स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २०९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ आनर्त उवाच ॥ ॥
सांप्रतं मुनिशार्दूल शंखतीर्थ समुद्भवम्॥
माहात्म्यं वद मे कृत्स्नं श्रद्धा मे महती स्थिता ॥ १ ॥
अहो तीर्थमहो तीर्थं हाटकेश्वरसंज्ञितम् [।
क्षेत्रं यच्च धरापृष्ठे सर्वाश्चर्यमयं शुभम् ॥ २ ॥
नाहं तृप्तिं द्विजश्रेष्ठ प्रगच्छामि कथंचन ॥
शृण्वानस्तु सुमाहात्म्यं क्षेत्रस्यास्य समुद्भवम् ॥ ३ ॥
॥ विश्वामित्र उवाच ॥ ॥
अत्र ते कीर्तयिष्यामि पूर्ववृत्तं कथांतरम् ॥
शंखतीर्थस्य माहात्म्यं यथाजातं धरातले ॥ ४ ॥
आनर्ताधिपतिः पूर्वमासीदन्यो महीपतिः ॥
यथा त्वं सांप्रतं भूमौ सर्वलोकप्रपालकः ॥ ५ ॥
सोऽकस्मात्कुष्ठभाग्जातो विकलांगो बभूव ह ॥
अपुत्रः शत्रुभिर्व्याप्तस्त्रस्तश्च नृपसत्तमः ॥ ६ ॥
स सर्वैर्भूमिपालैश्च सर्वतः परिपीडितः ॥
राज्यभ्रंशसमोपेतः प्राप्तो रैवतकं गिरिम् ॥ ७ ॥
तत्रापि पीड्यते नित्यं सर्वतस्तु मलिम्लुचैः ॥ ८ ॥
हस्त्यश्वरथहीनस्तु कोशहीनो यदाऽभवत् ॥
स तदा चिंतयामास किं करोमि च सांप्रतम् ॥ ९ ॥
कलत्राण्यपि सर्वाणि ह्रियंते तस्करैर्बलात् ॥ ॥ 6.209.१० ॥
स एवं चिंतयानस्तु गतो वै नारदं विभुम् ॥
द्रष्टुं पार्थिवशार्दूल वैष्णवे दिवसे स्थिते ॥ ११ ॥
तत्रापश्यत्स संप्राप्तं नारदं मुनिसत्तमम् ॥
तीर्थयात्राप्रसंगेन दामोदरदिदृक्षया ॥ १२ ॥
तं प्रणम्याथ शिरसा कृतांजलिपुटः स्थितः ॥
प्रोवाच वचनं दीन उपविश्य तदग्रतः ॥ १३ ॥ ॥
॥ राजोवाच ॥ ॥
शत्रुभिः परिभूतोऽहं समतान्मुनिसत्तम ॥
ततो राज्यपरिभ्रंशात्संप्राप्तोऽत्र महागिरौ ॥ १४ ॥
विपिने तस्करैः पापैः प्रपीड्येऽहं समंततः ॥
यत्किंचिदश्वनागाद्यं मया सह समागतम् ॥ १५ ॥
तत्सर्वं तस्करैर्नीतं कोशा दारास्तथा वसु ॥
तस्माद्वद मुनिश्रेष्ठ वैराग्यं मे महत्स्थितम् ॥ १६ ॥
अन्यजन्मोद्भवं किंचिन्मम पापं सुदारुणम् ॥
येनेमां च दशां प्राप्तः सहसा मुनिसत्तम ॥ १७ ॥
तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा मुनीश्वरः ॥
प्रोवाचाऽथ नृपं दीनं ज्ञात्वा दिव्येन चक्षुषा ॥ १८ ॥
॥ नारद उवाच ॥ ॥
न त्वया कुत्सितं किंचित्पूर्व देहांतरे कृतम् ॥
मया ज्ञातं महाराज सर्वं दिव्येन चक्षुषा ॥ १९ ॥
त्वमासीः पार्थिवः पूर्वं सिद्धपन्नगसंज्ञिते ॥
पत्तने सोमवंशीयः सर्व शत्रुनिबर्हणः ॥ 6.209.२० ॥
त्वया चेष्टं महायज्ञैः सदा संपूर्णदक्षिणैः ॥
महादानानि दत्तानि पूजिता ब्राह्मणोत्तमाः ॥ २१ ।।
तेन कर्म विपाकेन भूयः पार्थिवतां गतः ॥ २२ ॥
॥ आनर्त उवाच ॥ ॥
इह जन्मनि नो कृत्यं संस्मरामि विभो कृतम् ॥
तत्किं राज्यपरि भ्रंशः सहसा मे समुत्थितः ॥ २३ ॥
लक्ष्म्या हीनस्य लोकस्य लोकेऽस्मिन्व्यर्थतां व्रजेत् ॥
जीवितं मुनिशार्दूल विज्ञातं हि मयाऽधुना ॥ २४ ॥
मृतो नरो गतश्रीको मृतं राष्ट्रमराजकम् ॥
मृतमश्रोत्रिये दानं मृतो यज्ञस्त्वदक्षिणः ॥ २५ ॥
लक्ष्म्या हीनस्य मर्त्यस्य बांधवोऽपि विजायते।।
प्रार्थयिष्यति मां नूनं दृष्ट्वा तं चान्यतो व्रजेत् ॥ २६ ॥
यथा मां सांप्रतं दृष्ट्वा ये मयाऽपि प्रतर्पिताः ॥
तेऽपि दूरतरं यांति एष मां प्रार्थयि ष्यति ॥ २७ ॥
धनहीनं नरं त्यक्त्वा कुलीनमपि चोत्तमम् ॥
गच्छति स्वजनोऽन्यत्र शुष्कं वृक्षमिवांडजाः ॥ २८ ॥
तत्कार्यकारणार्थाय दरिद्रोऽ भ्येति चेद्गृहम् ॥
धनिनो भर्त्सयंत्येनं समागच्छंति नांतिकम् ॥ २९ ॥
कृपणोऽपि धनाढ्यश्चेदागच्छति हि याचितुम् ॥
एष दास्यति मे किंचि दिति चित्ते नृणां भवेत् ॥ 6.209.३० ॥
मम त्वं पूर्ववंशीयः पिता ते च पितुर्मम ॥
सदा स्नेहपरश्चासीत्त्वं च स्नेहविवर्जितः ॥ ३१ ॥
एवं ब्रुवंति लोकेऽत्र धनिनां पुरतः स्थिताः ॥
कुलीना अपि पापानां दृश्यंते धनलिप्सया ॥
दरिद्रस्य मनुष्यस्य क्षितौ राज्यं प्रकुर्वतः ॥ ३२ ॥
प्रशोषः केवलं भावी हृदयस्य महामुने ॥
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ ॥
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ ३३ ॥
श्मशानमपि सेवंते धनलुब्धा निशागमे ॥
जनेतारमपि त्यक्त्वा नित्यं यांति सुदूरतः ॥ ३४ ॥
सुमूर्खोपि भवेद्विद्वानकुलीनोऽपि सत्कुलः ॥
यस्य वित्तं भवे द्धर्म्ये विपरीतमतोऽन्यथा ॥ ३५ ॥
निर्विण्णोऽहं मुनिश्रेष्ठ जीवितस्य च सांप्रतम् ॥
तस्माद्ब्रूहि किमर्थं मे दारिद्र्यं समुपस्थितम् ॥ ३६ ॥
कुष्ठश्चापि ममोपेतः शत्रुभिश्च पराभवम् ॥
अन्यजन्मांतरं दृष्टं त्वया दिव्येन चक्षुषा ॥ ३७ ॥
कुकर्मणा न संस्पृष्टं स्वल्पेनापि ब्रवीषि माम् ॥
एतज्जन्मातरं दृष्टं स्मरामि मुनिसत्तम ॥ ३८ ॥
न मया कुकृतं किंचित्कदाचित्समनुष्ठितम् ॥
तत्किं राज्यपरिभ्रंशो जातोऽयं मम सन्मुने ॥ ३९ ॥
अत्र मे कौतुकं जातं तस्माद्देहि विनिर्णयम् ॥
भवेन्न वा भवेत्कर्म कृतं यच्च शुभाशुभम् ॥ 6.209.४० ॥
॥ विश्वामित्र उवाच ।। ॥
तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा तु नारदः ॥
कृपया परयाविष्टस्ततः प्रोवाच सादरम् ॥ ४१ ॥
शृणु राजन्प्रवक्ष्यामि यथा शुद्धिः प्रजायते ॥
तव राज्यस्य संप्राप्तिर्यथा भूयोऽपि जायते ॥ ४२ ॥
तव भूमौ महापुण्यमस्ति क्षेत्रं जगत्त्रये ॥
हाटकेश्वरसंज्ञं तु तीर्थं तत्रास्ति शोभनम् ॥
शंखतीर्थमिति ख्यातं सर्वपातकनाशनम्॥ ४३॥
यस्तत्र कुरुते स्नानं श्रद्धया परया युतः ॥
अष्टम्यां शुक्लपक्षस्य संप्राप्ते मासि माधवे ॥ ४४ ॥
सूर्यवारे तु सम्प्राप्ते भास्करस्योदयं प्रति ॥
सर्वकुष्ठविनिर्मुक्तो जायते सूर्यसंनिभः ॥ ४५ ॥
यंयं काममभिध्यायेत्तंतं सर्वेषु दुर्लभम् ॥
स तदाऽऽप्नोत्यसंदिग्धं दृष्ट्वा शंखेश्वरं शुभम्॥ ४६ ॥
किं त्वया न श्रुतं तत्र स्वदेशे वसता नृप ॥
तस्य तीर्थस्य माहात्म्यं यत्त्वमत्र समागतः ॥४७॥
॥ सिद्धसेन उवाच ॥ ॥
कथं शंखेश्वरो देवः संजातो वद सन्मुने ॥ ४८ ॥
॥ नारद उवाच ॥ ॥
अहं ते कथयिष्यामि कथामेतां पुरातनीम् ॥
यथा शंखेश्वरो जातः शंखतीर्थं तु पार्थिव॥ ४९ ॥
आसतुर्ब्राह्मणौ पूर्वं लिखितः शंख एव च ॥
भ्रातरौ वेदविदुषौ तपस्युग्रे व्यवस्थितौ ॥ 6.209.५० ॥
कस्यचित्त्वथ कालस्य लिखितस्याश्रमं प्रति ॥
भ्रातुर्ज्येष्ठस्य संप्राप्तो नमस्कारकृते नृप ॥५१॥
सोऽपश्यदाश्रमं शून्यं लिखितेन विवर्जितम् ॥५२॥
अथापश्यद्वने तस्मि न्परिपक्वफलानि सः ॥
प्रणयात्प्रतिजग्राह मत्वा भ्रातुर्नृपाऽऽश्रमम् ॥५३॥
एतस्मिन्नन्तरे प्राप्तो लिखितस्तत्र चाश्रमे॥
यावत्पश्यति शंखं स प्रगृही तबृहत्फलम्॥५४॥
किमिदं विहितं पाप पापं साधुविगर्हितम् ॥
चौर्यकर्म त्वया निंद्यं यद्धृतानि फलानि च ॥५५॥
अनेन कर्मणा तुभ्यं तपो यास्य ति संक्षयम्॥
चौर्यकर्मप्रवृत्तस्य ब्राह्मणैर्गर्हितस्य च ॥५६॥
॥ शंख उवाच ॥ ॥
एकोदरसमुत्पन्नो ज्येष्ठभ्राता यथा पिता ॥
भूयादिति श्रुतिर्लोके प्रसिद्धा सर्वतः स्थिता ॥ ५७ ॥
तत्किं पुत्रस्य विप्रेन्द्र नाधिकारः पितुर्धने ॥
यथैवं निष्ठुरैर्वाक्यैर्निर्भर्त्सयसि मां विभो ॥ ५८ ॥ ॥
॥ लिखित उवाच ॥ ॥
न दोषो जायते हर्तुः पुत्रस्यात्र कथंचन ॥
एकत्र संस्थितस्यात्र पितुर्वित्तमसंशयम् ॥ ५९ ॥
विभक्तस्तु यदा पुत्रो भ्राता वाऽपहरेद्धनम्॥
तदा दोषमवाप्नोति चौर्योत्थं मतमेव मे ॥ 6.209.६० ॥
पुत्रस्य तु पुनर्वित्तं पिता हरति सर्वदा ॥
न तस्य विद्यते दोषो विभक्त स्यापि कर्हिचित्॥ ६१ ॥
अत्र श्लोकः पुरा गीतो मनुना स्मृतिकारिणा ॥
तं तेऽहं संप्रवक्ष्यामि धर्मशास्त्रोद्भवं वचः ॥ ६२ ॥
त्रय एवाधप्रोक्ता भार्या दासस्तथा सुतः ॥
यत्ते समधिगच्छंति यस्य ते तस्य तद्धनम् ॥ ६३ ॥
॥ शंख उवाच ॥ ॥
यद्येवं चौर्यदोषोऽस्ति मम तात महत्तरः॥
निग्रहं कुरु मे शीघ्रं येन न स्यात्तपःक्षयः॥६४॥
विश्वामित्र उवाच॥
तस्य तं निश्चयं ज्ञात्वा शस्त्रमादाय निर्मलम्॥
चकर्ताथ भुजौ तस्य भ्राता भ्रातुश्च निर्घृणः॥
सोपि च्छिन्नकरो विप्रो व्यथयापि समन्वितः॥६५॥
मन्यमानः प्रसादं तं भ्रातुर्ज्येष्ठस्य पार्थिव ॥ ६६ ॥
ततस्तु कामदं क्षेत्रं हाटकेश्वरसंज्ञितम् ॥
मत्वा प्राप्य तपस्तेपे कंचित्प्राप्य जलाशयम् ॥ ६७ ॥
वर्षास्वाकाशशायी च हेमन्ते सलिलाश्रयः ॥
पञ्चाग्निसाधको ग्रीष्मे षष्ठकालकृताशनः ॥ ६८ ॥
संस्नाप्य भास्करं स्थाणुं तत्पुरः शतरुद्रियम् ॥
जपन्सामोक्तरुद्रांश्च भव रुद्रांस्तथा जपन् ॥
प्राणरुद्रांस्तथा नीलान्स्कन्दसूक्तसमन्वितान् ॥ ६९ ॥
ततो वर्षसहस्रांते तुष्टस्तस्य महेश्वरः ॥
प्रोवाच दर्शनं गत्वा सह सूर्य वृषेश्वरैः ॥ 6.209.७० ॥
॥ महेश्वर उवाच ॥ ॥
शंख तुष्टोऽस्मि ते वत्स तपसानेन सुव्रत ॥
तस्मात्कथय मे क्षिप्रं यद्ददामि तवाऽधुना ॥ ७१ ॥
॥ ।। शंख उवाच ॥ ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
जायेतां तादृशौ हस्तौ यादृशो मे पुरा स्थितौ ॥ ७२ ॥
त्वयाऽत्रैव सदा वासः कार्यः सुरवरेश्वर ॥
लिंगे कृत्वा दयां देव ममोपरि महत्तराम् ॥ ७३ ॥
एतज्जलाशयं नाथ मम नाम्ना धरातले ॥
प्रसिद्धिं यातु लोकस्य यावच्चन्द्रार्कतारकाः ॥ ७४ ॥
अत्र यः कुरुते स्नानं धृत्वा मनसि दुर्लभम् ॥
किंचिद्वस्तु समग्रं तु तस्य संपत्स्यते विभो ॥ ७५ ॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
अद्याहं दर्शनं प्राप्तस्तव चैवाष्टमीदिने ॥
माधवस्य सिते पक्षे यस्माद्ब्राह्मणसत्तम ॥ ७६ ॥
तस्मात्संक्रमणं लिंगे तावकेऽस्मिन्द्विजोत्तम ॥
करिष्यामि न सन्देहो दिनमेकमसंशयम् ॥ ७७ ॥
यश्चात्र दिवसे प्राप्ते तीर्थेऽत्रैव भवोद्भवे ॥
स्नानं कृत्वा रवेर्वार उदयं समुपस्थिते ॥ ७८ ॥
पूजयिष्यति मे मूर्तिं त्वया संस्थापितां द्विज ॥
कुष्ठव्याधिविनिर्मुक्तो मम लोकं स यास्यति ॥ ७९ ॥
शेषकालेऽपि विप्रेन्द्र अज्ञानविहितादघात् ॥
मुक्तिं प्राप्स्यत्यसंदिग्धं मम वाक्याद्द्विजोत्तम ॥ 6.209.८० ॥
तथा तवापि यौ हस्तौ छिन्नावेतावुभावपि ॥
तस्मिन्योगेऽभिषेकात्तौः स्यातां भूयोऽपि तादृशौ ॥ ८१ ॥
एष मे प्रत्ययो विप्र भविष्यति तवाऽधुना ॥
भूयः स्नानं विधाय त्वं ततो मूर्तिं ममार्चय ॥ ८२ ॥
अन्येऽपि व्यंगतां प्राप्ताः संयोगेऽत्र तव स्थिते ॥
स्नात्वा मां पूजयिष्यंति मुक्तिं यास्यंति ते द्विज ॥ ॥ ८३ ॥
एवमुक्त्वा सहस्रांशुस्ततश्चादर्शनं गतः ॥
शंखोऽपि तत्क्षणात्स्नात्वा पूजयित्वा दिवाकरम् ॥ ८४ ॥
यावत्पश्यति चात्मानं तावद्धस्तसमन्वितम् ॥
आत्मानं पश्यमानस्तु विस्मयं परमं गतः ॥ ८५ ॥
ततःप्रभृति तत्रैव कृत्वाऽऽश्रमपदं नृप ॥
तपस्तेपे द्विज श्रेष्ठो गतश्च परमां गतिम् ॥ ८६ ॥
तस्मात्त्वमपि राजेंद्र संयोगं प्राप्य तत्त्वतः ॥
तेनैव विधिना स्नात्वा त्वं पूजय दिवाकरम् ॥ ८७ ॥
यश्चैतच्छृणुयान्नित्यं पठेद्वा पुरतो रवेः ॥
तस्यान्वयेऽपि नो कुष्ठी कदाचित्सम्प्रजायते ॥ ८८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखादित्यशंखतीर्थोत्पत्तिवृत्तांतवर्णनंनाम नवोत्तरद्विशततमोऽध्यायः ॥ २०९ ॥ ॥ ॥