स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १६४

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे पुष्पः प्रहृष्टेनान्तरात्मना ॥
चंडशर्मगृहं गत्वा दिष्ट्यादिष्ट्येति चाब्रवीत् ॥ १ ॥
विवर्णवदनं दृष्ट्वा वाष्पपूर्णेक्षणं तदा ॥
बान्धवैः सहितं सर्वैर्दारैर्भृत्यैस्तथा सुतैः ॥ २ ॥
॥ पुष्प उवाच ॥ ॥
तवार्थे च मया सूर्यः कायत्यागेन तोषितः ॥
पतितत्त्वं न ते काये तत्प्रसादाद्भविष्यति ॥ ॥ ३ ॥
तव पुत्राश्च पौत्राश्च ये भविष्यंति वंशजाः ॥
नागराणां च ते सर्वे भविष्यंति गुणाधिकाः ॥ ४ ॥
तस्मादुत्तिष्ठ गच्छामो नदीं पुण्यां सरस्वतीम् ॥
तस्यास्तटे निवासाय कृत्वा चैवाश्रमं द्विज ॥ ५ ॥
त्वया सह वसिष्यामि अहमेव न संशयः ॥
अस्ति मे विपुलं वित्तं ये चान्ये तेऽनुयायिनः ॥ ६ ॥
तान्सर्वान्पोषयिष्यामि त्यज्यतां मानसो ज्वरः ॥
तच्छ्रुत्वा चण्डशर्मा तु पुत्रैर्बंधुभिरन्वितः ॥ ७ ॥
सरस्वतीं समुद्दिश्य निष्क्रांतो नगरात्ततः ॥
स्थानं प्रदक्षिणीकृत्य नमस्कृत्य सुदुःखितः ॥ ८ ॥
बाष्पपूर्णेक्षणो दीन उत्तराभिमुखो ययौ ॥
पुष्पेण सहितश्चैव मुहुर्मुहुः प्रबोधितः ॥ ९ ॥
ततः सरस्वतीं प्राप्य पुण्यां शीतजलां नदीम् ॥
सेवितां मुनिसंघैस्तां लोलकल्लोलमालिनीम् ॥ 6.164.१० ॥
तस्या दक्षिणकूले स निवासमकरोत्तदा ॥
पुष्पस्य मतिमास्थाय बन्धुभिः सकलैर्वृतः ॥ ११ ॥
तस्यासीन्नगरस्थस्य प्रतिज्ञा चण्डशर्मणः ॥
सप्तविंशति भिर्लिंगैर्दृष्टैभोक्ष्याम्यहं सदा ॥ १२ ॥
तां च संस्मरतस्तस्य प्रतिज्ञां पूर्वसंचिताम् ॥
हृदयं दह्यते तस्य दिवानक्तं द्विजोत्तमाः ॥ १३ ॥
स च स्नात्वा सरस्वत्यां शुचिर्भूत्वा समाहितः ॥
षडक्षरस्य मन्त्रस्य जपं चक्रे पृथक्पृथक् ॥ १४ ॥
नाम चोच्चार्य लिंगस्य नमस्कारान्तमादधे ॥
कर्दमेन द्विजश्रेष्ठाः पंचांगुलशतेन च ॥ १५ ॥
संस्थाप्य पूजयेद्भक्त्या पुष्पधूपानुलेपनैः ॥
प्राणरुद्राञ्जपन्पश्चाच्छ्रद्धया परया युतः ॥ १६ ॥
दुःस्थितं सुस्थितं वापि शिवलिंगं न चालयेत् ॥
इति मत्वा द्विजेन्द्रोऽसौ नैव तानि विसर्जयेत् ॥ १७ ॥
उपर्युपरि तेषां च कर्दमेन द्विजोत्तमाः ॥
चक्रे लिंगानि नित्यं स सप्तविंशतिसंख्यया ॥ १९ ॥
ततः कालेन महता जातः कर्दमपर्वतः ॥ १९ ॥
अथ तुष्टो महादेवस्तस्य भक्त्यतिरेकतः ॥
निर्भिद्य धरणीपृष्ठं तस्य लिंगमदर्शयत् ॥ 6.164.२० ॥
अब्रवीत्सादरं तं च मेघगम्भीरया गिरा ॥
चण्डशर्मन्प्रतुष्टोस्मि तव भक्त्याऽनया द्विज ॥ २१ ॥
तस्माल्लिंगमिदं नित्यं पूजयस्व प्रभक्तितः ॥
सप्तविंशतिलिंगानां यतः फलमवाप्स्यसि ॥ २२ ॥
अन्योपि च नरो भक्त्या यश्चैनं पूजयिष्यति ॥
सप्तविंशतिलिंगानां सोऽपि श्रेयोऽभिलप्स्यति ॥ २३ ॥
एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥
चंडशर्मापि तं हृष्टः पूजयामास तत्त्वतः ॥ २४ ॥
प्रासादं कारयामास तस्य लिंगस्य शोभनम् ॥
नाम चक्रे ततस्तस्य विचार्य च मुहुर्मुहुः ॥ २५ ॥
नगरस्थित लिंगानां यस्मात्संस्मरणात्स्थितः ॥
नागरेश्वरसंज्ञस्तु तस्मादेष भविष्यति ॥ २६ ॥
॥ सूत उवाच ॥ ॥
एवं संस्थाप्य तल्लिंगं चंडशर्मा द्विजोत्तमाः ॥
आराधयामास तदा पुष्पधूपानुलेपनैः ॥२७॥
सप्तविंशतिलिंगानां प्राप्नोति च तथा फलम् ॥
पूजितानां द्विजश्रेष्ठा नगरे यानि तानि च ॥ ॥ २८ ॥
ततः कालेन महता नागरेश्वरतुष्टितः ॥
शिवलोकं गतः साक्षाद्यानमध्ये निवेशितः ॥२९॥
पुष्पोपि स्थापयामास पुष्पादित्यमथापरम्॥
पुण्ये सरस्वतीतीरे ततः पूजापरोऽभवत् ॥ 6.164.३० ॥
तस्यापि दर्शनं गत्वा प्रीत्या वचनमब्रवीत् ॥
पुष्प तुष्टोस्मि भद्रं ते वरं प्रार्थय सुव्रत ॥ ३१ ॥
अदेयमपि दास्यामि तस्मात्प्रार्थय मा चिरम् ॥ ३२ ॥
॥ पुष्प उवाच ॥ ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
तद्देहि याचमानस्य मम यद्धृदि संस्थितम् ॥ ३३ ॥
चमत्कारपुरे देव तव या मूर्तयः स्थिताः ॥
द्वादशैव प्रमाणेन पूज्याः सर्वदिवौकसाम् ॥ ३४ ॥
तासां पूजाफलं कृत्स्नं संप्राप्नोतु नरो भुवि ॥
यः पूजयति मूर्तिं ते यैषा संस्थापिता मया ॥ ३५ ॥
नागरादित्य इत्येषा ख्याता भवतु भूतले ॥
येयं सरस्वतीतीरे प्रासादे स्थापिता मया ॥ ३६ ॥
॥ सूत उवाच ॥ ॥
स तथेति प्रतिज्ञाय गतश्चादर्शनं रविः ॥
दीपवद्ब्राह्मणश्रेष्ठास्तदद्भुतमिवा भवत् ॥ ३७ ॥
ततः कालेन महता पुष्पोपि द्विजसत्तमाः ॥
सूर्यलोकमनुप्राप्तो विमानेन सुवर्चसा ॥ ३८ ॥
शाकम्भरीति विख्याता भार्याऽऽसीच्चंडशर्मणः ॥
तया संस्थापिता दुर्गा सरस्वत्याः शुभे तटे ॥ ३९ ॥
आराधिताऽथ सद्भक्त्या दिवानक्तं द्विजोत्तमाः ॥
ततस्तुष्टा वरं तस्याः सा ददौ द्विजसत्तमाः ॥6.164.४॥।
पुत्रि तुष्टास्मि भद्रं ते शाकंभरि प्रगृह्यताम् ॥
वरं यत्ते सदाभीष्टं मत्प्रसादादसंशयम् ॥४१॥
॥ शाकम्भर्युवाच ॥ ॥
चतुःषष्टिगणा देवि मातृणां ये व्यवस्थिताः॥
चमत्कारपुरे ख्याता हास्यात्तुष्टिं व्रजंति याः ॥ ४२ ॥
या रात्रौ बलिदानेन जाते वृद्धौ ततः परम्॥
तत्सर्वं जायतां पुण्यं यस्ते मूर्तिं प्रपूजयेत्॥ ४३ ॥
अत्रागत्य नदीतीरे यैषा संस्थापिता मया ॥ ४४ ॥
॥ श्रीदेव्युवाच ॥ ॥
आश्विनस्य सिते पक्षे महानवमिसंज्ञिते ॥
यो ममाग्रे समागत्य पूजयिष्यति भक्तितः ॥ ४५ ॥
तस्य कृत्स्नं फलं सद्यो भविष्यति न संशयः ॥
नागरस्य विशेषेण सत्यमेतन्मयोदितम् ॥ ४६ ॥
एवमुक्त्वा तु सा देवी ततश्चादर्शनं गता ॥
तस्या नाम्ना च सा देवी प्रोक्ता शाकम्भरी भुवि ॥ ४७ ॥
वृद्धेरनंतरं तस्या यः पूजां कुरुते नरः ॥
तस्य वृद्धेर्न विघ्नः स्यात्कदाचिद्द्विजसत्तमाः ॥ ४८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये नागरेश्वरनागरादित्यशाकम्भर्युत्पत्तिवर्णनंनाम चतुःषष्ट्युत्तरशततमोsध्यायः ॥ १६४ ॥