स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०५१

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि केतुलिंगं महाप्रभम् ॥
राह्वीशानादुत्तरे च मंगलायाश्च दक्षिणे ॥ १ ॥
धनुषोंतरमानेन नातिदूरे व्यवस्थितम् ॥
लिंगं महाप्रभावं हि सर्वपातकनाशनम् ॥ २ ॥
केतुर्नाम ग्रहोत्युग्रः शिवसद्भावभावितः ॥
वर्तुलोऽतीव विस्तीर्णो लोचनाभ्यां सुभीषणः ॥ ३ ॥
पलालधूमसंकाशो ग्रहपीडापहारकः ॥
तत्राकरोत्तपश्चोग्रं दिव्याब्दानां शतं प्रिये ॥ ४ ॥
तस्य तुष्टो महादेवो ग्रह त्वं प्रददौ प्रिये ॥
एकादशशतानां च ग्रहाणामाधिपत्यताम् ॥ ५ ॥
तत्रस्थं पूजयेद्भक्त्या केतुलिंगं महाप्रभम् ॥
केतूदये महाघोरे तस्मिन्दृष्टे विशेषतः ॥ ६ ॥
ग्रहपीडासु चोग्रासु पूजयेत्तं विधानतः ॥
पुष्पैर्गंधैस्तथा धूपैर्नैवेद्यैर्विविधैः शुभैः ॥ ७ ॥
तोषयेद्विधिवद्देवं केतुं कल्मषनाशनम् ॥ ८ ॥
इति संक्षेपतः प्रोक्तं केतुलिंगं महोदयम् ॥
ग्रहपीडोपशमनं सर्वपातकनाशनम् ॥ ९ ॥
एतानि नव लिंगानि ग्रहाणां कथितानि ते ॥
यः पश्यति नरो नित्यं तस्य पीडाभयं कुतः ॥ 7.1.51.१० ॥
न दौर्भाग्यं कुले तस्य न रोगी नैव दुःखितः ॥
जायते पुत्रवद्देवि तं रक्षंति महाग्रहाः ॥ ११ ॥
इति ते कथितं सम्यक्चतुर्दशायतनं प्रिये ॥
विघ्नेश्वरं समारभ्य यावत्केतुप्रतिष्ठितम् ॥ १२ ॥
नवग्रहेश्वराणां तु माहात्म्यं पापनाशनम् ॥
तथैव पंचलिंगानां श्रुत्वा पापैः प्रमुच्यते ॥ १३ ॥
कपर्द्दिनं समारभ्य चंडनाथांतकानि च ॥
पंचैव मुद्रालिंगानि नापुण्यो वेद मानवः ॥ १४ ॥
सूर्येश्वरं समारभ्य केतुलिंगांतकानि वै ॥
नवग्रहाणां लिंगानि नान्यो जानाति कश्चन ॥ १५ ॥
चतुर्दशविधा त्वेवं प्रोक्ताऽऽयतनसंगतिः ॥
यश्चैनां वेद भावेन स क्षेत्रफलमश्नुते ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये केत्वीश्वरमाहात्म्यवर्णननामैकपंचाशोऽध्यायः ॥ ५१ ॥