स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १९४

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं देवैः प्रतिष्ठितम् ॥
ज्ञात्वा प्रभावं क्षेत्रस्य सर्वपातकनाशनम् ॥ १ ॥
तत्र कृत्वा तपश्चोग्रं लिंगं देवैः प्रतिष्ठितम् ॥
तं दृष्ट्वा मानवो देवि कृतकृत्यः प्रजायते ॥ २ ॥
गोदानं तत्र देयं तु ब्राह्मणे वेदपारगे ॥
सम्यक्च लभते देवि यात्रायाः फलमूर्जितम् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्येऽमरेश्वरमाहात्म्यवर्णनंनाम चतुर्णवत्युत्तरशततमोऽध्यायः ॥ १९४ ॥