स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३४२

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तस्य दक्षिणनैर्ऋत्ये नातिदूरे व्यवस्थितम् ॥
लिंगं पापहरं देवि स्वयं सोमप्रतिष्ठितम् ॥ १ ॥
तत्रैवामृतकुण्डं तु कलाकुण्डं तु तत्स्मृतम् ॥
तत्र स्नात्वा तु चंद्रेशं यो नरः पूजयिष्यति ॥ २ ॥
स तु वर्षसहस्रस्य तपःफलमवाप्स्यति ॥
तत्रैव संस्थितं देवि तडागं चंद्रनिर्मितम् ॥ ३ ॥
धनुःषोडशविस्तारं चंद्रेशात्पूर्वपश्चिमे ॥
तत्पूर्वं ते समाख्यातं मुक्तिदानादिपूर्वकम् ॥ ४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य आशापूरमाहात्म्ये चंद्रेश्वरकलाकुण्डतीर्थमाहात्म्यवर्णनंनाम द्विचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ॥ ३४२ ॥ ॥