स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/१९

विकिस्रोतः तः

पूर्ववर्ती पृष्ठः(अध्यायाः १७१-१८०)


सनत्कुमार उवाच
आत्मा सूक्ष्मो मनोबुद्धिरहङ्कारो गुणास्तथा ।
भूतानीन्द्रियसंघातस्तन्मात्राणि दशानिलाः१ ।।१ ।।
विभक्ताः क्रमशो देहे विभागेन यथाश्रयम् ।
स्वप्नजाग्रत्सुषुप्तेषु२ स्थानेषु त्रिषु सुव्रत ।।२ । ।
- - - - - - - - -- - -
१ स्तन्मात्रण्यनिलात्मकः - ख. । २ जाग्रत्स्वप्नसुषुप्तेषु (?) ।
सुषुप्तेषु ()
- - - - - - - - -- - -

968
हृदये कर्णिकायान्तु यत् पद्मं सर्वतोमुखम् ।
वेष्टितं तन्तुभिः३ सूक्ष्मैस्तदूर्ध्वं सर्वदेहिनाम् । । ३ ।।
आत्मा तत्र सजीवस्तु समनस्कः४ प्रतिष्ठितः ।
तत्५ सुषुप्तमिति प्राहुः संसिद्धाः शिवयोगिनः ।।४। ।
ज्वालिनी६ स्तिमिता धूम्रा विद्युन्मेघा विशालिनी ।
मालिनी शङ्करी चैव सुमैत्री बोधनी तथा७ ।।५।।
एता दश८ महानाड्यो जीवे तस्मिन् प्रतिष्ठिताः ।
शयानं प्रतिबुद्धं वा यास्ता बिभ्रति देहिनम् । । ६ । ।
शब्दादिविषयेभ्यस्तु आत्मा सर्वगतश्च यः ।
अग्निवायुसमायुक्तो जीव इत्युच्यते पुनः ।।७।।
अहङ्कारो मतो बुद्धिर्भावाश्चेतश्च देहजाः ।
सह जीवेन तिष्ठन्ति धारयन्तः शरीरिणम् ।।८। ।
त एव सहिताः सर्वे जीवश्चैव तु पञ्चमः ।
कर्णिका तन्तुभिर्व्योम्नि संस्थिता सर्वतोमुखाः ।।९।।
स्थितो मनसि सूक्ष्मस्तु शीतांशुर्नाम तन्तुकः ।
चेतः स एव संप्रोक्तः स एव पुरुषः स्मृतः । । 8.181.१० । ।
अहंकारोथ जीवस्तु तन्तुर्भास्करसंभवः१० ।
मनः सोमः सुखं ब्रह्मा ज्ञानं११ धर्मो१२ रतिस्तथा । ।१ १ ।।
रसमात्मा महौषध्यः सत्वजो भावविस्तरः ।
अहंकारो हुताशश्च मृत्युर्दुःखमथामयम्१३ । ।१ २। ।
कामरोषौ जरा तृष्णा अधर्मश्चेति तामसाः ।
विष्णुर्बुद्धिस्तथा कार्यं कारणं१४ भूमिरेव च । । १३ । ।
ज्ञानं वैराग्यमाकाशं राजसो१५ भावविस्तरः१६ ।
जीवमध्ये स्थिता सूक्ष्मा विधूमा पावकी शिखा । ।१४।।
- - - -- - - - - - - - -
३ दशभिः - क. ख. । ४ सुमनस्कः - क. । ५ तं - ख. । ६ ज्वलिनी - क. । ७ स्नुषा - ख. । ८ एकादश - ख. । ९ - स्सर्वतोमुखा - ख., - मुखाः (?),. .. मुखी (?) । १० संज्ञकः (?) । ११ ब्रह्मज्ञानं - क. । १२. .ज्ञानैश्वर्यो (र्ये?) - क. । १३ मृत्युर्दुःखमनामयम् - क. ख. । १४ कार्यकारणे - क.। १५ राजसं - क. ख. । १६ विस्तरम् - क. ख. ।
- - - -- - - - - - - - -

969
अमृतं सर्वभूतानां गतिश्चैव हि सा परा ।
मध्ये तस्याः स्थितं सौम्यममृतं शशिमण्डलम् । । १ ५।।
मध्ये तस्याग्निसंकाशो जीव ईशः१७ प्रदृश्यते ।
सरसा लोहिता मुख्या प्रीता रसवती तथा ।।१ ६।।
विधूमा चामृता चैव निकुण्ठा बहुविस्तरा ।
एताः सूक्ष्मतरा नाड्यः संभिद्य दशपावकम् ।
तर्पयन्ति सदा सोमं भूताधारं पयोमृतम् । । १७। ।
स ताभिस्तर्पितः सोमः१८ सर्वान्नरसवीर्यतः ।
संछादयति वृद्धस्तां१९ जीवमध्यगतां शिखाम् ।। १८ ।।
तदेवामृतमाख्यातमीश्वरास्पदमुत्तम् ।
रसो यदा हि सोमस्य शिखया कर्षितोधिकम्२० । । १ ९।।
जागर्त्येष तदा जन्तुः सर्वयोनिसमुद्भवः ।
यामृतेत्यपरा नाडी सा तु स्वप्ने२१ प्रतिष्ठिता ।। 8.181.२० ।।
यदासौ सोममापीति? सुप्त इत्युच्यते तदा२२ ।
उभावेतौ मुनिर्जित्वा स्वप्नजागरणाश्रयौ । । २१ । ।
अजाग्रन्नस्वपँश्चैव ध्यानयोगेन चिन्तयेत्२३ ।
ममत्वाद्याश्च ये भावा मनसश्चैव याः२४ घृणा । ।२ २ । ।
न बुद्धेर्यच्च वैराग्यं तेन बुध्यन्ति योगिनः ।
मन्यते२५ यन्मनः२६ किञ्चिद् बुद्धिर्यच्च विकल्पयेत् । ।२३ ।।
यद्वा कुर्यादहङ्कारस्तज्ज्ञानात् सर्वमुत्सृजेत् ।
निष्क्रियस्य कुतः कर्म तद्विना बन्धनं कुतः । । २४। ।
कर्मबन्धविहीनस्तु संशुद्धो बद्ध्यते२७ कथम् ।
य इमान् विषयान् केचिन्न विद्युः सोमसंभवान्२८ । ।२५। ।
भोक्ता वह्निः२९ स्मृतस्तेषां तज्ज्ञाता केन बद्ध्यते३० ।
इति ज्ञात्वा त्यजेच्चिन्तां भवेद्योगपरः सदा । ।२६। ।
- - - -- - - - - - - - -
१७ ईषिन् ( ईषत्?) - क. । १८ सोमो - ख । १९ वृद्धां तां - ख. । २०.. धिक. - क । २१ सुषुप्ते - ख. । २२ सदा - ख. । २३ ध्यानयोग विचिन्तयेत् - क. । २४ ये - ख. । २५ मन्यन्ते - क. ख २६ यन्मयः - क. । २७ मुच्यते - क. ख. । २२ विद्यात्सोमसंभवान् - क. ख. । २९ भोक्तृवह्निः - ख. । ३० बद्ध्यति - क. ख. ।
- - - -- - - - - - - - -

970
वह्वेर्यदौष्ण्यं तत्पापं तेजोधर्म उदाहृतः ।
प्रकृतिर्या स जीवस्तु या शिखा स महेश्वरः । ।२७।।
यो दहेत्३१ तेजसा वह्निं३२ न च तेन विदह्यते३३ ।
अतीता प्रकृतिस्तेन वित्त३४स्तेन महेश्वरः । ।२८।।
कर्मबन्धो ह्ययं लोको निष्कर्मा बद्ध्यते कथम ।
निर्ममा योगविदुषः शंकरव्रतमास्थिताः । ।२९।।
गच्छन्ति स्वतनुं त्यक्त्वा हित्वा३५ मायां परं पदम् ।
इदमन्यत् परं ज्ञानमस्मात् सूक्ष्मतरं पुनः । ।8.181.३ ० ।।
प्रवक्ष्यामि तव व्यास भक्तस्त्वमसि शङ्करे ।
योगिनोन्ये न जानन्ति यद् गुह्यं परमाद्भुतम्३६ ।। ३१ । ।
मुक्त्वा पाशुपतान् सिद्धान् यन्न भूतेषु विद्यते ।
मनो बुद्धिरहङ्कार इन्द्रियाणि गुणत्रयम् ।। ३२ । ।
न स्पृशन्ति तदात्मानं३७ विकारास्तस्य ते बहिः ।
सर्वत्र दृश्यते सोथ न च सर्वैः प्रदृश्यते ।
स एवं दृस्यते ध्यानान्नान्योपायात् कथञ्चन३८ ।।३ ३ । ।
सर्वभावगुणातीतं सुचिन्त्यं३९ परमेश्वरम् ।
ज्ञानेन ये प्रपश्यन्ति योगिनस्ते परे स्मृताः । ।३४। ।
छायैषा दृश्यते या तु चक्षुर्विषयमाश्रिता ।
स जीवः कीर्तितो व्यास स्थितिहेतुः शरीरिणाम् । ।३ ५। ।
तत्रास्ते स परो ह्यात्मा सूक्ष्मो मध्यगतोव्ययः
महानागः स्मृतो नाम्ना वायुराकाशगोचरः ।।३ ६।।
आकाशे कर्णिकायां च नाड्यां जीवे च संस्थितः ।
गान्धारी विजया चैव सञ्ज्ञया तलवर्तिनी ।। ३७। ।
नाग एतासु नाडीषु वायुः संपरिवर्तते ।
सा जया४० विजया या च द्वे ते प्राणवहे स्मृते ।।३८ । ।
- - - -- - - - - - - - -
३१ देह - क. । ३२ वह्निर्न - ख. । ३३ विदह्यति - क. ३४ विद्धः - ख., विन्नः - क. । ३५ भित्वा - ख । ३६ परमद्भुतम् - ख. । ३७ तमात्मान (?) । ३८ तानुपायान् - क.,.. .पायान्न तु - ख. । ३९ स्वभावगुणातीतम- चिन्त्यं - ख. । ४० सञ्जया (?) ।
- - - -- - - - - - - - -

971
अपाने तलगान्धार्यौ नाड्यौ नागेन संयुते ।
योगादपानमनसोर्नागेन समुदीरिताः४१ । ।३ ९ ।।
स प्राणो बहिरन्तश्च तर्पयन् हव्यवाहनम् ।
वृद्धं४२ संधारयेद् देहमायुषा च बलेन च । ।8.181.४० ।।
नाडी त्वन्या सुषुम्णेति४३ सोमवह्निमनःस्थिता ।
सास्मिन् सधातुके देहे कूर्मारे४४ चानिले स्थिता ।।४१ । ।
गुल्फे४५ करतले४६ सक्ता४७ निकुञ्चा सप्रसारिणी४८ ।
समानव्यानसंयुक्ता रक्तमांसे हि तर्पयेत्४९ ।।४२। ।
उदानो योपरो वायुर्यञ्ज कूर्मार५० उच्यते ।
नाड्यां नाभिनिबद्धायां तुलायां तौ प्रतिष्ठितौ । ।४३ ।।
अध एकश्चरेन्नाड्या वायुरन्यस्तदूर्ध्वगः ।
अधःस्थः पादसंबद्ध ऊर्ध्वगः शिरसि स्थितः । ।४४।।
यो वायुर्देवदत्ताख्यः कृतको५१ योपरोनिलः ।
वह्निसोमनिबद्धौ तौ प्राणहेतू महाबलौ५२ ।।४५।।
एको विवर्द्धयत्यग्निमन्यः सोमञ्च तर्पयेत्५३ ।
देवदत्तमहानागकृतकूर्मधनञ्जयाः५४ । ।४६ ।।
प्राणास्ते पञ्च विख्याता वह्नयो- - याजिनः ।
हुतमेषु यदिष्टं वा सोमं तदुपतिष्ठति५५ ।।४७।।
सोमं विशन्ति यज्वानो न तेषां मुक्तिलक्षणम् ।
दीप्तिरग्नेः स्मृता या तु ओषधिभ्यश्च यद्रसम् ।।४८।।
तर्पणं यच्च सोमस्य कर्णिकायां तदास्थितम् ।
नेत्रेषु दृश्यते योयं ज्योतिः छायाप्रकाशकः ।।४९।।
स जीवः सर्वसत्वानामात्मा तत्र समास्थितः ।
ज्योतिषोन्तर्गतः सूक्ष्मस्तद्धर्मं५६ परमं स्मृतम् । ।8.181.५० ।।
- - - -- - - - - - - - -
४१ समुदीरितां - ख., समुदीरिते (?) । ४२ वृद्धः - ख । ४३ सुषुम्नेति - क., सुसुप्तेति - ख. । ४४ कुर्मारे - ख., कुमारे - क. । ४५ गुल्फा - क. । ४६ खुरतले - क., करतला - ख. । ४७ शक्ते- ख । ४८ सुप्रसारिणी - क. । ४९ ह्यतर्पयेत् - क ख. । ५० कुर्मार - क. । ५१ कृकको( लो) (?) । ५२ समानिलौ - ख. । ५३. .मतर्पयत् - क ख. । ५४ कृककूर्मधनञ्जयाः - ख, । ५५ तदुपतिष्ठते - ख. । ५६ तद्धर्मा - क., तद्धर्म - ख. ।
- - - -- - - - - - - - -

972
तच्चामृतं समाख्यातं ज्ञानलभ्यं तदुच्यते ।
तस्मात् परतरा५७ नास्ति ज्ञानविज्ञानयोर्गतिः५८ । ।५१ । ।
ज्ञात्वैवं सन्त्यजेन्मोहं गुणत्रयविकारजम् ।
अभिन्नस्यात्मनस्तस्य षड्विंशस्येश्वरस्य५९ । ।५२ । ।
भेदं भगवतः कुर्यात् कोन्यो योगविशारदः ।
निरञ्जनं निर्विकल्पं प्रभुं तं न विकल्पयेत् ।।५ ३ । ।
विमोहास्त्यक्तसंसर्गाः क्रियाकार्यविवर्जिताः ।
तं विशन्ति महेशानमीश्वरव्रतचारिणः । ।५४।।
इतीदं योगमाख्यातं व्यास माहेश्वरं तव ।
सम्यगीश्वरसन्धानं६० यदन्यत्र न विद्यते । ।५५।।
सन्देहो यत्र ते विप्र प्रष्टव्यं यच्च मन्यसे ।
तद् ब्रह्मन् परिपृच्छाशु नावक्तव्यं तवास्ति मे ।।५६ ।।
इति स्कन्दपुराणे पाशुपतयोगवर्णने योगविधावष्टमोयमेकाशीत्युत्तर६१ शततमोध्यायः६२

व्यास उवाच
भगवन् सर्वयोगीश सर्वामरनमस्कृत१ ।
अहो ज्ञानं त्वयाख्यातमज्ञानविनिवर्तनम् । ।१ ।।
अद्याहं गतसन्देहो महादेवं परं प्रति ।
शङ्करात् प्रकृतिर्जाता ब्रह्मविष्णू तदात्मकौ । ।२। ।
ज्ञात्वा षडविंशमीशानं मुच्यते बन्धनादिति ।
सर्वयोगपथात्२ पूर्वमुक्त्वा सकलसंहिताम् ।।३ ।।
निष्कलं सकलं३ ज्ञानं कोन्य एवं प्रभाषते ।
श्रवणादस्य विप्रेन्द्र देहं मुक्तमबोधिषम्४ ।।४। ।
- - - -- - - - - - - - -
५७ परतर - ख । ५८ ज्ञानिज्ञानमन?. - ख. । ५१ षड्विंशस्य परस्य - क. । ६०... सन्धाना[त्) । - ख. । ६१ एकसप्तत्युत्तर - क । ६२ १७१ - क, २२९ - ख. ।
१ नमस्कृतः - क. । २ मथा ख, ३ शाङ्करं - ख । ४ यत् - क. ।
- - - -- - - - - - - - -

973
त्वत्प्रसादादहं तात प्राप्तज्ञानो गताशुभः ।
विसन्देहो५ भवं६ शान्तः प्रष्टव्यं किञ्चिदस्ति मे । ।५।।
तत्त्वां७ विज्ञापयामीदं निष्ठामाख्यातुमर्हसि ।
एवं विज्ञानसंपन्नः प्राप्तयोगो मुनिर्मुने । ।६। ।
विनाक्लेशं तनुं त्यक्त्वा योगी योगबलान्वितः ।
कथमाप्नोति तद् ब्रह्म निष्कलं परमेश्वरम् । ७। ।
ईश्वराधानसंप्राप्तेरुपायं८ मोक्षलम्भनम् ।
कथयस्व मुनिश्रेष्ठ प्रष्टव्यं नान्यदस्ति मे । ।८। ।
एवमुक्तः स शिष्येण व्यासेन सुमहात्मना ।
कथयामास विप्रेन्द्रः शिवसिद्धान्तनिश्चयम् । ।९। ।
सनत्कुमार उवाच
शृणु व्यास परं ज्ञानमीश्वराधानकारणम्९ ।
स्वेच्छया१० येन मुच्यन्ते११ योगिनो ज्ञानतत्पराः । । 8.182.१० । ।
त्रिधोत्क्रान्तिमिमां१२ ज्ञात्वा मुहुरभ्यस्य चैव हि ।
स्वदेहं रिपुवत् त्वक्त्वा१३ षड्विंशे लयमाप्नुयात् ।।१ १ ।।
या नाड्यो वाय्ववष्टब्धाः१४ संवरन्ति१५ शरीरिणम्१६ ।
शतं तासां शतानां तु कर्णिकामध्यमाश्रितम्१७ । । १२।।
तमाश्रित्या१८ स्थिता नाड्यो१९ नाभ्यां पादेष्वधोगताः ।
शिरोबद्धाः स्मृता भूयस्ता एव करमास्थिताः२० । ।१३ ।।
करमाश्रित्य ता भूयः कर्णिकां पुनराश्रिताः ।
द्विसप्ततिसहस्राणि नाडोनामपरा२१ मुने ।। १४।।
तासामेकैकशो भेदाः२२ सूक्ष्मसूक्ष्मतराः२३ स्मृताः२४ ।
तासु सञ्चरते प्राणः कर्णिकाव्योमसंभवः ।। १ ५। ।
- - - -- - - - - - - - -
५ निःसन्देहो - ख. । ६ भवान् - क. ख. । ७ तन्त्वा - ख । ८ ईश्वरध्यानसंप्राप्तेरुपायं - ख. । ९ ध्वानकारणम् - ख. । १० स्वेप्सया - ख. । ११ मुच्यन्ति - क ख. । १२.. .मिमं - क । १३ कृत्वा - ख. । १४ वेष्टिताष्टब्धा? - क । 7। ९ संचरन्ति - ख. । १६ शरीरिण - क. । १७ समाश्रिताः - क. । १८ तमाश्रिता - ख. । १९ नाडी - क. ख. । २०. श्रिय?. - क । २१ मपरं - क ख. । २२ भेदे - क. । २३ सूक्ष्मातरा . क । २४ स्थिता - क ।
- - - -- - - - - - - - -

974
तत्रात्मा सूक्ष्मसंलक्ष्यः प्रागुक्तस्तिष्ठति द्विज ।
या प्रभा दुर्दृशा तस्य तां भजेद् योगविन्मुनिः ।। १ ६। ।
तत्तेजः सर्वनाडीषु विभक्तं सर्वदेहिनाम् ।
तेन नाड्यो बहिः स्पर्शान्मनः कुर्वन्ति विस्तृतम् । । १७।।
तत्तेजश्चक्षुषा हृत्वा सर्वनाडीसमाश्रितम् ।
मन एकगतं कुर्यात् तच्चात्मनि नियोजयेत् । । १८।।
वायुर्धनञ्जयो नाम्ना यो हृदि स्फुरते सदा ।
त्रीणि तस्य मुखान्याहुः शिरो नाभि२५ र्हृदेव च । ।१ ९। ।
येन्ये प्राणा नवाख्याता वायवः कीर्तिता मया ।
धनञ्जयस्य सर्वे ते वशगास्तन्निबन्धनाः । ।8.182.२ ० ।।
तद्वशादुत्क्रमन्त्येते तस्मिँतिष्ठन्ति संस्थिताः ।
नाभीबन्धनमासाद्य३६ नाडीनां वक्त्रमास्थितम् । । २१ । ।
द्वितीयं कर्णिकायान्तु तृतीयं तालुसंस्थितम्२७ ।
क्षुरिका परशुः शूलं त्रिविधोत्क्रान्तिरुच्यते । ।२२ ।।
शूलं हृदि क्षुरं नाभ्यां तालौ परशुरास्थितः ।
तालुके हृदि वा२८ बद्ध त्रयं२९ नाभ्यां प्रतिष्ठितम् ।।२३ ।।
तालौ वियोजितं सर्वं प्राणमेव विमुञ्चति ।
आक्षिप्तं त्रितयं नाभ्यां कर्णिकायां वियोजितम्३० । । २४।।
स्थितम् (?) आत्मनि संयोज्य विक्षिपेदूर्ध्वतो मनः ।
प्रयोगादस्य विप्रेन्द्र मुच्यते तत्क्षणान्मुनिः । ।२५। ।
स्वच्छन्दतनुसंत्याग एष ते परिकीर्तितः ।
धर्माधर्मनिबद्धैस्तु कर्मभिः प्रागनुष्ठितैः ।।२६ ।।
यथा३१ जीवो न बद्ध्येत३२ योगिनस्तदिदं३३ शृणु ।
बाह्यःशरीरजश्चैव मृत्युर्द्विविध उच्यते । । २७ ।।
- - - -- - - - - - - - -
२५ नामा(सा) - क. । २६ नाडीबन्धनमासाद्य - ख । १७ तालुसंस्थिता - ख २८ वा हृदि - क. । २९ बन्धत्रयं - ख. । ३० वियोजयेत् - क । ३१ तथा - ख । ३२ बुद्ध्येत - ख. । ३३ ...स्तदिमं - क, स्तमिमं - ख. ।
- - - -- - - - - - - - -

975
विषशस्त्राग्नियोगैस्तु सर्पदंष्ट्रिमरुज्जलैः ।
बाह्यो मृत्युरिति ख्यातः शारीरं तु निबोध मे । ।२८ ।।
रोगजः कालजो वापि मृत्युराभ्यन्तरो३४ भवेत् ।
कालजो जरया प्रोक्तो रोगजो व्यधिसंक्षयात्? । ।२९। ।
दुर्लभो मृत्युरन्योयं३५ योगसंधानजो मुने ।
योगोपायकृतो यश्च यश्च कालक्षयागतः ।।8.182.३ ० । ।
तयोर्भेदविकारे तु शृणु व्यास समासतः ।
कालक्षयाद् भवत्येको द्वितीयो मनसेप्सितः । ।३ १ । ।
योयमाघोषजः शब्दः श्रूयते श्रोत्रसन्धितः३६ ।
स पूर्वं लीयते कूर्मे तेन वह्निस्त्यजेत् प्रभाम् ।।३ २।।
निष्प्रभः स ततो वह्निः शब्दयोगाद्वियुज्यते ।
शब्दस्पर्शगुणातीतो रूपयोगं विमुञ्चति ।।३ ३ ।।
एवमग्नौ प्रणष्टे तु सर्व एवानिलास्ततः ।
एकतो योगमिच्छन्तो३७ मर्माणि विनिकृन्तते । ।३४।।
कूर्मारो३८ देवदत्तश्च कृकरो नाग एव च ।
उदानेनाशु संयुज्य कर्णिकायां विशन्ति३९ हि ।।३ ५। ।
तत४० ऊर्ध्वो भवेच्छ्वासो मनोजीवविनिर्गमः ।
ततो ज्योतिर्यदक्षिभ्यां४१ तत्सोमं विशति द्रुतम्४२ ।।३ ६।।
इन्द्रियाणि मनो यान्ति मनः प्राणविनिर्गमम् ।
तेषु सर्वेषु लीनेषु प्राणान् वायुर्निपीडयेत् । ।३७।।
पीड्यमानास्ततः सर्वे४३ ते भवन्त्येकतोनिलाः४४ ।
स्वं स्वं त्यक्त्वा ततः स्थानं यच्च४५ कर्म यदात्मकम् ।।३८।।
एकस्था वायवः सर्वे पूरयन्ति धनञ्जयम् ।
शेषस्तत्र हि कूर्मारो जीवं त्यक्त्वा स तिष्ठति ।। ३९ ।।
- - - -- - - - - - - - -
३४ मृत्युरभ्यन्तरो - ख. । ३५ रभ्यासाद् - क. । ३६ सन्धिते (तैः) - ख. । ३७ लोकमिच्छन्तो - ख. । ३८ कुर्मारो - क ख. । ३९. ..माविशन्ति - ख. । ४० अतः - ख, । ४१ ज्योतिर्यदक्षिभ्यां - क. । ४२ द्रुते - ख. । ४३ भवन्त्येकगतो - क., भवन्त्यन्तगतो - ख. । ४४ ता - ख. । ४५ धर्म - ख. ।
- - - -- - - - - - - - -

976
मनोबुद्धिरहङ्कारश्चेतो जीवस्तथैव च ।
निष्क्रमन्ति ततो देहात्त्वरितं वायुनेरिताः ।।8.182.४० । ।
प्रागुपात्तस्ततोस्यान्यो देहः सूक्ष्मो विजायते ।
स तत्र सन्धितो४६ जीवो भूयो मूढश्च तिष्ठति४७ । ।४१ ।।
एवं कालकृता ह्येषा सर्वभूतगणस्थितिः४८ ।
विना योगं न जीयेत सूक्ष्मं माहेश्वरं पदम् । ।५२ । ।
उपविष्टः प्रसुप्तो वा उत्क्रान्त्यभ्यस्तसंयमः४९ ।
स्वेच्छया मुच्यते व्यास ज्ञात्वा तन्तुः५० महेश्वरम् । ।४३ ।
क्षुरिकां परशुं वाथ शूलं वा धारयेन्मुनिः ।
ततः सर्वेस्य लीयन्ते५१ विकाराः करणैः सह ।।४४। ।
वीक्षते चेश्वरं ब्रह्म षड्विंशं स्वतनुस्थितम् ।
मनस्तीव्रं जडं जन्तोः प्रयच्छति विपद्यतः५२ । ।४५ ।।
स रुजा मोहमापन्नो ज्ञानवस्तु न विन्दति ।
अनेन कर्मणा विप्र सर्वरुक्परिवर्जितः ।।४६ ।।
सुखमारोहति ब्रह्म हर्म्यपृष्ठं५३ तलादिव ।
पदार्थं पञ्च विज्ञाय दुःखान्तपरिनिष्ठितः । ।४७। ।
पञ्चभिर्ब्रह्मभिः पूतो भस्मसा५४ दीक्षितो द्विजः ।
शङ्करैकमना योगी ज्ञानमेतदवाप्नुते । ।४८ । ।
माहेश्वरमिमं योगं निष्कलं मुक्तिकारणम्५५ ।
यत्नादपि न विन्दन्ति व्रतमप्राप्य शांकरम्५६ ।।४९ । ।
स त्वं व्यास महाबुद्धे५७ चरन्५८ पाशुपतं व्रतम् ।
महादेवपरो भूत्वा ज्ञानमेतदवाप्नुहि । ।8.182.५० । ।
नैवमेतत्५९ परं ब्रह्म अन्ये विन्दन्ति योगिनः ।
महादेवं प्रपन्ना६० ये तान्मुक्त्वा शिवयोगिनः ।।५१ । ।
- - - -- - - - - - - - -
४६ तत्रापस्थितो (?) । ४७ मूढस्मृति? - क. ' ४८. गणास्थिति - ख. । ४९ उत्क्रान्ताभ्यस्तसंयमः -ख.। ५० तत्त्वं - ख. । ५१ लीयन्ति - ख. । ५२ विपद्यते - ख. । ५३ हर्म्यमृष्ठे - क. ख. । ५४ भस्मना (?) । ५५ मूर्तिकारणं - क, मूर्त्तकारणम् - ख । ५६ शंकरम् - क. ख. । ५७ महाप्रज्ञ - ख. । ५८ चर - ख. । ५९ दैवमेतत् - ख. । ६० महादेव प्रपन्ना - क ।
- - - -- - - - - - - - -

977
एष६१ मोक्षविधिः कृत्स्नः६२ सर्वप्रत्ययवजितः६३ ।
निष्कलः६४ कथितो व्यास परो यस्मान्न विद्यते६५ ।। ५२। ।
एवं पाशुपता विप्रा निष्कलं तं महेश्वरम् ।
योगादाविश्य मुच्यन्ते६६ पुनर्जन्मविवर्जिताः ।।५३ ।।
सकलस्यास्पदं दिव्यं ब्रह्मलोकात् परे६७ स्थितम ।
महादेवस्य वक्ष्यामि तद्भक्ता यत्र यान्ति ते६८ । ।५४।।
इति स्कन्दपुराणे पाशुपतयोगवर्णने योगविधौ नवमः द्व्यशीत्युत्तर६९ शततमोध्यायः७०

सनत्कुमार उवाच
सत्यस्य महतश्चैव जनस्य तपसस्तथा ।
भव्यभूतभवानां च सप्तानामूर्घ्वतः स्थितः१ । । १ ।।
लोको भगवतः शम्भोर्यत्रास्ते सकलः शिवः ।
नासौ तर्कविनिर्देश्यो लोकास्तस्मिन् प्रतिष्ठिताः ।।२ । ।
ऊर्ध्वं तिर्यगधस्ताच्च लोकास्तद्विनिबन्धनाः ।
ब्रह्माण्डं सकलं तस्मिञ्छिवलोके प्रतिष्ठितम् ।।३ । ।
नासौ नश्यति संहारे ध्रुवः स्थाणुः सुरालयः३ ।
यत्राहं सनकाद्याश्च ब्रह्मा चैव पितामहः४ ।।४।।
बालखिल्यपुरोगाश्च५ सिद्धाश्च कपिलादयः ।
शिवयोगपरिप्राप्त्या६ सत्वादिगुणवर्जिताः ।।५ । ।
तिष्ठामो निर्वृता व्यास सेवमानास्तमीश्वरम् ।
परमाणुरसावीशो भावगम्यो मनीषिणाम् । ।६।।
परमैश्वर्यसंयुक्तस्तत्रास्ते विग्रहेश्वरः ।
क्षमा सत्यं धृतिश्चैव तपो वैराग्यमेव च । ।७।।
- - - -- - - - - - - - -
६१ एषा - क. ख. । ६२ कृत्स्ना - क. ख. । ६३.. वर्जिता - क. ख. । ६४ निष्कला -क ख। ६५ परं यस्या न विद्यते - क. ख. । ६६ मुच्यन्ति - क. । ६७ परा - ख. । ६८ यान्तीति - क. । ६९ द्विसप्तत्युत्तर - क. । ७० अध्यायाङ्को न विद्यतेत्र ख पुस्तके ।

१ स्थितम् - ख. । २ विनिबन्धनात् - क. । ३ स्थाण्वीश्वरालयः (?) । ४ पिता मम - ख. । ५ बालिखिल्यपुरोगाश्च - क. ख. । ६ परिप्राप्ताः - ख. ।
- - - -- - - - - - - - -

978
स्रष्टृत्वं७ ज्ञानवैराग्यादात्मबोधो८ महेशता ।
नित्यमेतानि तिष्ठन्ति तस्मिन्देवे महेश्वरे । ।८। ।
योगवह्निरसावात्मा ब्रह्मसृक्परमेश्वरः ।
साकल्यान्मूर्त्तिमास्थाय९ करोति जगतः स्थितिम् । ।९। ।
अष्टमं ध्रुवमध्येय(? )मक्षरं१० मुक्तिकारणम् ।
मायाधाम तदीशस्य जगत्संहारहेतुमत् । ।8.183.१ ० ।।
ऊर्ध्वतो ब्रह्मलोकस्य योजनानां महात्मनः ।
विंशतीनान्तु कोटीनां पुरं स्थाणोः समास्थितम् । ।१ १।।
एतावानूर्ध्वसञ्चारो गत्यन्तश्च ततः स्मृतः ।
असंख्याताः पुरे तस्मिन्नित्याः सूक्ष्मास्तथाव्ययाः ।।१२।।
ज्ञानाधिकारधर्मिण्यः शैवीप्रकृतयः स्थिताः ।
याभ्यो जज्ञे११ महेशानौ ब्रह्मविष्णू प्रजापती । । १३ । ।
ताभ्यां प्रकृतिभूताभ्यां स्रष्टृत्वं परमं ददौ ।
अक्षयो विमलः सूक्ष्मो निष्कलः सकलोपि च । । १४।।
स्थिरे मूर्ते१२ परे दिव्ये परमाणुपदे स्थितः ।
मनसः प्राक्तमस्यादौ१३ तत्तेजःसंप्रकाशनम् ।। १५।।
यदासीद्धैममण्डन्तु१४ लौकिकं त्वापवर्गिकम् ।
महत्तत्१५ सर्वतो नित्यमीश्वरात्तदभूत्तदा । ।१६।।
तस्माद्बीजस्य निर्भेदः क्षेत्रज्ञः स विभुः स्मृतः ।
प्रकृतिर्वैष्णवी प्रोक्ता सा च तस्माद्विनिर्गता ।।१७ ।।
सुरासुरादिसृष्ट्यर्थं ब्रह्मत्वं१६ पुनरास्थिता ।
अण्डस्य भेदतः१७ पद्मब्रह्मणः१८ शंकरात्मनः ।
ब्रह्मलोकपुरस्ताच्च पुरं तेजोमयं महत् ।।१८। ।
यत् स्थानं विग्रहेशस्य ईश्वरस्य परात्मनः ।
नाम्ना शिवपुरं व्यास गतिरीश्वरयोगिनाम् ।। १९।।
- - - -- - - - - - - - -
७ सृष्टितं क., संस्कृतं ख। ८ . . .त्म बोधौ ख.। ९ साकल्यान्मुक्तिमास्थाय - क. । १० दक्षरं(?) । ११ अन्तर्भावितण्यर्थोत्र जज्ञे शब्दः, जनयामासेत्यर्थः । १२ पूते - ख. । १३ प्राप्तत - क., प्राप्तमस्यादौ - ख., प्राक्तनस्यादौ (?) । १४ द्धैममण्डस्तु - क. । १५ महान्तं - क. ख., महान्तत् (?) । १६ ब्रह्मत्वे - क. । १७ भिद्यतः (?) । १८ पद्मं ब्रह्मणः (?) ।
- - - -- - - - - - - - -

979
शतं शतसहस्राणां योजनानां तदुच्यते ।
महीमण्डलसंस्थानं तन्मध्ये विस्तृतं१९ स्मृतम् ।।8.183.२ ० ।।
स्फुरदादित्यरूपेण वह्नेरधिकतेजसा ।
महता हैमजातेन२० प्राकारेण सुवेष्टितम् । ।२१ । ।
चतुर्भिर्हेमजैर्द्वारैर्मणिमुक्ताविभूषितैः२१ ।
शोभितं तत्पुरं२२ रम्यं शुशुभे सिद्धसेवितम् ।। २२। ।
जरामृत्युश्रमव्याधिकोपमोहमदादयः२३ ।
न क्रमन्त्यशुभास्तस्मिन् भावाः शिवपुरे मुने । ।२३ ।।
शतं शतसहस्राणां योजनानां यथादिशम् ।
तत् पुरं वृषभाङ्कस्य सर्वव्यापि समृद्धिमत् । । २४।।
दिव्या मारकती२४ भूमिः स्पर्शमात्रसुखावहा२५ ।
वैदूर्यमणिकल्पानि२६ बालार्कसदृशानि च ।।२५। ।
क्वचिद्रक्तानि पद्मानि क्वचिच्छ्वेतानि रेजिरे ।
महाह्रदप्रमाणानि नालैर्वैदूर्यसन्निभैः ।। २६।।
गन्धवन्ति महार्हाणि विन्यस्तानि महीतले ।
इन्द्रनीलनिकाशानि महामणिनिभानि च ।।२७।।
कचित् कृष्णार्धरक्तानि दिव्यगन्धवहानि च ।
- - - - - - तत्र उत्पलानि समन्ततः ।।२८।।
प्रवहन्ति महानद्यो यास्तस्मिन्नमृतोदकम् ।
पुरे भगवतः शम्भोः पाराशर्य निबोध ताः२७ ।।२९। ।
वरदा च वरेण्या च वरेशा वरवर्णिनी ।
वाराही२८ वारिभद्रा च वरा चैव महापगाः ।। 8.183.३० ।।
नानाकुसुमसंमिश्रं ता वहन्ति जलामृतम् ।
न देवा न मुनीन्द्राश्च नासुराः पितरो न च । ।३ १ ।।
- - - -- - - - - - - - -
१९ विस्त्रितं - क. । २० जातहेमेन - क., जातरूपेण (?) । । २१ मुक्तामणिविभूषितैः (?) । २२ तत्परं (?) । २३ महादयः - क. । २४ मरकती - क. । २५ स्पर्शमात्रत् सुखावहा (?) । २६ तुल्यानि(?) । २७ निबोधत - क. । २८ वराही - क. ।
- - - -- - - - - - - - -

980
न चैवान्ये समर्थाः२९ स्युर्ज्ञातुं तत्पुरमद्भुतम् ।
अन्तर्मनसि बुद्धा३० ये सर्वतो भक्तिभाविताः ।
शिवैकमनसो व्यास तस्मिन्मोदन्ति ते नराः३१ ।।३२। ।
तस्य मध्ये पुरेन्द्रस्य सूर्यज्वलनवर्चसः ।
मेरुशृङ्गप्रतीकाशो दिग्भद्रस्तपनप्रभः ।।३ ३ । ।
प्रासादो लक्षपादस्तु कामगः कनकामयः ।
अनिरीक्ष्यैर्महारत्नैः३२ समन्तात् परिशोभितम् ।। ३४।।
वैदूर्यैर्व्योमसंकाशैः स्फाटिकैश्चन्द्रसप्रभैः३३ ।
प्रवालैरर्कसंकाशैरिन्द्रनीलमयैः परैः३४ । । ३५ ।।
शशिरश्मिप्रकाशाभिः क्वचिदर्कांशुरूपिभिः ।
शोभितं तत्पताकाभिर्विरराज सुखानिलम् । ।३ ६। ।
सर्वर्तुकुसुमैश्चित्रैरिच्छारत्नफलैरपि ।
शुशुभे तत्पुरं कीर्णं पादपैर्गिरिसन्निभैः । ।३७। ।
महीध्राणां यथा मेरुस्सर्वेषां प्रवरो महान् ।
तथैव तत्पुरं रेजे सर्वलोकोपरि स्थितम् । ।३८। ।
तत्र विश्वेश्वरः साक्षान्महाभूतपतिर्हरः ।
सदास्ते सहितः पत्न्या षड्विंशः परमेश्वरः ।। ३९।।
लक्ष्मीर्मेधा धृतिश्चैव ह्रीः श्रीः किर्त्तिः सरस्वती ।
उमया सहितास्तत्र मोदन्ते लोकमातरः । ।8.183.४० ।।
शिवभावर्पितात्मानो ये नरा रुद्रतत्पराः ।
यत्र तत्र मृता वत्स तेषां तत्रास्पदं स्मृतम३५ ।।४१ । ।
ये च माहेश्वरा व्यास तिष्ठन्ते शङ्करालये ।
मुनयः शङ्करं भक्तास्तान् शृणुष्व समाहितः ।।४२।।
अहं सनन्दनश्चैव सनकः ससनातनः ।
ऋभुर्ब्रह्मा सुरज्येष्ठो नरनारायणावपि । ।४३ । ।
- - - -- - - - - - - - -
२९ महेशस्य - क. । ३० शुद्धा (?) । ३१ नेतरा (रे)? । ३२ अनिरीक्षैर्महारत्नैः - क, । ३३ श्चेन्दुसप्रभैः क. ख. । ३४ पुरैः - क. । ३५ इत परं खण्डितं क पुस्तके ।
- - - -- - - - - - - - -

981
  - - - - - - शिष्यः सिद्धः पञ्चशिखस्तथा ।
मुनिर्हयशिरा यश्च यज्ञवल्कादयस्तथा३६ ।।४४।।
त्र्यक्षाः शङ्करवर्ष्माणः परमैश्वर्यसंयुताः ।
तिष्ठन्तीश्वरमूलस्था गुणातीता मुमुक्षवः । ।४५। ।
उत्पन्ने जगतो नाशे महाप्रलयसंज्ञके ।
ईश्वरं ते समाविश्य प्राप्नुवन्त्यपवर्गिकम् ।।४६ ।।
यैश्च दृष्टानि विप्रेन्द्र शिवलिङ्गानि तानि तु३७ ।
केदारो मध्यमश्चैव गिरीशश्च३८ महालये । ।४७। ।
चतुःशृङ्गेश्वरो देवः श्रीगिरौ च महेश्वरः ।
कारोहणो च देवेशो गङ्गाद्वारे च शङ्करः ।
भद्रेशश्च महादेवः शंकुकर्णेश्वरस्तथा । ।४८।।
महाकालेश्वरश्चैव गोकर्णे च तथा ह्युभौ ।
अविमुक्तेश्वरश्चैव यानि चान्यानि भूतले ।।४९।।
तेपि यान्ति मृता व्यास तत्पुरं३९ गिरिजापतेः ।
योगः४० पाशुपतो यश्च मया ते परिकीर्त्तितः । । 8.183.५० ।।
व्रतं पाशुपतं प्राप्य सोपि तत्र४१ प्रवर्तते ।
भक्तिर्येषां भवे नित्यं कृतार्थास्ते नरोत्तमाः । ।५१ । ।
मृताः शिवपुरे व्यास त्र्यक्षाः पट्टिशपाणयः४२ ।
नन्दीशस्कन्दसंकाशा४३ योगैश्वर्यबलान्विताः ।।५२।।
रुद्रा भवन्ति४४ ते व्यास सदा शंकरपार्श्वगाः ।
एष ते कथितः सर्वो योगो माहेश्वरः परः । ।५३ । ।
सकलं निष्कलं चैव ज्ञात्वैवं परमीश्वरम् ।
सर्वबन्धविनिर्मुक्तः परं४५ मोक्षमवाप्स्यसि । ।५४।।
- - - -- - - - - - - - -
३६ यज्ञावाल्कादयस्तथा - ख. । ३७ निभानि तु(?) । ३८ गिरीशस्य - ख । ३९ तत्पर - ख । ४० योगं - ख. । ४१ तेषु - ख. । ४२ पट्टशपाणयः - ख' । ४३ नन्दीशाः स्कन्दसंकाशा - ख. । ४४ च्यवन्ति - ख, ।
- - - -- - - - - - - - -

982
भविष्यसि च योगात्मा४६ ज्ञानस्यास्य प्रभावतः ।
जगात्स्थितिकरो योगी स्मार्त्तधर्मप्रवर्तकः ।।५५। ।
ज्ञानशक्त्या स्मृ - - - ब्रह्माण्डोद्भकारणे४७ ।
स्थितिधर्मनिबोधार्थं पुराणानि४८ करिष्यसि ।।५६।।
यज्ञधर्मप्रचारार्थ वेदं स्वायम्भुवस्मृतम् ।
विज्ञानात् त्वमनुस्मृत्य चतुर्धा विकरिष्यसि । ।५७।।
मन्वन्तरमिदं४९ कृत्स्नं वैवस्वतमनिन्दितम् ।
लोकस्थितिकरा५० धर्मा वेदस्मृतिपुरोगमाः ।।५८। ।
त्वत्कृताः प्रचरिष्यन्ति तीर्थकृत् त्वं भविष्यसि ।
भस्मव्रतं च संप्राप्य पशुपाशविमोचनम् । ।५९।।
शांकरज्ञानसंपन्न५१ ईश्वरे लयमाप्स्यसि५२ ।
एवमुक्तः स विप्रेन्द्रो हृष्टसर्वतनूरुहः ।।8.183.६ ० । ।
उपसद्य मुनीन्द्रं तं भस्मसंस्कारमाप्तवान् ।
तत्क्षणाच्चास्य योगोसौ प्रादुर्भूतो महामुनेः । ।६१ । ।
अभिवाद्य गुरुं व्यासो ब्रह्मसूनुं महौजसम् ।
शर्वायतनवीक्षार्थं विचचार महीतले । ।६२ । ।
वायुरुवाच ५३
एवं सनत्कुमारस्तु पृष्टो व्यासेन धीमता ।
मुनीन्द्रः कथयामास पुराणं स्कन्दसंभवम् ।। ६३ । ।
सर्वागमसमायुक्तं मन्वन्तरजगत्स्थितिम् ।
शिवयोगोद्भवं ध्यानं सर्वज्ञानार्णवं महत् ।।६४। ।
तस्माद्यूयमपि ज्ञात्वा५४ व्रतं पाशुपतं द्विजाः ।
अभ्यस्य शांकरं५५ योगमीश्वरे लयमाप्नुत ।।६५ । ।
- - - -- - - - - - - - -
४६ योगात् मां - ख. । ४७ ब्रह्माण्डे भवकारणे - ख. । ४८ पुराणा (ण) ञ्च - ख । ४९ ..मिमं - ख. । ५० लोकस्थितिकरं - ख. । ५१ शङ्करज्ञासंपन्न - ख. । ५२ लयमेष्यसि (?) । ५३ सूत उवाच (?) । ५४ प्राप्य - ख. । ५५ शङ्करं - ख ।
- - - -- - - - - - - - -

983
इममागममन्विष्य व्यासोसौ मुनिपुङ्गवः ।
वेदार्थस्मृतिसंबद्धा५६ विद्याश्चके महामुनिः । ।६६ ।।
अतो विनिर्गता धर्मा योगविद्यास्तथैव च ।
पुराणं प्रथमं प्राहुराद्यं नन्दीश्वरो५७ द्विजाः (?) ।।६७। ।
 - - - - - - ख्यातो य इमं वेत्ति तत्त्वतः ।
त्रिवर्गः प्राप्यते तेन मुक्तिरेतेन जायते । । ६८ । ।
आयुः प्रवर्द्धतेनेन सर्वमेतेन लभ्यते ।
कृत्स्नस्य जगतो विप्रा आदिकर्ता यथा हरः । ।६९।।
तथा सर्वपुराणानां पुराणोयं परः स्मृतः५८ ।
अधीतो यैरयं५९ विप्रैस्तत्प - - - - - - । ।8.183.७० । ।
                                ।
- - - - - - ( ष्य )सायुज्यं शृणुयाद्विभोः । ।७१ ।।
सेवनाद्योगसंसिद्धिं मोक्षं च परमं लभेत् ।
आद्यं पुण्यमुमापते६०र्द्विजवृषाः स्तोत्रानुवादं परं
देव्याश्चापि महाप्रभावकथनं सर्वागमैरंन्वितम् ।
स्कन्दस्योद्भवविक्रमै६१ - - - - - - - -
- - - - - - - - - - - - - प्नुयुः । ।७२। ।
नागेन्द्रैरसुरेन्द्रयक्षविबुधैः सिद्धैर्द्विजेन्द्रैरपि
शम्भावर्पितसर्वभावहृदयैर्यैयैरयं६२ सेवितः६३ ।
सर्वे ते ज्वलदर्कवह्निवपुषस्त्र्यक्षाः शशाङ्कत्विषः
देवास्यानुचरा बभुर्गणवरा - - - - - - - ।।७३ ।।
- - - -- - - - - - - - -
५६ वेदार्थस्मृतिसम्बन्धा - ख. । ५७ नन्दीश्वरं (?) । ५८ पुराणमिदमुत्तमम् (?) । ५९ ... रियं - ख, . .रिदं (?) । ६० पुराणः.. - ख. । ६१... विक्रमे - ख । ६२.. रिदं (?) । ६३ सेवितं (?) ।
- - - -- - - - - - - - -