ॥ ३४ ॥
पुराणस्मृतिपाठस्य तस्मात्किंचिद्वदस्व मे ॥
तत्त्वात्मसदृशं किंचिद्भाति रूपं महाफलम् ॥ ३५ ॥
चातुर्मास्ये विशेषेण मुक्तिसंसाधकं वद ॥ ३६ ॥
॥ गालव उवाच ॥ ॥
शालिग्रामगतं विष्णुं चक्रांकित पुटं सदा ॥
येऽर्चयन्ति नरा नित्यं तेषां भुक्तिस्त्वदूरतः ॥ ३७ ॥
शालिग्रामे मनो यस्य यत्किंचित्क्रियते शुभम् ॥
अक्षय्यं तद्भवेन्नित्यं चातुर्मास्ये विशेषतः ॥ ३८
शालिग्रामशिला यत्र यत्र द्वारावती शिला ॥
उभयोः संगमः प्राप्तो मुक्तिस्तस्य न दुर्लभा ॥ ३९ ॥
शालिग्रामशिला यस्यां भूमौ संपूज्यते नृभिः ॥
पञ्चक्रोशं पुनात्येषा अपि पापशतान्वितैः ॥ 6.243.४० ॥
तैजसं पिंडमेतद्धि ब्रह्मरूपमिदं शुभम् ॥
यस्याः संदर्शनादेव सद्यः कल्मषनाशनम् ॥ ४१ ॥
सर्वतीर्थानि पुण्यानि देवतायतनानि च ॥
नद्यः सर्वा महाशूद्र तीर्थत्वं प्राप्नुवंति हि ॥४२॥
सन्निधानेन वै तस्याः क्रिया सर्वत्रशोभनाः ॥
व्रजंति हि क्रियात्वं च चातुर्मास्ये विशेषतः ॥ ४३ ॥
पूज्यते भवने यस्य शालिग्राम शिला शुभा ॥
कोमलैस्तुलसीपत्रैर्विमुखस्तत्र वै यमः ॥ ४४ ॥
ब्राह्मणक्षत्रियविशां सच्छूद्राणामथापि वा ॥
शालिग्रामाधिकारोऽस्ति न चान्येषां कदाचन ॥ ४५ ॥
॥ सच्छूद्र उवाच ॥ ॥
ब्रह्मन्वेदविदां श्रेष्ठ सर्वशास्त्रविशारद ॥
स्त्रीशूद्रादिनिषेधोऽयं शालिग्रामे हि श्रूयते ॥ ४६ ॥
मादृशस्त्वं कथं शालिग्रामपूजाविधिं वद ॥ ४७ ॥
॥ गालव उवाच ॥ ॥
असच्छूद्रगतं दास निषेधं विद्धि मानद ।।
स्त्रीणामपि च साध्वीनां नैवाभावः प्रकीर्तितः ॥ ४८ ॥
मा भूत्संशयस्तेनात्र नाऽऽप्नुषे संशयात्फलम् ॥
शालिग्रामार्चनपराः शुद्धदेहा विवेकिनः ॥ ४९ ॥
न ते यमपुरं यांति चातुर्मास्ये च पूजकाः ॥
शालिग्रामार्पितं माल्यं शिरसा धारयंति ये ॥ 6.243.५० ॥
तेषां पापसहस्राणि विलयं यांति तत्क्षणात्॥
शालिग्राम शिलाग्रे तु ये प्रयच्छंति दीपकम् ॥ ५१ ॥
तेषां सौरपुरे वासः कदाचिन्नैव हीयते ॥
शालिग्रामगतं विष्णुं सुमनोभिर्मनोहरैः॥
येऽर्चयंति महाशूद्र सुप्ते देवे हरौ तथा ॥ ५२ ॥
पंचामृतेन स्नपनं ये कुर्वंति सदा नराः ॥
शालिग्रामशिलायां च न ते संसारिणो नराः॥ ५३ ॥
मुक्तेर्निदानममलं शालिग्रामगतं हरिम् ॥
हृदि न्यस्य सदा भक्त्या यो ध्यायति स मुक्तिभाक् ॥ ५४ ॥
तुलसीदलजां मालां शालिग्रामोपरि न्यसेत् ॥
चातुर्मास्ये विशेषेण सर्वकामानवाप्नुयात् ॥ ५५ ॥
न तावत्पुष्पजा माला शालिग्रामस्य वल्लभा ॥
सर्वदा तुलसी देवी विष्णोर्नित्यं शुभा प्रिया ॥ ॥ ५६ ॥
तुलसी वल्लभा नित्यं चातुर्मास्ये विशेषतः ॥
शालिग्रामो महाविष्णुस्तुलसी श्रीर्न संशयः ॥ ५७ ॥
अतो वासितपानीयैः स्नाप्यं चंदनचर्चितैः ॥
मंजरीभिर्युतं देवं शालग्रामशिलाहरिम् ॥ ५८ ॥
तुलसीसंभवाभिश्च कृत्वा कामानवाप्नुयात् ॥
पत्रे तु प्रथमे ब्रह्मा द्वितीये भगवाञ्छिवः ॥ ५९ ॥
मंजर्यां भगवान्विष्णुस्तदेकस्थत्रया सदा ॥
मंजरी दलसंयुक्ता ग्राह्या बुधजनैः शुभा ॥ 6.243.६० ॥
तां निवेद्य गुरौ भक्त्या जन्मादिक्षयकारणम् ॥
शालिग्रामे धूपराशिं निवेद्य हरितत्परः ॥ ६१ ॥
चातुर्मास्ये विशेषेण मनुष्यो नैव नारकी॥
शालिग्रामं नरो दृष्ट्वा पूजितं कुसुमैः शुभैः ॥ ६२ ॥
सर्वपापविशुद्धात्मा याति तन्मयतां हरौ ॥
य स्तौत्यश्मगतं विष्णुं गंडकीजलसंभवम् ॥ ६३ ॥
श्रुतिस्मृतिपुराणैश्च सोऽपि विष्णुपदं व्रजेत् ॥
शालिग्रामशिलायाश्च चतुर्विंशतिसंख्यकाः ॥
भेदाः संति महाशूद्र ताञ्छृणुष्व महामते ॥ ६४ ॥
इमाः पूज्याश्च लोकेऽत्र चतुर्विंशतिसंख्यकाः ॥
तासां च दैवतं विष्णुं नामानि च वदाम्यहम् ॥ ६५ ॥
स एव मूर्त्तश्चतुरुत्तरासिर्विंशद्भिरेको भगवान्यथाऽऽद्यः ॥
स एव संवत्सरनामसंज्ञः स एव ग्रावागत आदिदेवः ॥ ६६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने शालिग्रामपूजनमाहात्म्यवर्णनंनाम त्रिचत्वारिंशत्युत्तरद्विशततमोऽध्यायः ॥ २४३ ॥