स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १११

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
शिवक्षेत्राणि यैर्विप्रैः समानीतानि तत्र च ॥
तेषां सर्वाणि गोत्राणि वद सूतज विस्तरात् ॥ १ ॥
कस्य गोत्रोद्भवैर्विप्रैः किं क्षेत्रं समुपार्जितम् ॥
शंकरस्य प्रसादेन तस्मिन्काल उपस्थिते ॥२॥
कियत्यपि च गोत्राणि चमत्कारपुरोत्तमे ॥
स्थापितानि सुभक्तेन तेनानर्तेन सूतज ॥ ३॥
त्वया प्रोक्तं पुरा दत्तं पुरं कृत्वा द्विजन्मनाम् ॥
न च तेषां कृता संख्या तस्मात्तां परिकीर्तय ॥ ४ ॥
॥ सूत उवाच ॥ ॥
उपदेशः पुरा दत्तो द्विसप्ततिमुनीश्वरैः ॥
आनर्ताधिपतिः पूर्वं कुष्ठरोग प्रपीडितः ॥
शंखतीर्थं समागत्य स्नानं चक्रे त्वरान्वितः ॥ ५ ॥
तेन नाशं गतः कुष्ठो भूपतेस्तस्य तत्क्षणात् ॥
तस्य तीर्थस्य माहात्म्यान्निर्वि ण्णस्य तनुं प्रति ॥ ६ ॥
ततः स नीरुजो भूत्वा तोषेण महतान्वितः ॥
तानुवाच मुनिश्रेष्ठान् प्रणिपत्य मुहुर्मुहुः ॥ ७ ॥
सुवर्णं वा गजाश्वं वा राज्यं सकलमेव वा ॥
भवद्भ्यः संप्रदास्यामि तस्मादब्रूत द्विजोत्तमाः ॥ ८ ॥
यद्यस्य रोचते यावन्मात्रमन्यदपि द्विजाः ॥
प्रसादः क्रियतां मह्यं दीनस्य प्रणतस्य च ॥ ९ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
निष्परिग्रहधर्माणो वानप्रस्था वयं द्विजाः ॥
सद्यःप्रक्षालकाः किं नो राज्येन विभवेन च ॥ 6.111.१० ॥ ॥
॥ राजोवाच । ॥
उपकारं समासाद्य यः करोति न पापकृत् ॥
उपकारं पुनस्तस्य स कृतघ्न उदाहृतः ॥ ११ ॥
ब्रह्मघ्नं च सुरापे च चौरे भग्नव ते शठे ॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १२ ॥
तस्मात्कृत्वा प्रसादं मे किंचिद्ब्रूत् द्विजोत्तमाः॥
येनानृण्यं प्रगच्छामि यद्यपि स्यात्सुजीवितम् ॥।३॥
॥ मुनय ऊचुः ॥ ॥
सत्यमेतन्महाभाग कृतघ्ने नास्ति निष्कृतिः॥
परं तत्र भवेद्दोषो यत्र दाता तु सस्पृहः॥।४॥
निःस्पृहो यत्र राजेन्द्र ह्युपकारपरो भवेत्॥
न तत्र जायते दोषः स्वल्पोऽपि च कथंचन ॥।५॥
तस्मात्त्वं गच्छ राज्यं स्वं स्वधर्मेण प्रपालय ॥
इह लोके परे चैव येन सौख्यं प्रजायते ॥ १६ ॥
एवं स भूमिपो विप्रैर्निषिद्धः स सहस्रधा ॥
कृच्छ्रेण तान्प्रणम्योच्चैर्जगाम स्वगृहं ततः ॥।७॥
तत्र गत्वा प्रहृष्टा त्माकृत्वा रम्यं महेश्वरम् ॥
गीतनृत्यसवाद्यैश्च रात्रिजागरणादिभिः ॥
चकार पूर्ववद्राज्यं समंताद्धतकंटकम् ॥ १८ ॥
चिंतयानो दिवानक्तं ब्राह्मणान्प्रति तत्सदा ॥
कथं तेषां द्विजेंद्राणामुपकारो भविष्यति ॥
मदीयो मम यैर्दत्तं गात्रमेतत्पुनर्नवम् ॥ १९ ॥
तेऽपि सर्वे मुनिश्रेष्ठाः खेचरत्व समन्विताः ॥
तपःशक्त्या यांति नानातीर्थेषु भक्तितः ॥ 6.111.२० ॥
तेषु स्नानं जपं कृत्वा तथैव पितृतर्पणम् ॥
प्राणयात्रां पुनश्चक्रुस्तत्रागत्य स्व आश्रमे ॥ २१ ॥
अन्ये तत्रैव कुर्वंति नित्यकृत्यानि ये द्विजाः ॥
तथान्ये दूरमासाद्य तीर्थं दृष्ट्वा मनोहरम् ॥ २२ ॥
उषित्वा रजनीं तत्र द्विरात्रं वा पुनर्गृहम्॥
समागच्छंति चान्ये तु त्रिरात्रेण समाययुः ॥ २३ ॥
वाराणस्यां प्रयागे वा पुष्करे वाथ नैमिषे ॥
प्रभासे वाऽथ केदारे ह्यन्यस्मिन्नहि वांछ्यते ॥ २४ ॥
कदाचिदथ ते सर्वे कार्तिक्यां पुष्करत्रये ॥
गता विनिश्चयं कृत्वा स्नानार्थं द्विजसत्तमाः ॥ २५ ॥
पंचरात्रं वसिष्यामो वयं तत्र समाहिताः ॥
तस्माद्वह्निषु दारेषु रक्षा कार्या स्वशक्तितः ॥ २६ ॥
एवं ते समयं कृत्वा गता यावद्द्विजोत्तमाः॥
तावद्ध पतिना ज्ञाता न कश्चित्तत्र तिष्ठति । २७ ॥
तेषां मध्ये मुनींद्राणां सुतीर्थाश्रमवासिनाम् ॥
दमयंतीति विख्याता चंद्रबिंबसमानना ॥ २८ ॥।
तामुवाच रहस्येवं व्रज त्वं चारुहासिनि।
हाटकेश्वरजे क्षेत्रे ममादेशोऽधुना ध्रुवम् ॥ २९ ॥
तत्र तिष्ठंति याः पत्न्यो मुनीनां भावितात्मनाम् ॥।
भूषणानि विचित्राणि तासां यच्छ यथेच्छया ॥ 6.111.३० ॥
न तासां पतयोऽस्माकं प्रकुर्वंति प्रतिग्रहम् ॥
कथंचिदपि सुश्रोणि लोभ्यमानापि भूरिशः ॥ ३१ ॥
स्त्रीणां भूषणजा चिन्ता सदा चैवाधिका भवेत् ॥
लौल्यं च कौतुकं चैव सदा भूषणजं भवेत् ॥ ३२ ॥
अपि मृन्मयकं किंचित्काष्ठसूत्रमयं च वा ॥
जतुकाचमयं वापि नारी धत्ते विभूषणम् ॥ ३३ ॥
एष एव भवेत्तेषामुपकारस्यसंभवः ॥
उपायः पद्मपत्राक्षि न चान्योऽस्ति कथंचन ॥ ३४ ॥
सा तथेति प्रतिज्ञाय विचित्राभरणानि च ॥
गृहीत्वा हर्षसंयुका ततस्तत्क्षेत्रमाययौ ॥३५॥
मणिमुक्तामयान्येव कुण्डलानि शुभानि च ॥
तथा चन्द्रोज्ज्वलाहारान्नूपुराणि बृहंति च ॥ ३६ ॥
इन्द्रनीलमहानीलवैडूर्यखचितानि च ।
पद्मरागैस्तथा वज्रैर्माणिक्यैश्च मनोरमैः॥३७॥
केशैः कंकणैर्दिव्यैः शक्रचापनिभैः शुभैः ॥
हेमसूत्रैश्च जात्यैश्च मेखलाभिस्तथैव च ॥ ३८ ॥
अथ सा बोधने विष्णोः संप्राप्ते दिवसे शुभे ।
उपवासपरा स्नाता एकस्मिन्सलिलाशये ॥ ३९ ॥
तीरदेशे निवेश्यैव महाभूषणपर्वतम् ॥
यस्य प्रभाभिरुग्राभिर्व्याप्तं गगनमंडलम् ॥ 6.111.४० ॥
एतस्मिन्नंतरे प्राप्तास्तापस्यः कौतुकान्विताः ॥
कीदृशा राजपत्नी सा किंरूपा किंविभूषणा ॥ ४१ ॥
अथ तास्तां समालोक्य दिव्यभूषणभूषिताम्॥
सुरूपांगीं समाधिस्थां चित्ते चिन्तां प्रचक्रिरे ॥ ४२ ॥
धन्येयं भूपतेर्भार्या यैवं भूषणभूषिता ॥
दमयंती सुरूपाढ्या सर्वलक्षणलक्षिता ॥ ४३ ॥
समाध्यंतं समासाद्य तापसीर्वीक्ष्य साऽपि च ॥
दमयंती नमश्चक्रे ताः सर्वा विधिपूर्वकम् ॥ ४४ ॥
ताः कृतांजलिना प्राह वल्गुवाक्यं मनोहरम् ॥
मयायं भूषणस्तोम उद्दिश्य गरुडध्वजम्॥
कल्पितोऽद्य दिने स्नात्वा समुपोष्य दिने हरेः ॥ ४५ ॥
तस्माद्गृह्णंतु तापस्यो मया दत्तानि वांछया ॥।
भूषणानि विचित्राणि प्रसादः क्रियतां मम ॥ ४६ ॥
ततश्चैकाऽब्रवीत्तासामेषा मुक्तावली मम ॥
इमां देहि न मे वांछा विद्यतेऽन्या नृपप्रिये॥४७॥
ततस्तया विहस्योच्चैः प्रक्षाल्य चरणौ स्वयम्॥
दत्ता मुक्तावली तस्या वस्त्रैर्दिव्यैः समन्विता ॥
यस्याः षण्माषतुल्यानि मौक्तिकान्यमलानि च ॥ ४८ ॥
शरत्काले यथा व्योम्नि नक्षत्राणि द्विजोत्तमाः॥
तथान्या स्पर्द्धया युक्ता ययाचेऽमलवर्चसम्॥
हारं निर्मूल्यतायुक्तं चित्ताह्लादकरं परम् ॥ ॥ ४९ ॥
अथ सा तं करे कृत्वा तस्या हारं प्रयच्छति ॥
तावदन्या प्रजग्राह हारं शृंगारलालसा ॥ 6.111.५० ॥
ततः शेषाश्च तापस्यो भूषणार्थं समुत्सुकाः ॥
सस्पर्द्धा जगृहुस्तानि भूषणानि स्वयं द्विजाः ॥ ५१ ॥
अन्याश्चान्याकरे कृत्वा भूषणं सुमनोहरम् ॥
बलादाकृष्य जग्राह धर्षयित्वा ततः परम्॥ ५२ ॥
यथायथा प्रगृह्णंति तापस्यो भूषणार्चिताः ॥
तथातथास्याः संजज्ञे दमयंत्या मुदा हृदि ॥ ५३ ॥
अन्यानि च प्रचिक्षेप शतशोऽथ सहस्रशः ॥
न तृप्तिर्जायते तासां तथापि द्विजसत्तमाः ॥५४॥
भूषणाभावमासाद्य ततः सा पार्थिवप्रिया ॥
हृष्टा प्रोवाच ताः सर्वाः संतोषः क्रियतामिति॥५५॥
पुनश्चैवानयिष्यामि प्रभाते नात्र संशयः॥
अन्यानि च विचित्राणि यस्या रोचंति यानि च॥५६॥
ततस्ताः सकलाः प्रोचुर्गच्छ त्वं पार्थिवप्रिये॥
आगंतव्यं च भूयोऽपि प्रगृह्याभरणानि च ॥ ५७ ॥
एवमुक्ता ततस्ताभिः प्रणिपत्य नृपप्रिया ॥
प्रहृष्टा प्रययौ तूर्णं स्वपुरं प्रति सद्द्विजाः ॥ ५८ ॥
तापस्योपि गृहं गत्वा वस्त्राणि विविधानि च ॥
भूषणानि च गात्रेषु सस्पर्द्धा निदधुस्तदा ॥ ५९ ॥
तापसीनां चतुष्कं च परित्यज्य यतव्रतम् ॥
शेषाभिः प्रगृहीतानि मण्डनानि यथेच्छया ॥ 6.111.६० ॥
ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥
भूयोपि राजपत्नी सा भूषणान्यंबराणि च ॥ ॥ ६१ ॥
तथैव प्रददौ तासां जगृहुश्च तथैव ताः ॥
एवं तस्याः प्रयच्छंत्या अहन्यहनि भक्तितः ॥ ६२ ॥
पंचरात्रमतिक्रांतं तृप्तास्तास्तापसप्रियाः ॥
न राज्ञी तृप्तिमायाति प्रयच्छंती प्रभक्तितः ॥ ६३ ॥
ततः शुश्राव तापस्यश्चतस्रोऽत्र सुनिःस्पृहाः ॥
वल्कलाजिनधारिण्यो न तस्याः पार्श्वमागताः ॥
न चान्या भूषिता दृष्ट्वा चक्रुरीर्ष्यां कथंचन ॥ ६४ ॥
अथ सा त्वरितं गत्वा तासां पार्श्वमनिंदिता ॥
भूषणानि महार्हाणि गृहीत्वा पंचमीदिने ॥ ६५ ॥
ततः प्रोवाच ताः सर्वाः प्रसादः क्रियतामिति ॥
इमानि भूषणार्थाय भूषणानि प्रगृह्यताम् ॥ ६६ ॥
॥ तापस्य ऊचुः॥(। २॥
नास्माकं भूषणैः कार्यं भूषिता वल्कलैर्वयम् ॥
तस्माद्गच्छ निजं हर्म्यमर्थिभ्यः संप्रदीयताम् ॥ ६७ ॥
वदन्तीनां तया सार्धमेवं तासां द्विजोत्तमाः।
चत्वारः पतयः प्राप्ता एकैकस्याः पृथक्पृथक् ॥६८॥
शुनःशेपोऽथ शाक्रेयो बौद्धो दान्तश्चतुर्थकः।
वियन्मार्गं हि चत्वारः स्वाश्रममाययुः ॥ ६९ ॥
शेषाः सर्वे गतिभ्रंशं प्राप्य भूमार्गमाश्रिताः ॥
अथ ते स्वाश्रमं दृष्ट्वा विकृताकारभूषणम् ॥
किमिदंकिमिदं प्रोचुर्यत्तापस्यो विडंबिताः ॥ 6.111.७० ॥
केनैवं पाप्मनाऽस्माकमाश्रमोऽयं विडंबितः ॥
प्रदत्त्वा तापसीनां च भूषणान्यंबराणि च ॥ ७१ ॥ ॥
॥ तत्पत्न्य ऊचुः ॥ ॥
चमत्कारस्य भूपस्य यैषा भार्या व्यवस्थिता ०९।
अनया संप्रदत्तानि सर्वासां भूषणानि वै ॥ ७२ ॥
अस्माकमपि संप्राप्ता गृहे वै नृपवल्लभा ॥
दातुं विभूषणान्येव निषिद्धाऽस्माभिरद्य सा ॥ ७३ ॥
॥ सूत उवाच ॥ ॥
तासां तद्वचनं श्रुत्वा ततस्ते कोप मूर्च्छिताः ।
ऊचुस्तां नृपतेर्भार्यां शापं दातुं मुहुर्मुहुः ॥ ७४ ॥
द्विसप्ततिर्वयं पापे स्नानार्थं पुष्करे गताः ॥
कार्तिक्यां व्योममार्गेण मनोमारुतरंहसा ॥ ७५ ॥
चत्वारस्त इमे प्राप्ता येषां दारैः प्रतिग्रहः ॥
न कृतस्तस्य भूपस्य कुभार्यायाः कथंचन ॥ ७६ ॥
तस्माद्विडंबितो यस्मादाश्रमोऽयं तपस्विनाम् ॥
शिलारूपा च भवती तस्माद्भवतु कुत्सिता ॥ ७०७ ॥
अथ सा तत्क्षणादेव शिलारूपा बभूव ह ॥
निश्चेष्टा तत्क्षणादेव मुनिवाक्यादनंतरम् ॥ ७८ ॥
ततः स परिवारोऽस्यास्तद्दुःखेन समाकुलः ॥
वाष्पपूर्णेक्षणो दीनः प्रस्थितः स्वपुरं प्रति ॥ ७९ ॥
कथयामास तत्सर्वं दमयंत्याः समुद्भवम् ॥
वृत्तांतं ब्राह्मणश्रेष्ठास्तस्याः शापसमुद्भवम् ॥ 6.111.८० ॥
श्रुत्वा स पार्थिवस्तूर्णं वृत्तांतं शापजं तदा ॥
प्रसादनाय विप्राणां दुःखितः स वनं ययौ ॥ ८१ ॥
ततस्ते मुनयस्तूर्णं चत्वारोऽपि महीपतिम् ॥
ज्ञात्वा प्रसादनार्थाय भार्यार्थं समुपस्थितम् ॥ ८२ ॥
अग्रिहोत्राणि दारांश्च समादाय ततः परम् ॥
कुरुक्षेत्रं समाजग्मुः खमार्गेण द्रुतं तदा ॥ ८३ ॥
पार्थिवोऽपि समन्वेष्य यत्नात्तान्सर्वतो मुनीन्।
निर्विण्णः श्रमार्तश्च भार्याव्यसनदुःखितः ॥९४॥
ततो जगाम तं देशं यत्र भार्या शिलामयी ॥
सा स्थिता तापसीवृन्दैः सर्वतोऽपि समन्विता ॥८५॥
अथ तां तादृशीं दृष्ट्वा सेवकैः सकलैर्वृतः ॥
हाहेति स मुहुः प्रोच्य मूर्च्छितः प्रापतत्क्षितौ ॥९६॥
ततः कृच्छ्रात्समासाद्य संज्ञां तोयसमुक्षितः॥
प्रलापमकरोत्पश्चात्स्मृत्वास्मृत्वा प्रियान्गुणान् ॥८७॥
हा प्रिये मृगशावाक्षि मम प्राणविनाशिनि ॥
मां मुक्त्वाऽद्य प्रियं कांतं क्व गतासि शुभानने ॥८८॥
नाभुक्ते मयि भुक्तासि निद्रां नाऽनिद्रिते गता ॥
न सौभाग्यस्य गर्वेण ममाज्ञा लंघिता क्वचित्॥ ८९ ॥
न स्मरामि त्वया प्रोक्तं कदाचिद्वि कृतं वचः ॥
रहस्यपि विशालाक्षि किमु भोजनसंसदि ॥ 6.111.९० ॥
॥ सूत उवाच ॥ ॥
एवं प्रलपतस्तस्य भूपतेः करुणं बहु ॥
आयाता मंत्रिणस्तस्य श्रुत्वा भूपं तथाविधम् ॥ ९१ ॥
ततः संबोध्य तं कृच्छाद्दृष्टान्तैर्वहुविस्तरैः ॥
राजर्षीणां पुराणानां महद्व्यसनसंभवैः ॥ ९२ ॥
निन्युस्तं भूपतिं दीनं वाष्पव्याकुललोचनम् ॥
निश्वसंतं यथानागं तेजसा परिवर्जितम् ॥ ९३ ॥
सोऽपि कृत्वाऽऽलयं तस्याः समंतात्सुमनोहरम्॥
कर्पूरागरुधूपाद्यैर्वस्त्रकुंकुमचन्दनैः ॥
योजयामास तां भार्यां शिलारूपामपि स्थिताम् ॥ ९४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये दमयन्त्युपाख्याने दमयन्त्या विप्रशापेन शिलात्वप्राप्तावानर्ताधिपतिकृतशोककथनंनामैकादशोत्तर शततमोऽध्यायः ॥ १११ ॥