स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ११३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि जानकीश्वरमुत्तमम् ॥
रामेशान्नैऋते भागे धनुस्त्रिंशकसंस्थितम् ॥ १ ॥
पापघ्नं सर्वजंतूनां जानक्याऽऽराधितं पुरा ॥
प्रतिष्ठितं विशेषेण सम्यगाराध्यशंकरम् ॥ २ ॥
पूर्वं तस्यैव लिंगस्य वसिष्ठेशेति नाम वै ॥
तत्पश्चाज्जानकीशेति त्रेतायां प्रथितं क्षितौ ॥ ३ ॥
ततः षष्टिसहस्राणि वालखिल्या महर्षयः ॥
तत्र सिद्धिमनुप्राप्तास्तेन सिद्धेश्वरेति च ॥ ॥ ४ ॥
ख्यातं कलौ महादेवि युगलिंगं महाप्रभम्॥
तद्दृष्ट्वा मुच्यते पापैर्दुःखदौर्भाग्यसंभवैः ॥ ५ ॥
यस्तं पूजयते भक्त्या नारी वा पुरुषोऽपि वा ॥
संस्नाप्य विधिवद्भक्त्या स मुक्तः पातकैर्भवेत् ॥ ६ ॥
स्नात्वा च पुष्करे तीर्थे यस्तल्लिगं प्रपूजयेत् ॥
नियतो नियताहारो मासमेकं निरन्तरम्॥ ७ ॥
दिनेदिने भवेत्तस्य वाजिमेधाधिकं फलम् ॥
माघे मासि तृतीयायां या नारी तं प्रपूजयेत् ॥
तदन्वयेऽपि दौर्भाग्यं दुःखं शोकश्च नो भवेत् ॥ ८ ॥
इति ते कथितं देवि माहात्म्यं पापनाशनम् ॥
श्रुतं हरति पापानि सौभाग्यं संप्रयच्छति ॥ ९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जानकीश्वरमाहात्म्यवर्णनंनाम त्रयोदशोत्तरशततमोऽध्यायः ॥ ॥ ११३ ॥