स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३०८

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
तस्मान्नारायणात्पूर्वे किंचिदीशानसंस्थितम् ॥
मूलचण्डीशनाम्ना तु विख्यातं भुवनत्रयं ॥ १ ॥
यत्र लिंगं पुराऽस्माकं पातितं त्वृषिभिः प्रिये ॥
क्रोधरक्तेक्षणैर्देवि मूलचण्डीशता? गतम् ॥ २ ॥
आद्यं लिंगोद्भवं देवि ऋषिकोपान्निपातितम् ॥
ये केचिदृषयस्तत्र देवदारुवने स्थिताः ॥ ३ ॥
कालांतरे महादेवि अहं तत्र समागतः ॥
तेषां जिज्ञासया देवि ततस्ते रोषिता भवन् ॥
शप्तस्ततोऽहं देवेशि चक्रुर्मे लिंगपातनम् ॥ ४ ॥ ॥
॥ देव्युवाच ॥ ॥
रोषोपहतसद्भावाः कथमेते द्विजातयः ॥
संजाता एतदाख्याहि परं कौतूहलं मम ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
डिंडि रूपः पुरा देवि भूत्वाऽहं दारुके वने ॥
ऋषीणामाश्रमे पुण्ये नग्नो भिक्षाचरोऽभवम् ॥
भिक्षंतमाश्रमे दृष्ट्वा ताः सर्वा ऋषियोषितः ॥ ६ ॥
कामस्य वशमापन्नाः प्रियमुत्सृज्य सर्वतः॥
तमूर्ध्वलिंगमालोक्य जटामुकुटधारिणम् ॥ ७ ॥ ॥
भिक्षंतं भस्मदिग्धांगं झषकेतुमिवापरम् ॥
विक्षोभिताश्च नः सर्वे दारा एतेन डिंडिना ॥ ८ ॥
तस्माच्छापं च दास्याम ऋषयस्ते तदाऽब्रुवन् ॥
ततः शापोदकं गृह्य संध्यात्वाऽथ तपोधनाः ॥ ९ ॥
अस्य लिंगमधो यातु दृश्यते यत्सदोन्नतम् ॥
इत्युक्ते पतितं लिंगं तत्र देवकुले मम ॥ 7.1.308.१० ॥
मूलचण्डीशनाम्ना तु विख्यातं भुवनत्रये ॥
तल्लिंगं पतितं दृष्ट्वा कोपोपहतचेतसः ॥
पुनर्हंतुं समारब्धा डिंडिनं ते तपोधनाः ॥ ११ ॥
वृसिकापाणयः केचित्कमंडलुधराः परे ॥
गृहीत्वा पादुकाश्चान्ये तस्य धावंति पृष्ठतः ॥ १२ ॥
डिंडिश्चांतर्हितो भूत्वा त्वामुवाच सुमध्यमाम् ॥
रोषोपहतचेतस्कान्पश्यैतांस्त्वं तपोधनान् ॥ १३ ॥
एतस्मात्कारणाद्देवि तव वाक्यान्मयाऽनघे ॥
न कृतोऽनुग्रहस्तेषां सरोषाणां तपस्विनाम् ॥ १४ ॥
अत्रांतरे ते मुनयो ह्यपश्यंतो हि डिंडिनम् ॥
निरानंदं गताः सर्वे द्रष्टुं देवं पितामहम्॥ १५ ॥
तं दृष्ट्वा विबुधेशानं विरंचिं विगतज्वरम् ॥
प्रणम्य शिरसा सर्व ऋषयः प्राहुरंजसा ॥ १६ ॥
भगवन्डिंडि रूपेण कश्चिदस्ति तपोधनः ॥
विध्वंसनाय दाराणां प्रविष्टः किल भिक्षितुम्॥ १७ ॥
शप्तोऽस्माभिस्तु दुर्वृत्तस्तस्य लिंगं निपातितम्॥
तस्मिन्निपतितेऽस्माकं तथैव पतितानि च ॥ १८ ॥
गतोऽसौ कारणात्तस्मात्तल्लिंगे पतिते वयम् ॥
निरानंदाः स्थिताः सर्व आचक्ष्वैतद्धि कारणम् ॥१९॥। ॥
॥ ब्रह्मोवाच ॥ ॥
अशोभनमिदं कार्यं युष्माभिर्यत्कृतं महत्।
रुद्रस्यातिसुरूपस्य सेर्ष्या ये हन्तुमुद्यताः ॥7.1.308.२०॥
आसुरीं दानवीं दैवीं यक्षिणीं किंनरीं तथा ॥
विद्याधरीं च गन्धर्वीं नागकन्यां मनोरमाम् ॥
एता वरस्त्रियस्त्यक्त्वा युष्मदीयासु तास्वपि ॥ २१ ॥
आह्लादं कुरुते सर्वे नैव जानीत भो द्विजाः ॥
त्रैलोक्यनायकां सर्वां रूपातिशयसंयुताम् ॥ २२ ॥
तां त्यक्त्वा मुनिपत्नीनामाह्लादं कुरुते कथम् ॥
तया रुद्रो हि विज्ञप्त ऋषीणां कुर्वनुग्रहम् ॥ २३ ॥
तेन वाक्येन पार्वत्या जिज्ञासार्थं कृतं मनः ॥
चतुर्द्दशविधस्यापि भूतग्रामस्य यः प्रभुः ॥ २४ ॥
स शप्तो डिंडिरूपस्तु भवद्भिः करणेश्वरः ॥
तच्छापाच्छप्तमेवैतत्समस्तं तद्गुणास्पदम् ॥
देवतिर्यङ्मनुष्याणां निरानंदमिति स्थितम् ॥ २५ ॥
शापेनानेन भवतां महा दोषः प्रजायते ॥
आराध्यं नान्यथा लिंगमुन्नतिं यात्यधोगतम् ॥ २६ ॥
एवमुक्तेऽथ देवेन विप्रा ऊचुः पितामहम् ॥
द्रष्टव्यः कुत्र सोऽस्माभिः कथयस्व यथास्थितम् ॥ २७ ॥
॥ ब्रह्मोवाच ॥ ॥
आस्ते गजस्वरूपेण कुबेराश्रमसंस्थितः ॥
तत्र गत्वा तमासाद्य तोषयध्वं पिनाकिनम् ॥ ॥ २८ ॥
एतच्छ्रुत्वा वचस्तस्य सर्वे ते हृष्टमानसाः ॥
गंतुं प्रवृत्ताः सहसा कोटिसंख्यास्तपोधनाः ॥ २९ ॥
चिंतयंतः शुभं देशं द्रष्टुं तं गजरूपिणम् ॥
रुद्रं पितामहाख्यातं कुबेराश्रमवासिनम् ॥ 7.1.308.३० ॥
क्षुत्कामकंठास्तृषितान्गौरी मत्वा तपोधनान् ॥
आदाय गोरसं तेषां कारुण्यात्सा पुरः स्थिता ॥ ३१ ॥
असितां कुटिलां स्निग्धामायतां भुजगीमिव ॥
वेणीं शिरसि बिभ्राणा गौरी गोरससंयुता ॥ ३२ ॥
सा तानाह मुनीन्सर्वान्यन्मया पर्वताहृतम्॥
कपित्थफलसंगंधं गोरसं त्वमृतोपमम् ॥३३॥
तयैवमुक्ता विप्रास्तु आहुस्तां विपुलेक्षणाम् ॥
स्नात्वा च सर्वे पास्यामो गोरसं तु त्वयाहृतम् ॥ ३४ ॥
ततः श्रुत्वा तथा देव्या स्नानार्थं तीर्थमुत्तमम् ॥
तप्तोदकेनसंपूर्णं कृतं कुण्डं मनोरमम् ॥ ३५ ॥
तत्र ते संप्लुताः सर्वे विमुक्ता विपुलाच्छ्रमात्॥
कृताऽऽह्ना गोरसस्वैव पानार्थं समुपस्थिताः॥३६॥
पत्रैर्दिवाकरतरोर्विधाय पुटकाञ्छुभान् ॥
उपविश्य क्रमात्सर्वे ते पिबंति स्म गोरसम् ॥ ३७ ॥
गोरसेन तदा तेषाममृतेनेव पूरितान्॥
बुभुक्षितानां पुटकान्मुनीनां तृप्तिकारणात् ॥३८॥
पुनः पूरयते गौरी पीत्वा ते तृप्तिमागताः॥
क्षुत्तृषाश्रमनिर्मुक्ताः पुनर्जाता इव स्थिताः ॥३९॥
स्वस्थचित्तैस्ततो ज्ञात्वा नेयं गोपालिसंज्ञिका ॥
अनुग्रहार्थमस्माकं गौरीयं समुपागता ॥7.1.308.४०॥
प्रणम्य शिरसा सर्वे तामूचुस्ते सुमध्यमाम्॥
उमे कथय कुत्रस्थं द्रक्ष्यामो रुद्रमेकदा ॥ ४१ ॥
तथोक्तास्ते महात्मानस्तं पश्यत महागजम् ॥
गजतां च समासाद्य संचरंतं महाबलम् ॥ ४२ ॥
भवद्भिर्निजभक्त्यायं संग्राह्यो हि यथासुखम् ॥
ते तद्वचनमासाद्य समेत्यैकत्र च द्विजाः ॥ ॥ ४३ ॥
पवित्रास्तं गजं द्रष्टुं भावितेनांतरात्मना ॥
यत्रैकत्र स्थिता विप्रास्तत्र तीर्थं महोदयम् ॥
संगमेश्वरसंज्ञं तु पूर्वं सर्वत्र विश्रुतम् ॥ ४४ ॥
ततस्तस्मात्प्रवृत्तास्ते द्रष्टुकामा महागजम् ॥
कुंडिकाः संपरित्यज्य संनह्यात्मानमात्मना ॥४५॥
यत्र ताः कुंडिकास्त्यक्तास्तत्तीर्थं कुण्डिकाह्वयम् ॥
सर्वपापहरं पुंसां दृष्टाऽदृष्टफलप्रदम् ॥ ४६ ॥
कुबेरस्याश्रमं प्राप्य ततस्ते मुनिसत्तमाः ॥
नालिकेरवनीसंस्थं ददृशुस्तं द्विपं तदा ॥ ४७ ॥
करे ग्रहीतुमारब्धाः स्वकरैर्हृष्टमानसाः ॥
गजस्तान्करसंलग्नान्विचिक्षेप तपोधनान् ॥ ४८ ॥
काश्चिदंगसमालग्नान्समंताद्भयवर्जितान् ॥
एवं स तैः पुनः सर्वैर्मशकैरिव चेष्टितम् ॥ ४९ ॥
क्रीडां करोति विविधां वनसंस्थो हरद्विपः ॥
तद्रूपं संपरित्यज्य रुद्रो रौद्रगजात्मकम् ॥ 7.1.308.५० ॥
पुनरन्यच्चकारासौ डिंडिरूपं मनोरमम् ॥
जयशब्दप्रघोषेण वेदमङ्गलगीतकैः ॥ ५१ ॥
उन्नामितं पुनस्तेन यत्र लिंगं महोदयम् ॥
तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम् ॥ ५२ ॥
गजरूपधरस्तत्र स्थितः स्थाने महाबलः ॥
गणनाथस्वरूपेण ह्युन्नतो जगति स्थितः ॥ ५३ ॥
डिंडिरूप धरो भूत्वा रुद्रः प्राह तपोधनान् ॥
यन्मया भवतां कार्यं कर्तव्यं तदिहोच्यताम् ॥ ५४ ॥
एवमुक्तस्तु तैरुक्तः सर्वज्ञानक्रियापरैः ॥
सानन्दाः प्राणिनः संतु त्वत्प्रसादात्पुरा यथा ॥ ५५ ॥
क्षंतव्यं देवदेवेश कृतं यन्मूढमानसैः ॥
त्वत्प्रसादात्सुरेशान तत्त्वं सानुग्रहो भव ॥ ५६ ॥
एवमस्त्विति तेनोक्तास्ते सर्वे विगतज्वराः ॥
तल्लिंगानुकृतिं लिंगमीजिरे मुनयस्तथा ॥
चक्रुस्ते मुनयः सर्वे स्तुतिं विगतमत्सराः ॥ ५७ ॥
क्षमस्व देवदेवेश कुर्वस्माकमनुग्रहम् ॥
अस्मिँल्लिंगे लयं गच्छ मूलचण्डीशसंज्ञके ॥
त्रिकालं देवदेवेश ग्राह्या ह्यत्र कला त्वया ॥ ५८ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
चण्डी तु प्रोच्यते देवी तस्या ईशस्त्वहं स्मृतः ॥
तस्य मूलं स्मृतं लिंगं तदत्र पतितं यतः ॥ ५९ ॥
तस्मात्तन्मूल चण्डीश इति ख्यातिं गमिष्यति ॥ वा
पीकूपतडागानां शतैस्तु विपुलैरपि ॥ 7.1.308.६० ॥
कृतैर्यज्जायते पुण्यं तत्पुण्यं लिंगदर्शनात् ॥
ब्रह्माण्डं सकलं दत्त्वा यत्पुण्यफलमाप्नुयात् ॥ ६१ ॥
तत्पुण्यं लभते देवि मूलचण्डीशदर्शनात् ॥
तत्र दानानि देयानि षोडशैव नरोत्तमैः ॥ ६२ ॥
एवं तद्भविता सर्वं यन्मयोक्तं द्विजोत्तमाः ॥
यात दारुवनं विप्राः सर्वे यूयं तपोधनाः ॥
मया सर्वे समादिष्टा यात दारुवनं द्विजाः ॥ ६३ ॥
ततस्तु संप्राप्य महद्वचो मम सर्वे प्रहृष्टा मुनयो महोदयम् ॥
गत्वा च तद्दारुवनं महेश्वरि पुनश्च चेरुः सुतपस्तपोधनाः ॥ ६४ ॥
एतस्मात्कारणाद्देवि मूलचण्डीशसंज्ञितम् ॥
लिंगं पापहरं नृणामर्द्धचन्द्रेण भूषितम् ॥ ६५ ॥
दोहनी दुग्थदानेन मुनीनां तृषितात्मनाम् ॥
श्रमापहारं यद्देवि त्वया कृतमनुत्तमम् ॥
तत्तप्तोदकनाम्ना वा अभूत्कुण्डं धरातले ॥६६ ॥
ऋषितोयाजले स्नात्वा चण्डीशं यः प्रपूजयेत् ॥
स प्रचण्डो भवेद्भूमौ भुवनानामधीश्वरः ॥ ६७ ॥
एतत्संक्षेपतो देवि माहात्म्यं कीर्तितं तव ॥
मूलचण्डीशदेवस्य श्रुतं पातकनाशनम् ॥ ६८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये तप्तोदककुण्डोत्पत्तौ मूलचण्डीशोत्पत्तिमाहात्म्यवर्णनंनामाष्टोत्तर त्रिशततमोऽध्यायः ॥ ३०८ ॥