स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०८४

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि आदिनारायणं हरिम् ॥
तस्याश्च पूर्वदिग्भागे सर्वपातकनाशनम् ॥ १ ॥
पादुकासनसंयुक्तं सर्वदैत्यांतकारिणम् ॥
आदौ कृतयुगे देवि दैत्योऽभून्मेघवाहनः ॥ २ ॥
महाबलो महाकायो योजनायुतविस्तरः ॥
अजेयः सर्वदेवानां त्रैलोक्यक्षयकारकः ॥
ब्रह्मणा तस्य तुष्टेन वरो दत्तो वरानने ॥ ३ ॥
यदा पादुकया विष्णुस्त्वां हनिष्यति संयुगे ॥
तदैव मृत्युर्भविता नान्यथा मरणं तव ॥ ४ ॥
इति लब्धवरो दैत्यः संतापयति भूतलम् ॥
युगानां कोटिमेकां तु सदेवासुरमानुषम् ॥ ५ ॥
संतप्य बहुधा देवि दक्षिणो दधिमागतः ॥
तत्र विध्वंसयामास ऋषीणामाश्रमाणि वै ॥ ६ ॥
ततस्त ऋषयः सर्वे विध्वस्ताश्रममण्डलाः ॥
शरणं चैव संप्राप्ता देवदेवं तु केशवम् ॥
अजेयं तं तु संज्ञात्वा तुष्टुवुर्गरुडध्वजम् ॥ ७ ॥
॥ ऋषय ऊचुः ॥
नमः परमकल्याणकल्याणायात्मयोगिने ॥
जनार्द्दनाय देवाय श्रीधराय च वेधसे ॥ ८ ॥
नमः कमलकिंजल्कसुवर्णमुकुटाय च ॥
केशवायातिसूक्ष्माय बृहन्मूर्ते नमोनमः ॥ ९ ॥
महात्मने वरेण्याय नमः पंकजनाभये ॥
नमोऽस्तु मायाहरये हरये हरिवेधसे ॥ 7.1.84.१० ॥
हिरण्यगर्भगर्भाय जगतः कारणात्मने ॥
अच्युताय नमो नित्यमनन्ताय नमोनमः ॥ ११ ॥
नमो मायापटच्छन्न जगद्धात्रे महात्मने ॥
संसारसागरोत्तार ज्ञानपोतप्रदायिने ॥
अकुंठमतये धात्रे सर्गस्थित्यंत कर्मणे ॥ १२ ॥
यथा हि वासुदेवेति प्रोक्ते नश्यति पातकम् ॥
तथा विलयमभ्येतु दैत्योऽयं मेघवाहनः ॥ १३ ॥
यथा विष्णुः स्वभक्तेषु पापमाप्नोति संस्थितम्॥
तथा विनाशमायातु दैत्योऽयं पापकर्मकृत् ॥ १४ ॥
स्मृतमात्रो यथा विष्णुः सर्वं पापं व्यपोहति ॥
तथा प्रणाशमभ्येतु दैत्योऽयं मेघवाहनः ॥ १५ ॥
भवंतु भद्राणि समस्तदोषाः प्रयांतु नाशं जगतोऽखिलस्य ॥
अभेद्यभक्त्या परमेश्वरेशे स्मृते जगद्धातरि वासुदेवे ॥ १६ ॥
ये भूतले ये दिवि येऽन्तरिक्षे रसातले प्राणिगणाश्च केचित् ॥
भवन्तु ते सिद्धियुता नरोत्तमाः स्मृते जगद्धातरि वासुदेवे ॥ १७ ॥
ये प्राणिनः कुत्रचिदत्र संति ब्रह्माण्डमध्ये परतश्च केचित् ॥
तेषां तु सिद्धिः परमास्त्वनिंद्या स्तुते जगद्धातरि वासुदेवे ॥ १८ ॥
॥ ईश्वर उवाच ॥ ]।
इति स्तुतस्तदा देवि आदिनारायणो हरिः ॥
ज्ञात्वा स भावि कार्यं तत्समारुह्य च पादुकाम् ॥ १९ ॥
बभूव तेषां प्रत्यक्ष ऋषीणां पापनाशनः ॥
उवाच प्रणतान्सर्वान्किं वा कार्यं हृदि स्थितम् ॥ 7.1.84.२० ॥
कथ्यतां तत्करिष्यामि युष्मत्स्तोत्रेण तर्पितः ॥ २१ ॥
इत्युक्ता ऋषयः सर्वे कृतांजलिपुटाः स्थिताः ॥
आदिदेवं हरिं प्रोचुः सर्वे नतशिरोधराः ॥ २२ ॥
॥ ऋषय ऊचुः ॥ ॥
जानासि सर्वं त्वं देव न चास्त्यविदितं तव ॥
इमं दैत्यं महादेव संहरस्व महाबलम्॥
यथेदं सकलं विश्वं निरातंकं भवेत्प्रभो ॥ २३ ॥
इत्युक्तस्तैस्तदा विष्णुर्दैत्यमाहूय संयुगे ॥
ताडयामास तं दैत्यं हृदि पादुकया शुभे॥२४॥
स हतः पतितो दैत्यो विगतासुर्महोदधौ॥
हत्वा दैत्यवरं देवस्तत्र स्थाने स्थितोऽभवत्॥
पादुकासनसंस्थस्तु तत्राद्यापि वरानने ॥ २५ ॥
यस्तं पूजयते भक्त्या एकादश्यां नरोत्तमः ॥
सोश्ववमेधफलं प्राप्य मोदते दिवि देववत् ॥ २६ ॥
गोलक्षं ब्राह्मणे दत्त्वा यत्फलं प्राप्नुयान्नरः ॥
तदादिदेवे गोविन्दे दृष्टे भक्त्या फलं लभेत् ॥ २७ ॥
कलौ कृतयुगं तेषां क्लेशस्तेषां सुखाधिकः ॥
आदिनारायणो देवो येषां हृदयसंस्थितः ॥ २८॥
एकादश्यां रविदिने स्नात्वा संनिहिता जले ॥
आदिनारायणं पूज्य मुच्यते भवबन्धनात् ॥२९॥
इति ते कथितं देवि माहात्म्यं विष्णुदैवतम् ॥
श्रुतं पापहरं नृणां दारिद्यौघविनाशनम् ॥ 7.1.84.३० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य आदिनारायणमाहात्म्यवर्णनंनाम चतुरशीतितमोध्यायः ॥ ८४ ॥