स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १५१

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ॥ सूत उवाच ॥ ॥
अन्धकोऽपि परां विद्यां ज्ञात्वा शुक्रार्जितां तदा ॥
केलीश्वर्याः प्रसादं च भक्तिजं बलवृद्धिदम्॥ १ ॥
अवध्यतामात्मनश्च पितामहवरोद्भवम् ॥
महेश्वरं समुद्दिश्य कोपं चक्रे ततः परम् ॥ २ ॥
दूतं च प्रेषयामास कैलासं पर्वतं प्रति ॥
गच्छ दूत हरं ब्रूहि मम वाक्येन सांप्रतम् ॥ ३ ॥
शक्रमेनं परित्यज्य सुखं तिष्ठात्र पर्वते ॥
नो चेद्द्रुतं समागत्य सकैलासं सभार्यकम्॥ ४ ॥
सगणं च रणे हत्वा सुखी स्थास्यामि नंदने ॥
त्वामहं नाशयिष्यामि सत्येनात्मानमालभे ॥ ५ ॥
एवमुक्तः स दैत्येन दूतो गत्वा द्रुतं ततः ॥
प्रोवाच शंकरं वाक्यैः परुषैः स विशेषतः ॥ ६ ॥
ततः कोपपरीतात्मा भगवान्वृषभध्वजः ॥
गणान्संप्रेषयामास वधार्थं तस्य दुर्मतेः ॥ ७ ॥
वीरभद्रं महाकालं नंदिं हस्तिमुखं तथा ॥
अघोरं घोरनादं च घोरघंटं महाबलम् ॥ ८ ॥
एतेषामनुगाश्चान्ये कोटिरेका पृथक्पृथक्॥
सर्वान्संप्रेषयामास वधार्थं तस्य दुर्मतेः ॥ ९ ॥
अथ संप्रेषितास्तेन गणास्ते विकृताननाः ॥
हर्षेण महताविष्टा गर्जमाना यथा घनाः ॥ ६.१५१.१० ॥
धृतायुधा गताः सर्वे युद्धार्थं यत्र सा पुरी ॥
शक्रस्यासादिता तेन दानवेन बलीयसा ॥ ११ ॥
अथ प्राप्तान्गणान्दृष्ट्वा दानवास्ते धृतायुधाः ॥
निश्चक्रमुर्वै सहसा युद्धार्थमतिगर्विताः ॥ १२ ॥
ततः समभवद्युद्धं गणानां दानवैः सह ॥
परस्परं महारौद्रं मृत्युं कृत्वा निवर्तनम् ॥ १३ ॥
ततो हरगणाः सर्वे दानवैस्तै रणाजिरे ॥
जिता जग्मुर्दिशो भीता हरवीक्षणतत्पराः ॥ १४ ॥
हरोऽपि तान्गणान्भग्नान्दृष्ट्वा कोपाद्विनिर्ययौ ॥
हरं दृष्ट्वा ततो दैत्या दुद्द्रुवुस्ते दिशो दश ॥ १५ ।
अन्धकोऽपि हरं दृष्ट्वा युद्धार्थं संमुखो ययौ ।
ततो युद्धं समभवदंधकस्य हरेण तु ॥
वृत्रवासवयोः पूर्वं यथा युद्धमभून्महत् ॥ १६ ॥
चक्रनालीकनाराचैस्तोमरैः खड्गमुद्गरैः॥
एवं न शक्यते हंतुं दानवो विविधायुधैः ॥ १७ ॥
अस्त्रयुद्धं परित्यज्य बाहु युद्धमुपागतौ ॥
करं करेण संगृह्य मुष्टिप्रहरणौ तदा॥१८।
दानवेनाथ देवेशो बंधेनाक्रम्य पीडितः ।
निष्पंदभावमापन्नस्ततो मूर्च्छामुपागतः ॥१९॥
मूर्छागतं तु तज्ज्ञात्वा ह्यन्धको निर्ययौ गृहात् ॥
तावत्स्थाणुः क्षणाल्लब्ध्वा चेतनामात्तकार्मुकः ॥ ६.१५१.२० ॥
आयसीं लकुटीं गृह्य प्रभुर्भारसहसि काम् ॥
दानवेन्द्रं ततः प्राप्य ताडयामास मूर्धनि ॥ २१ ॥
सोऽपि खड्गेन देवेशं ताडयामास वेगतः ॥
अथ देवोऽपि सस्मार कौबेरास्त्रं महाहवे ॥ ॥ २२॥
अस्त्रेण तेन हृदये ताडयामास दानवम् ॥
ततः स ताडितस्तेन रुधिरोद्गारमुद्वमन् ॥ २३ ॥
पतितोऽधोमुखो भूत्वा ततः शूलेन भेदितः॥
शूलाग्रसंस्थितः पापश्चक्रवद्भ्रमते ततः ॥ २४ ॥
अन्धकोऽपि तदात्मानं तथावस्थमवेक्ष्य च ॥
ततो वाग्भिः सुपुष्टाभिरस्तौद्देवं महेश्वरम् ॥ २५ ॥
॥ ॥ अन्धक उवाच ॥ ॥
नमस्ते जगतां धात्रे शर्वाय त्रिगुणात्मने ॥
वृषभासनसंस्थाय शशांककृतभूषण ॥ २६ ॥
नमः खट्वांगहस्ताय नमः शूलधराय च ॥
नमो डमरुकोदण्डकपालानलधारिणे ॥ २७ ॥
स्मरदेहविनाशाय मूर्त्यष्टकमयात्मने ॥
नमः स्वरूपदेहाय ह्यरूपबहुरू पिणे ॥ २८ ॥
उत्तमांगविनाशाय विरिंचेः सृष्टिकारिणे ॥
स्मशानवासिने नित्यं नमो भैरवरूपिणे ॥ २९ ॥
सर्वगः सर्वकर्ता च त्वं हर्ता नान्य एव हि ॥
त्वं भूमिस्त्वं रजश्चैव त्वं ज्योतिस्त्वं तमस्तथा ॥ ६.१५१.३० ॥
त्वं वपुः सर्वभूतानां जीवभूतो महेश्वर ॥
अस्तौदेवं दानवेन्द्रो देवशूलाग्र संस्थितः ॥ ३१ ॥
॥ सूत उवाच ॥ ॥
एवं तस्य स्तुतिं श्रुत्वा परितुष्टो महेश्वरः ॥
ततः प्रोवाच तं हर्षाच्छूलाग्रस्थं दनूत्तमम् ॥ ३२ ॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
नेदं वीरव्रतं दैत्य यच्छत्रुकरपीडनात् ॥
प्रोच्यन्ते सामवाक्यानि विशेषाद्दैत्यजन्मना ॥ ३३ ॥
॥ अन्धक उवाच ॥ ॥
निर्विण्णोऽस्मि सुरश्रेष्ठ त्रिशूलाऽग्रं समाश्रितः ॥
तस्मात्सूदय मां येन द्रुतं स्यान्मे व्यथाक्षयः ॥ ३४ ॥
॥ श्रीभगवानुवाच ॥ ॥
न तेऽस्ति मरणं दैत्य कथंचिच्चिंतितं मया ॥
तेनेत्थं विधृतं व्योम्नि भित्त्वा शूलेन वक्षसि ॥ ३५ ॥
तस्मात्त्वं गणतां गच्छ सांप्रतं पापवर्जितः ॥
त्यक्त्वा दानवजं भावं श्रद्धया परया युतः ॥ ३६ ॥
॥ अन्धक उवाच ॥ ॥
गतो मे दानवो भावः सांप्रतं तव किंकरः ॥
भविष्यामि न सन्देहः सत्येनात्मानमालभे ॥ ३७ ॥
॥ शंकर उवाच ॥ ॥
परितुष्टोऽस्मि ते वत्स ब्रूहि यत्तेऽभिवांछितम् ॥
प्रार्थयस्व प्रयच्छामि यद्यपि स्यात्सुदुर्लभम् ॥ ३८ ॥
॥ अन्धक उवाच ॥ ॥
अनेनैव तु रूपेण शृलाग्रस्थितमत्तनुम् ॥
यो मर्त्योर्च्चां प्रकृत्वा ते स्थापयिष्यति भूतले ॥ ॥ ३९ ॥
तस्य मोक्षस्त्वया देयो मद्वाक्यात्सुरसत्तम ॥
तथेत्युक्त्वा महेशस्तं शूलाग्रात्प्रमुमोच ह ॥
अस्थिशेषं कृशांगं च चामुण्डासदृशं द्विजाः ॥ ६.१५१.४० ॥
ततः स गणतां प्राप्तो गीतं चक्रे मनोहरम् ॥
पुरतो देवदेवस्य पार्वत्याश्च विशेषतः ॥ ४१ ॥
भृंगवद्रटनं यस्मात्तस्य श्रोत्रसुखा वहम् ॥
भृंगीरिटि इति प्रोक्तस्ततः स त्रिपुरारिणा ॥ ४२ ॥
एवं स गणतां प्राप्तो देवदेवस्य शूलिनः ॥
विश्वास्यः सर्वकृत्येषु तत्परं समपद्यत ॥ ॥ ४३ ॥
ततःप्रभृति लोकेऽत्र देवदेवो महेश्वरः ॥
तादृशेनैव रूपेण स्थाप्यते भूतले जनैः ॥ ४४ ॥
प्राप्यतेऽत्र परा सिद्धिस्तत्प्रसादादलौ किकी ॥
कस्यचित्त्वथ कालस्य राज्याद्भ्रष्टो महीपतिः ॥ ४५ ॥
सुरथाख्यः प्रसिद्धोऽत्र सूर्यवंशसमुद्भवः ॥
ततो वसिष्ठमासाद्य स चात्मीयं पुरो हितम् ॥
प्रोवाच प्रणतो भूत्वा बाष्पव्याकुललोचनः ॥ ४६ ॥
त्वया नाथेन मे ब्रह्मन्संस्थितेनाऽपि शत्रुभिः ॥
बलाच्च यद्धृतं राज्यं मन्द भाग्यस्य सांप्रतम् ॥ ४७ ॥
तस्मात्कुरु प्रसादं मे येन मे राज्यसंस्थितिः ॥
भूयोऽपि त्वत्प्रसादेन नान्या मे विद्यते गतिः ॥ ४८ ॥
॥ वसिष्ठ उवाच ॥ ॥
यद्येवं ते महाराज मद्वाक्यात्सत्वरं व्रज ॥
हाटकेश्वरजं क्षेत्रं सर्वसिद्धिप्रदायकम् ॥ ४९ ॥
तत्र भैरवरूपेण स्थापयित्वा महेश्वरम् ॥
भुजोद्यतोग्रशूलाग्रविद्धान्धककलेवरम् ॥ ६.१५१.५० ॥
नारसिंहेन मंत्रेण ततः पूजय तं नृप ॥
रक्तपुष्पैस्तथा धूपै रक्तैश्चैवानुलेपनैः ॥ ५१ ॥
ततः सद्वीर्य मासाद्य तेजोवीर्यसमन्वितः ॥
हनिष्यस्यखिलाञ्छत्रूंस्तत्प्रसादादसंशयम् ॥ ५२ ॥
परं शौचसमेतेन संपूज्यो भगवांस्त्वया ॥
अन्यथा प्राप्स्यसे विघ्नान्सत्यमेतन्मयोदितम् ॥ ५३ ॥
अथ तस्य वचः श्रुत्वा स राजा सत्वरं ययौ ॥
तत्र क्षेत्रे ततो देवं स्थापयामास भैरवम् ॥ ५४ ॥
ततः संपूजयामास नारसिंहेन भक्तितः ॥
मन्त्रेण प्रयतो भूत्वा ब्रह्मचर्यपरायणः ॥५५॥
ततो दशसहस्रांते तस्य मंत्रस्य संख्यया ॥
भैरवस्तुष्टिमापन्नः प्रोवा च तदनन्तरम् ॥ ५६ ॥
॥ श्रीभैरव उवाच ॥ ॥
परितुष्टोऽस्मि ते राजन्मंत्रेणानेन पूजितः ॥
तस्मात्प्रार्थय यच्चेष्टं येन सर्वं ददाम्यहम् ॥ ५७ ॥ ॥
॥ सुरथ उवाच ॥ ॥
शत्रुभिर्मे हृतं राज्यं त्वत्प्रसादात्सुरेश्वर ॥
तन्मे भवतु भूयोऽपि शत्रुभिः परिवर्ज्जितम् ॥ ५८ ॥
अन्योऽपि यः पुमानित्थं त्वामिहागत्य पूजयेत् ॥
अनेनैव तु मंत्रेण तस्य सिद्धिस्त्वया विभो ॥५९॥
देया देव सहस्रांते यथा मम सुरेश्वर ॥
तथेति तं प्रतिज्ञाय गतश्चादर्शनं हरः ॥ ६.१५१.६० ॥
सुरथोऽपि निजं राज्यं प्राप हत्वा रणे रिपून्॥६१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटके श्वरक्षेत्रमाहात्म्ये भैरवक्षेत्रमाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५१ ॥छ॥