स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १३५

विकिस्रोतः तः
Jump to navigation Jump to search

ईश्वर उवाच॥
तत्रैव संस्थितां पश्येद्देवीं दुःखांतकारिणीम्॥
शीतलेति पुरा ख्याता युगे द्वापरसंज्ञिते॥
कलौ पुनः समाख्यातां कलिदुःखान्तकारिणीम्॥१॥
शीतलं कुरुते देहं बालानां रोगवर्जितम्॥
पूजिता भक्तिभावेन तेन सा शीतला स्मृता॥२॥
विस्फोटानां प्रशांत्यर्थं बालानां चैव कारणात् ॥
मानेन मापितान्कृत्वा मसूरांस्तत्र कुट्टयेत् ॥ ३ ॥
शीतलापुरतो दत्त्वा बालाः सन्तु निरामयाः ॥
विस्फोटचर्चिकादीनां वातादीनां शमो भवेत् ॥ ४ ॥
श्राद्धं तत्रैव कुर्वीत ब्राह्मणांस्तत्र भोजयेत् ॥ ५ ॥
कर्पूरं कुसुमं चैव मृगनाभिं सुचन्दनम्॥
पुष्पाणि च सुगन्धानि नैवेद्यं घृतपायसम् ॥
निवेद्य देव्यै तत्सर्वं दंपत्योः परिधापयेत् ॥६॥
नवम्यां शुक्लपक्षे तु मालां विल्वमयीं शुभाम्॥
भक्त्या निवेद्य तां देव्यै सर्वसिद्धिमवाप्नुयात् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दुःखान्तकारिणीतिलागौरीमाहात्म्यवर्णनंनाम पञ्चत्रिंदुत्तरशततमोऽध्यायः ॥१३५॥॥