स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १९९

विकिस्रोतः तः
Jump to navigation Jump to search

ऋषय ऊचुः॥
तिस्रःकोट्योर्धकोटी च तीर्थानामिह भूतले॥
श्रूयते सूत कार्त्स्न्येन कीर्त्यमाना मुनीश्वरैः॥१॥

कथं लभ्येत सर्वेषां तीर्थानां स्नानजं फलम्।।
अल्पायुर्भिर्महाभाग कलिकाल उपस्थिते।।२।।

।।सूत उवाच।।
क्षेत्रत्रयमिहाख्यातं तथारण्यत्रयं महत्।।
पुरीत्रयं वनान्येव त्रीणि ग्रामास्तथात्रयः ॥ ३ ॥

तथा तीर्थत्रयं चान्यत्पर्वतत्रितयान्वितम् ॥
महानदीत्रयं चैव सर्वपातकनाशनम् ॥ ४ ॥

मर्त्यलोकेस्थितं विप्राः सर्वतीर्थफलप्रदम् ॥
सर्वेष्वेतेषु यः स्नाति स सर्वेषां फलं लभेत् ॥ ५ ॥

चतुर्विंशतिसंख्यानामिदमाह प्रजापतिः ॥
य एकस्मिंस्त्रिके स्नाति सर्व त्रिकफलं लभेत् ॥ ६ ॥

॥ ऋषय ऊचुः ॥ ॥

त्रीणि क्षेत्राणि कानीह तथारण्यानि कानि च ॥
पुर्यस्तिस्रो महाभाग काःख्याताश्च वनानि च ॥ ७ ॥

के ग्रामाः कानि तीर्थानि के नगाः सरितश्च काः ॥
नामभिर्वद नः सूत सर्वाण्येतानि विस्तरात् ॥ ८ ॥

॥ सूत उवाच ॥ ॥

कुरुक्षेत्रमिति ख्यातं प्रथमं क्षेत्रमुत्तमम् ॥
हाटकेश्वरजं क्षेत्रं द्वितीयं परिकीर्तितम् ॥ ९ ॥

प्राभासिकं तृतीयं तु क्षेत्रं हि द्विजसत्तमाः ॥
एतत्क्षेत्रत्रयं पुण्यं सर्वपातकनाशनम् ॥ ६.१९९.१० ॥

यथोक्तविधिना दृष्ट्वा नरः पापात्प्रमुच्यते ॥
यो यं काममभिध्यायन्क्षेत्रेष्वेतेषु भक्तितः ॥ ११ ॥

स्नानं करोति तस्येष्टं मनसो जायते फलम् ॥
चतुर्विंशतिमानेषु स्नातो भवति स द्विजाः॥१२॥

एकं तु पुष्करारण्यं नैमिषारण्यमेव च ॥
धर्मारण्यं तृतीयं तु तेषां संकीर्त्यते द्विजाः ॥ १३ ॥

त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥ १४ ॥

वाराणसी पुरीत्येका द्वितीया द्वारकापुरी ॥
अवन्त्याख्या तृतीया च विश्रुता भुवनत्रये ॥ १५ ॥

एतासु यो नरः स्नाति चतुर्विंशतिभाग्भवेत् ॥ १६ ॥

वृन्दावनं वनं चैकं द्वितीयं खांडवं वनम् ॥
ख्यातं द्वैतवनं चान्यत्तृतीयं धरणीतले ॥ १७ ॥

त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥१८॥

कल्पग्रामः स्मृतश्चैकः शालिग्रामो द्वितीयकः ॥
नंदिग्रामस्तृतीयस्तु विश्रुतो द्विजसत्तमाः ॥१९॥

त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥ ६.१९९.२० ॥

अग्नितीर्थं स्मृतं चैकं शुक्लतीर्थमथापरम्॥
तृतीयं पितृतीर्थं तु पितॄणामतिवल्लभम् ॥ २१ ॥

त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥ २२ ॥

श्रीपर्वतः स्मृतश्चैको द्वितीयश्चार्बुदस्तथा ॥
तृतीयो रैवताख्योऽत्र विख्यातः पर्वतोत्तमाः ॥ २३ ॥

त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥ २४ ॥

गंगा नदी स्मृता पूर्वा नर्मदाख्या तथा परा ॥
सरस्वती तृतीया तु नदी प्लक्षसमुद्भवा ॥ २५ ॥

आसु सर्वासु यः स्नाति चतुर्विंशतिभाग्भवेत् ॥ २६ ॥

एतेष्वेव हि सर्वेषु यः स्नानं कुरुते नरः ॥
सार्धकोटित्रयस्यात्र स कृत्स्नं फलमाप्नुयात् ॥ २७ ॥

यश्चैकस्मिन्नरः स्नाति स त्रिकस्य फलं लभेत् ॥ २८ ॥

एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥
संक्षेपात्तीर्थजं पुण्यं लभ्यते यन्नरैर्भुवि ॥ २९ ॥

सांप्रतं किं नु वो वच्मि यत्तद्वदत मा चिरम् ॥ ६.१९९.३० ॥

॥ ऋषय ऊचुः ॥ ॥

हाटकेश्वरजे क्षेत्रे यानि तीर्थानि सूतज ॥
तानि प्रोक्तानि सर्वाणि त्वयाऽस्माकं सुविस्तरात् ॥ ३१ ॥

तथा चायतनान्येव संख्यया रहितानि च ॥
अपि वर्षशतेनात्र स्नानं कर्तुं न शक्यते ॥ ३२ ॥

तेषु सर्वेषु मर्त्येन यथोक्तविधिना स्फुटम् ॥
देवतायतनान्येव तथा द्रष्टुं महा मते ॥ ३३ ॥

यस्मिन्स्नातो दिने चैव तस्य व्युष्टिः प्रकीर्तिता ॥
अल्पायुषस्तदा मर्त्याः कृतेऽपि परिकीर्तिताः ॥ ३४ ॥

त्रेतायां द्वापरे चापि किमु प्राप्ते कलौ युगे ॥
एवमल्पायुषो ज्ञात्वा मानवान्सूतनंदन ॥ ३५ ॥

लभेरंश्च कथं सर्वतीर्थानां स्नानजं फलम् ॥
देवदर्शनजं वापि विशेषान्निर्धनाश्च ये ॥ ३६ ॥

अस्ति कश्चिदुपायोऽत्र दैवो वा मानुषोऽपि वा ॥
येन तेषां भवेत्पुण्यं सर्वेषामेव हेलया ॥ ३७ ॥

॥ सूत उवाच ॥ ॥
अस्मिन्नर्थे पुरा पृष्टो विश्वामित्रो महामुनिः ॥
समुपेत्याश्रमं तस्य आनर्तेन महीभुजा ॥ ३८ ॥

॥ राजोवाच ॥ ॥
भगवन्नत्र तीर्थानि संख्यया रहितानि च ॥
तेषु स्नानविधिः प्रोक्तः सर्वेष्वेव पृथक्पृथक् ॥ ३९ ॥

मासे वारे दिने चैव कुत्रचिन्मुनिसत्तमैः ॥
दानानि च तथोक्तानि यथा स्नान विधिस्तथा ॥ ६.१९९.४० ॥

देवानां दर्शनं चापि पृथक्तेन प्रकीर्तितम् ॥
न शक्यते फलं प्राप्तुं सर्वेषां केनचिन्मुने ॥ ४१ ॥

अपि वर्षशतेनापि किं पुनः स्तोकवासरैः॥
तस्माद्वद महाभाग सुखोपायं च देहिनाम् ॥४२॥

एकस्मिन्नपि च स्नातस्तीर्थे प्राप्नोति मानवः॥
सर्वेषामेव तीर्थानां स्नानजं सकलं फलम् ॥ ४३ ॥

तथैकस्मिन्सुरे दृष्टे सर्वदेवसमुद्भवम् ॥
फलं दर्शनजं भावि नराणां द्विजसत्तम ॥ ४९ ॥

॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा सुचिरं ध्यात्वा विश्वामित्रो महामुनिः ॥
अब्रवीच्छृणु राजेंद्र सरहस्यं वदामि ते ॥ ४५ ॥

चत्वार्यत्र प्रकृष्टानि मुख्यतीर्थानि पार्थिव ॥
येषु स्नाने कृते राजञ्छ्राद्धे च तदनंतरम् ॥
सर्वेषामेव तीर्थानां स्नानजं लभ्यते फलम् ॥ ४६ ॥

सप्तविंशतिलिंगानि तथात्रैव स्थितानि च ॥
सिद्धेश्वरप्रपूर्वाणि सर्वपापहराणि च ॥ ४७ ॥

तेषु सर्वेषु दृष्टेषु भक्त्या पूतेन चेतसा ॥
सर्वेषामेव देवानां भवेद्दर्शनजं फलम् ॥ ४८ ॥

एकस्मिन्नपि संदृष्टे पूजिते वा सुरोत्तमे ॥
सप्तविंशतिलिंगानां पूजा तेन कृता भवेत् ॥ ४९ ॥

॥ राजोवाच ॥ ॥
कानि चत्वारि तीर्थानि तत्र मुख्यानि सन्मुने ॥
येषु स्नातो नरः सम्यक्सर्वेषां लभते फलम् ॥ ६.१९९.५० ॥

॥ विश्वामित्र उवाच ॥ ॥
अत्रास्ति कूपिका पुण्या यस्यां संश्रयते गया ॥
कृष्णपक्षे चतुर्दश्याममावास्यादिने तथा ॥ ५१ ॥

विशेषेण महाभाग कन्यासंस्थे दिवाकरे ॥
निर्विण्णा भूमिलोकानां कृतैः श्राद्धैरनेकधा ॥ ५२ ॥

यस्तस्यां कुरुते श्राद्धं सम्यक्छ्रद्धासमन्वितः ॥ ५३ ॥

तस्मिन्नहनि राजेंद्र स संतारयते पितॄन् ॥
तथा तीर्थं द्वितीयं तु शंखतीर्थमिति स्मृतम्॥ ॥ ५४ ॥

तत्र स्नात्वा नरो यस्तु पश्येच्छंखेश्वरं ततः ॥
सर्वेषां फलमाप्नोति माघस्य प्रथमेऽहनि ॥ ५५ ॥

तथा मन्नामकं तीर्थे तृतीयं मुख्यतां गतम् ॥
अत्र स्नात्वा तु यः पश्येन्मया संस्थापितं हरम् ॥ ५६ ॥

विश्वामित्रेश्वरं नाम सर्वेषां स फलं लभेत् ॥
नभस्यस्य सिताष्टम्यां सर्वेषां लभते फलम् ॥ ५७ ॥

शक्रतीर्थमिति ख्यातं चतुर्थं बालमण्डनम् ॥
तत्र स्नात्वा च पंचाहं शक्रेश्वरमवेक्ष्य च ॥
आश्विनस्य सितेऽष्टम्यां सर्वेषां लभते फलम् ॥ ५८ ॥

॥ राजोवाच ॥ ॥
विधानं वद मे विप्र गयाकूप्याः समुद्भवम् ॥
विस्तरेण महाभाग श्रद्धा मे महती स्थिता ॥ ५९ ॥ ॥

॥ विश्वामित्र उवाच ॥ ॥
अमावास्यादिने प्राप्ते तत्र कन्यागते रवौ ॥
यः श्राद्धं कुरुते भक्त्या स पितॄंस्तारयेन्निजान् ॥ ६.१९९.६० ॥

भर्तृयज्ञविधानेन शुद्धैः स्थानोद्भवैर्द्विजैः ॥
भर्तृयज्ञविधिं त्यक्त्वा योऽन्येन विधिना नरः ॥ ६१ ॥

श्राद्धं करोति मूढात्मा विहीनं स्थानजैर्द्विजैः ॥
स्थानजैरपि वाऽशुद्धैस्तस्य तद्व्यर्थतां व्रजेत् ६२ ॥

वृष्टिः स्यादूषरे यद्वत्सत्यमेतन्मयोदितम् ॥
अंधस्याग्रे यथा नृत्यं प्रगीतं बधिरस्य च ॥
तथा च व्यर्थतां याति अन्यस्थानोद्भवैर्द्विजैः ॥ ६३ ॥

ब्राह्मणैः कारयेच्छ्राद्धं मूर्खैरपि द्विजोत्तमाः ॥
चतुर्वेदा अपि त्याज्या अन्यस्थानसमुद्भवाः ॥६४॥

दवे कर्मणि पित्र्ये वा सोमपाने विशेषतः॥
देशांतरगतो यस्तु श्राद्धं च कुरुते नरः ॥
वैश्वानरपुरस्तेन कार्यं नान्यद्विजस्य च ॥ ६५॥

संनिवेश्य दर्भबटूञ्छ्राद्धं कुर्याद्द्विजोत्तमाः ॥
दक्षिणा भोजनं देयं स्थानिकानां चिरादपि ॥ ६६ ॥

पंचगव्यस्य संपूर्णो यथा कुम्भः प्रदुष्यति ॥
बिंदुनैकेन मद्यस्य पतितेन नृपोत्तम ॥ ६७ ॥

एकेनापि च बाह्येन बहूनामपि भूपते ॥
मध्ये समुपविष्टेन तच्छ्राद्धं दोषमाप्नुयात् ॥ ६८ ॥

स्थानजोऽपि चतुर्वेदो यद्यपि स्यान्न शुद्धिभाक् ॥
बहूनामपि शुद्धानां मध्ये श्राद्धं विनाशयेत् ॥ ६९ ॥

तस्मात्सर्वप्रयत्नेन शुद्धं ब्राह्मणमानयेत् ॥ ६.१९९.७० ॥

स्थानिकं मूर्खमप्येवमलाभे गुणिनामपि ॥
हीनांगमधिकांगं वा दूषितं नो तथा परम् ॥ ७१ ॥

कन्यादाने तथा श्राद्धे कुलीनो ब्राह्मणः सदा ॥
आहर्तव्यः प्रयत्नेन य इच्छेच्छुभमात्मनः ॥
सोऽपि शुद्धिसमायुक्तो यदि स्यान्नृपसत्तम ॥ ७२ ॥

वृक्षाणां च यथाऽश्वत्थो देवतानां यथा हरिः॥
श्रेष्ठस्थानजविप्राणां तथा चाष्टकुलोद्भवः ॥ ७३ ॥

आयुधानां यथा वज्रं सरसां सागरो यथा ॥
श्रेष्ठस्थानजविप्राणां तथाष्टकुलसंभवः ॥ ७४ ॥

उच्चैःश्रवा यथाऽश्वानां गजानां शक्रवाहनः ॥
श्रेष्ठस्थानजविप्राणां तथाष्टकुलसंभवः ॥ ७५ ॥

नदीनां च यथा गंगा सतीनां चाप्यरुंधती ॥
तद्वत्स्थानजविप्राणां श्रेष्ठोऽष्टकुलिकः स्मृतः ॥ ७६ ॥

ग्रहाणां भास्करो यद्वन्नक्षत्राणां निशाकरः ॥
तद्वत्स्थानजविप्राणां श्रेष्ठोऽष्टकुलिकः स्मृतः ॥ ७७ ॥

पर्वतानां यथा मेरुर्द्विपदानां द्विजोत्तमः ॥
स्थानजानां तु विप्राणां श्रेष्ठोऽष्टकुलिकस्तथा ॥ ७८ ॥

पक्षिणां गरुडो यद्वत्सिंहोऽरण्यनिवासिनाम् ॥
स्थानजानां तु विप्राणां श्रेष्ठोऽष्टकुलिकस्तथा ॥ ७९ ॥

एवं ज्ञात्वा प्रयत्नेन श्राद्धे यज्ञे च पार्थिव ।
कन्यादाने विशेषेण योज्यश्चाष्टकुलोद्भवः ॥ ६.१९९.८० ॥

नृत्यंति पितरस्तस्य गर्जंति च पितामहाः ॥
वेदिमूले समालोक्य प्राप्तमष्टकुलं नृप ॥ ८१ ॥

पुनर्वदंति संहृष्टाः किमस्माकं प्रदास्यति ॥
दौहित्रश्चापसव्येन जलं दर्भतिलान्वितम् ॥ ८२ ॥

॥ राजोवाच ॥ ॥
यदेतद्भवता प्रोक्तं श्रैष्ठ्यमष्टकुलोद्भवम् ॥
सर्वेषां नागराणां च तत्किं वद महामते ॥८३॥

न ह्यत्र कारणं स्वल्पं भविष्यति द्विजोत्तम ॥ ८४ ॥

॥ विश्वामित्र उवाच ॥ ॥
सत्यमेतन्महाराज यत्त्वया व्याहृतं वचः ॥
अन्येऽपि नागराः संति वेदवेदांगपारगाः॥८५॥

श्राद्धार्हा यज्ञयोग्याश्च कन्यायोग्या विशेषतः॥
परं ते स्थापिता राजन्स्वयमिंद्रेण तत्र च ॥ ८६ ॥

प्रधानत्वेन सर्वेषां नागरैश्चापि कृत्स्नशः ॥
तेन ते गौरवं प्राप्ताः स्थानेत्रैव विशेषतः ॥ ८७ ॥

तस्माच्छ्रूाद्धं प्रकर्तव्यं विप्रै श्चाष्टकुलोद्भवैः ॥
अप्राप्तौ चैव तेषां तु कार्यं नागरसंभवैः ॥ ८८ ॥

नान्यस्थानसमुद्भूतैश्चतुर्वेदैरपि द्विजैः ॥
भर्तृयज्ञेन मर्यादा कृता ह्येषा महा त्मना ॥ ८९ ॥

मुक्त्वा तु नागरं विप्रं योऽन्येनात्र करिष्यति ॥
श्राद्धं वा यदि वा यज्ञं व्यर्थं तस्य भविष्यति ॥६.१९९.९० ॥

॥ राजोवाच ॥ ॥
संत्यन्ये विविधा विप्रा वेदवेदांगपारगाः ॥
मध्यदेशोद्भवाः शान्तास्तथान्ये तीर्थसंभवाः ॥ ९१ ॥

भर्तृयज्ञेन ये त्यक्ताः श्राद्धे यज्ञे विशेषतः ॥
हीनांगाश्चाधिकांगाश्च द्विर्नग्नाः श्यावदंतकाः ॥ ९२ ॥

कुनखाः कुष्ठसंयुक्ता मूर्खा अपि विगर्हिताः ॥
श्राद्धार्हाः सूचितास्तेन एतं मे संशयं वद ॥ ९३ ॥

॥ विश्वामित्र उवाच ॥ ॥
कीर्तयिष्ये नरव्याघ्र कारणानि बहूनि च ॥
चमत्कारस्य पत्न्याश्च दानेन पतिता यतः॥ ९४ ॥

स्त्रीणां प्रतिग्रहेणैव विप्रेषु प्रोषितेषु च ॥
पृथक्त्वं च ततो जातं बाह्याभ्यन्तरसंज्ञकम् ॥ ९५ ॥

दुर्वाससा ततः शप्ता रुष्टेनेवाहिना यथा ॥
विद्याधनाभिमानेन शापेन पतिताः सदा ॥ ९६ ॥

कुशे राज्यगते राजन्राक्षसानां महाभयम् ॥
प्रजयाऽऽवेदितं सर्वं तस्य राज्ञो महात्मनः ॥ ९७ ॥

विभीषणस्य लंकायां दूतश्च प्रेषितस्तदा ॥
सर्वं निवेदयामास प्रजानां भयसंभवम् ॥ ९८ ॥

अभिवन्द्य कुशादेशं रामस्य चरितं स्मरन् ॥
पुर्यां विलोकयामास लङ्कायां रामशासनात् ॥ ९९ ॥

उपप्लवस्य कर्तारो नष्टाः सर्वे दिशो दश ॥
गन्धर्वाणां च लोकं हि भयेन महता गताः ॥ ६.१९९.१०० ॥

स्थातुं तत्र न शक्तास्ते विभीषणभयेन च ॥
पृथिव्यां समनुप्राप्ताः स्थानान्यपि बहूनि च ॥ १०१ ॥

भयेन महता तत्र कुशस्यैव तु शासने ॥
ब्राह्मणानां च रूपाणि कृत्वा तत्र समागताः ॥ १०२ ॥

वाडवानां महिम्ना च मध्ये स्थातुं न तेऽशकन् ॥
पतितानां च संस्थानं चमत्कारपुरं गताः ॥ १०३ ॥

मायाविशारदैस्तैश्च धनेन विद्यया ततः ॥
अध जग्धं ततस्तैस्तु तेषां मध्ये स्थितं च तैः ॥ १०४ ॥

ततःप्रभृति ते सर्वे राक्षसत्वं प्रपेदिरे ॥
क्रूराण्यपि च कर्माणि कुर्वंति च पदेपदे ॥ १०५ ॥

ततस्ते सर्वथा राजन्वर्जनीयाः प्रयत्नतः ॥
श्राद्धे यज्ञे नरव्याघ्र नरके पातयंति च ॥ ॥ १०६ ॥

अन्यच्च दूषणं तेषां कीर्तयिष्ये तवाऽनघ ॥
त्रिजाताः स्थापिता राजन्सर्पाणां गरनाशनात् ॥ १०७ ॥

नगरत्वं ततो जातं चमत्कार पुरस्य तु ॥
त्रिजातत्वं तु सर्वेषां जातं तत्र विशेषतः ॥ १०८ ॥

एतेभ्यः कारणेभ्यश्च भर्तृयज्ञेन वर्जिताः ॥
पुनश्च कारणं तेषां स्पर्शादपि न शुद्धिभाक् ॥ १०९ ॥

कुम्भकोत्थं च संप्राप्तं महच्चण्डालसंभवम् ॥ ६.१९९.११० ॥

॥ राजोवाच ॥ ॥
एतच्च कारणं विप्र कथयस्व प्रसादतः ॥
स्थावरस्य चरस्यैव जगतो ज्ञानमस्ति ते ॥ १११ ॥

॥ विश्वामित्र उवाच ॥ ॥
अत्र ते कीर्तयिष्यामि पूर्ववृत्तकथांतरम् ॥
भर्तृयजेन ये त्यक्ताः सर्वेन्ये ब्राह्मणोत्तमाः ॥ ११२ ॥

वर्धमाने पुरे पूर्वमासीदंत्यजजातिजः ॥
चण्डालः कुंभकोनाम निर्दयः पापकर्मकृत् ॥ ११३ ॥

कस्यचित्त्वथ कालस्य तस्य पुत्रो बभूव ह ॥
विरूपस्यापि रूपाढ्यः पूर्वकर्मप्रभावतः ॥ ११४ ॥

पिंगाक्षस्य सुकृष्णस्य वयोमध्यस्य पार्थिव ॥
दक्षः सर्वेषु कृत्येषु सर्वलक्षणलक्षितः ॥ ११५ ॥

स वृद्धिं द्रुतमभ्येति शुक्लपक्षे यथोडुराट् ॥
तथाऽसौ शंस्यमानस्तु सर्वलोकैः सुरूपभाक् ॥
दृष्ट्वा कुटुंबकं नित्यं वैराग्यं परमं गतः ॥११६॥

ततो देशांतरं दुःखाद्भ्रममाण इतस्ततः ॥
चमत्कारपुरं प्राप्तो द्विजरूपं समाश्रितः ॥
स स्नाति सर्वकृत्येषु भिक्षान्नकृतभोजनः ॥ ११७ ॥

एतस्मिन्नेव काले तु ब्राह्मणः शंसितव्रतः ॥
छांदोग्यगोत्रविख्यातः सुभद्रोनाम पार्थिवः ॥ ११८ ॥

नागरो वर्षयाजी च वेदवेदांगपारगः ॥
तत्रासीत्तस्य सञ्जाता कन्यका द्विगुणै रदैः ॥ ११९ ॥

तथा त्रिभिःस्तनै रौद्रा पृष्ठ्यावर्तकसंयुता ॥
दरिद्रोऽपि सुदुःस्थोऽपि कुलहीनोपि पार्थिव॥६.१९९.१२०॥।

दीयमानामपि न तां प्रतिगृह्णाति कश्चन ॥
यद्भक्षयति भर्तारं षण्मासाभ्यंतरे हि सा ॥१२१॥

यस्याः स्युर्द्विगुणा दंता एवं सामुद्रिका जगुः ॥
त्रिस्तनी कन्यका या तु श्वशुरस्य कुलक्षयम् ॥
संधत्ते नात्र सन्देहस्तस्मात्तां दूरतस्त्यजेत् ॥१२२॥

पृष्ठ्यावर्तो भवेद्यस्या असती सा भवेद्द्रुतम् ॥
बहुपापसमाचारा तस्मात्तां परिवर्जयेत् ॥ १२३ ॥

अथ तां वृद्धिमापन्नां दृष्ट्वा विप्रः सुभद्रकः ॥
चिन्ताचक्रं समारूढो न शांतिमधिगच्छति ॥ १२४ ॥

किं करोमि क्व गच्छामि कथमस्याः पतिर्भवेत् ॥
न कश्चित्प्रतिगृह्णाति प्रार्थितोऽपि मुहुर्मुहुः ॥ १२५ ॥

दरिद्रो व्याधितो वाऽपि वृद्धोऽपि ब्राह्मणो हि सः ॥
स्मृतौ यस्मादिदं प्रोक्तं कन्यार्थे प्राङ्महर्षिभिः ॥ १२६ ॥

अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी ॥
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥ १२७ ॥

माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ॥
त्रयस्ते नरकं यांति दृष्ट्वा कन्यां रजस्वलाम् ॥ १२८ ॥

एवं चिन्तयतस्तस्य सोंऽत्यजो द्विजरूपधृक् ॥
भिक्षार्थं तद्गृहं प्राप्तो दृष्टस्तेन महात्मना ॥ १२९ ॥

पृष्टश्च विस्मयात्तेन दृष्ट्वा रूपं तथाविधम् ॥
कुतस्त्वमिह सम्प्राप्तः क्व यास्यसि च भिक्षुक ॥ ६.१९९.१३० ॥

ईदृग्भव्यतरो भूत्वा कस्मान्माधुकरीं गतः ॥
किं गोत्रं तव मे ब्रूहि कतमः प्रवरश्च ते ॥ १३१ ॥

सोऽब्रवीद्गौडदेशीयं स्थानं मे सुमहत्तरम् ॥
नाम्ना भोजकटं ख्यातं नानाद्विजसमाश्रितम् ॥ १३२ ॥

तत्रासीन्माधवोनाम ब्राह्मणो वेदपारगः ॥
वसिष्ठगोत्रविख्यात एकप्रवरसूचितः ॥ ॥ १३३ ॥

तस्याहं तनयो नाम्ना चंद्रप्रभ इति स्मृतः ॥ १३४ ॥

ततोऽहमष्टमे वर्षे यदा व्रतधरः स्थितः ॥
तदा पंचत्वमापन्नः पिता मे वेदपारगः ॥ १३५ ॥

माता मे सह तेनैव प्रविष्टा हव्यवाहनम् ॥
ततो वैराग्यमापन्नो निष्क्रांतोऽहं निजालयात् ॥ १३६ ॥

तीर्थानि भ्रममाणोऽत्र संप्राप्तस्तु पुरं तव ॥
अधुना संप्रयास्यामि प्रभासं क्षेत्रमुत्तमम् ॥ १३७ ॥

यत्र सोमेश्वरो देवस्त्यक्त्वा कैलासमागतः ॥
न मया पठिता वेदा न च शास्त्रं नृपोत्तम॥
तीर्थयात्राप्रसंगेन तेन भिक्षां चराम्यहम् ॥ १३८ ॥

॥ विश्वामित्र उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा चिन्तयामास चेतसि ॥
ब्राह्मणोऽयं सुदेशीयस्तथा भव्यतमाकृतिः ॥
यदि गृह्णाति मे कन्यां तदस्मै प्रददाम्यहम् ॥ १३९ ॥

यावद्रजस्वला नैव जायते सा निरूपिता ॥
कृत्स्नं दूषयति क्षिप्रं नैव वंशं ममाधमा ॥ ६.१९९.१४० ॥

ततः प्रोवाच तं म्लेच्छं संमंत्र्य सह भार्यया ॥
यदि गृह्णासि मे कन्यां तव यच्छाम्यहं द्विज ॥ १४१ ॥

भरणं पोषणं द्वाभ्यां करिष्यामि सदैव हि ॥१४२॥

तच्छ्रुत्वा हर्षितः प्राह सोंऽत्यजो नृपसत्तमम् ॥
तवादेशं करिष्यामि यच्छ मे कन्यकां नृप ॥ १४३ ॥

तथेत्युक्त्वा गतस्तेन तस्मै दत्ता निजा सुता ॥
गृह्योक्तेन विधानेन विवाहो विहितस्ततः ॥ १४४ ॥

ततो ददौ धनं धान्यं गृहं क्षेत्रं च गोधनम् ॥
तस्मै तुष्टिसमायुक्तो मन्यमानः कृतार्थताम् ॥ १४५ ॥

अथ सोऽपि च तां प्राप्य विलासानकरोद्बहून् ॥
खाद्यैः पानैः सुवस्त्रैश्च गन्धमाल्यैर्विभूषणैः ॥ १४६ ॥

परं स व्रजति प्रायो येन मार्गेण केनचित् ॥
सारमेयाः सशब्दाश्च पृष्ठतोऽनुव्रजंति वै ॥ १४७ ॥

अन्येषामंत्यजात्यानां यद्वत्तस्य विशेषतः ॥
वेदाभ्यासपरश्चैव यदि संजायते क्वचित् ॥
रक्तं पतति वक्त्रेण तत्क्षणात्तस्य दुर्मतेः ॥ १४८ ॥

एतस्मिन्नंतरे लोकः सर्व एव प्रशंकितः ॥
अब्रवीच्च मिथोऽभ्येत्य चंडालोऽयमसंशयम् ॥ १४९ ॥

यदेते पृष्ठतो यांति भषमाणाः शुनीसुताः ॥
सुभद्रोऽपि च तत्तेषां श्रुत्वा चिन्तापरोऽभवत् ॥ ६.१९९.१५० ॥

मन्यमानश्च तत्सत्यं दुःखेन महतान्वितः ॥
नूनमंत्यजजातीयो भविष्यति सुतापतिः ॥ १५१ ॥

ज्ञायते चेष्टितैः सर्वैर्यथाऽयं जल्पते जनः ॥ १५२ ॥

एवं रात्रिंदिवं तस्य चिन्तयानस्य भूपतेः ॥
लोकापवादयुक्तस्य कियान्कालोऽभ्यवर्तत ॥ १५३ ॥

अन्यस्मिन्नहनि प्राप्ते आद्याद्या द्विजसत्तमाः ॥
मध्यगेन समायुक्ता ब्रह्मस्थानं समागताः ॥
तस्य शुद्धिकृते प्रोचुर्येन शंका प्रणश्यति ॥ १५४ ॥

अथोचुस्तं द्विजश्रेष्ठा ब्रह्मस्थानस्य मध्यगम् ॥
मध्यगस्य तु वक्त्रेण विवर्णवदनं स्थितम् ॥ १५५ ॥

कुलं गोत्रं निजं ब्रूहि प्रवरांश्च विशेषतः ॥
स्थानं देशं च विप्राणां येन शुद्धिः प्रदीयते ॥ १५६ ॥

अथासौ वेपमानस्तु प्रस्विन्नवदनस्तथा ॥
अधोदृष्टिरुवाचेदं गद्गदं विहिताञ्जलिः ॥ १५७ ॥

गर्भाष्टमे पिता मह्यं वर्षे मृत्युं गतस्ततः ॥
ततः सा तं समादाय जननी मे पतिव्रता ॥
मां त्यक्त्वा दुःखितं दीनं प्रविष्टा हव्यवाहनम् ॥ १५८ ॥

अहं वैराग्यमापन्नस्तीर्थयात्रां समाश्रितः ॥
बालभावे पितुर्दुःखात्तापसैरपरैः सह ॥ १५९ ॥

न मया पठितो वेदो न च शास्त्रं निरूपितम्॥
तीर्थयात्रापरोऽहं च समायातो भवत्पुरम् ॥ ६.१९९.१६०

अभद्रेण सुभद्रेण श्वशुरेण दुरात्मना ॥
एतज्जानाम्यहं विप्रा गोत्रं वासिष्ठमेव वा ॥ १६१ ॥

अथैकप्रवरो देशो गौडो मधुपुरं पुरम् ॥
ततस्ते ब्राह्मणाः प्रोचुर्यस्य नो ज्ञायते कुलम् ॥
तस्य शुद्धिः प्रदातव्या धटद्वारेण केवला ॥१६२॥

स त्वं धटं समारुह्य ब्राह्मण्यार्थं च केवलम् ॥
शुद्धिं प्राप्य ततो भोगान्भुंक्ष्वात्रस्थोऽपि केवलम् ॥ १६३ ॥

सोऽब्रवीत्साहसं कृत्वा सर्वानेव द्द्विजोत्तमान् ॥
प्रतिगृह्णाम्यहं कामं तप्तमाषकमेव च॥१६४॥
प्रविशामि हुताशं वा भक्षयिष्याम्यहं विषम्॥१६५॥

किं पुनर्धटदिव्यं च क्रियमाणे सुखावहम् ॥
ब्राह्मणस्य कृते विप्राश्चित्ते नो मामके घृणा ॥ १६६ ॥

अथ ते ब्राह्मणास्तस्य धटारोहणसंभवम् ॥
शुद्धिं निर्दिश्य वारं च सूर्यस्य च ततः परम् ॥
जग्मुः स्वंस्वं गृहं सर्वे सोऽपि विप्रोंऽत्यजो द्विजाः ॥ १६७ ॥

ततः प्राह निजां भार्यां रहस्ये नृपसत्तम॥
ज्ञातोऽहं ब्राह्मणैः सर्वैरंत्यजातिसमुद्भवः ॥
देशातरं गमिष्यामि त्वमागच्छ मया सह ॥ १६८ ॥

॥ भार्योवाच ॥ ॥
अहमग्निं प्रवेक्ष्यामि न यास्यामि त्वया सह ॥
पापबुद्धे पतिष्यामि न चाहं नरकाग्निषु ॥ १६९ ॥

बुध्यमाना न सेविष्ये त्वामंत्यजसमुद्भवम् ॥
पाप संदूषितं सर्वं त्वयैतत्स्थानमुत्तमम् ॥ ६.१९९.१७० ॥

तथा मम पितुर्हर्म्यं संवत्सरप्रयाजिनः ॥
तस्माद्द्रुततरं गच्छ यावन्नो वेत्ति कश्चन ॥ १७१ ॥

नो चेत्पापसमाचार संप्राप्स्यसि महाऽऽपदम् ॥ १७२ ॥

ततो निशामुखे प्राप्ते कौपीनावरणान्वितः ॥
नष्टोऽभीष्टां दिशं प्राप्य तदा जीवितजाद्भयात् ॥ १७३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागराष्टकुलश्रैष्ठ्यवर्णनंनामैकोनद्विशततमोऽध्यायः ॥ १९९ ॥ ॥ छ ॥