स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १६०

विकिस्रोतः तः

॥ ॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि राजभट्टारकं परम् ॥
रैवन्तकं सूर्यपुत्रमश्वारूढं महाबलम् ॥ १ ॥
संस्थितं क्षेत्रमध्ये तु सावित्र्या नैर्ऋते प्रिये ॥
तं दृष्ट्वा मानवो देवि सर्वापद्भ्यो विमुच्यते ॥२॥
रविवारेण सप्तम्यां यस्तं पूजयते नरः ॥
तस्याऽन्वयेऽपि नो देवि दरिद्री जायते नरः॥३॥
तस्मात्सर्वप्रयत्नेन तमेवाराधयेन्मनाक् ॥
निर्विघ्नं क्षेत्रवासार्थं राजा वाऽश्वविवृद्धये ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रैवंतकराजभट्टारकमाहात्म्यवर्णनंनाम षष्ट्युत्तरशततमोऽध्यायः ॥ १६० ॥