स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०५०

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं राहुप्रतिष्ठितम् ॥
शनैश्चरेश्वराद्देवि वायव्ये संप्रतिष्ठितम् ॥ १ ॥
अजादेव्याश्चोत्तरतो धनुषां सप्तके स्थितम् ॥
मंगलायाः समीपस्थं नातिदूरे व्यवस्थितम् ॥ २ ॥
लिंगं महाप्रभावं तु सैंहिकेयप्रतिष्ठितम् ॥
तत्र वर्षसहस्रं तु वैप्रचित्तिस्तपोऽकरोत् ॥ ३ ॥
स्वर्भानुः स महावीर्यो वक्त्रयोधी महासुराः ॥
समाराध्य महादेवं दिव्येन तपसा प्रभुम् ॥ ४ ॥
लिंगेऽवतारयामास जगद्दीपं महेश्वरम् ॥
यश्चैनं पूजयेद्भक्त्या नरः सम्यक्च पश्यति ॥
तस्य पापं क्षयं याति अपि ब्रह्मवधोद्भवम् ॥ ५ ॥
नांधो न बधिरो मूको न रोगी न च निर्द्धनः ॥
कदाचिज्जायते मर्त्यस्तेन दृष्टेन भूतले ॥ ६ ॥
सुखसौभाग्यसंपन्नस्तदा भवति रूपवान् ॥
सर्वकामसमृद्धात्मा मोदते दिवि देववत् ॥ ७ ॥
इति ते कथितं देवि माहात्म्यं राहुदैवतम् ॥
श्रुत्वा तु मोहनिर्यातो नरो निष्कल्मषो भवेत् ॥ ८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये राह्वीश्वरमाहात्म्यवर्णनंनाम पंचाशोऽध्यायः ॥ ५० ॥