स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०४२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि चण्डीशं देवमुत्तमम् ॥
सोमेशादीशदिग्भागे धनुषां सप्तके स्थितम् ॥ १ ॥
दण्डपाणेस्तु भवनाद्दक्षिणे नातिदूरगम् ॥
चंड्या प्रतिष्ठितं पूर्वं चण्डेनाराधितं ततः ॥ २ ॥
गणेन मम देवेशि तत्कृत्वा दुष्करं तपः ॥
तेन चण्डेश्वरं लिंगं प्रख्यातं धरणीतले ॥ ३ ॥
स्नापयेत्पयसा पूर्वं दध्ना घृतयुतेन च ॥
मधुनेक्षुरसेनैव कुंकुमेन विलेपयेत् ॥ ४ ॥
कर्पूरोशीरमिश्रेण मृगनाभिरसेन च ॥
चन्दनेन सुगन्धेन पुष्पैः संपूजयेत्ततः ॥ ५ ॥
दग्ध्वा धूपं पुरो देवि ततो देवस्य चागुरुम् ॥
वस्त्रैः संपूजयेत्पश्चादात्मवित्तानुसारतः ॥ ६ ॥
नैवेद्यं परमान्नं च दत्त्वा दीपसम न्वितम् ॥
ततो दद्याद्द्विजातिभ्यो यथाशक्त्या तु दक्षिणाम्॥ ७ ॥
दक्षिणां दिशमास्थाय यत्किंचित्तत्र दीयते॥
चण्डीशस्य वरारोहे तत्सर्वं चाक्षयं भवेत् ॥ ८ ॥
यः श्राद्धं कुरुते तत्र चण्डीशस्य तु दक्षिणे ॥
आकल्पं तृप्तिमायांति पितरस्तस्य भामिनि ॥ ९ ॥
अयने चोत्तरे प्राप्ते यः कुर्याद्घृत कम्बलम् ॥
न स भूयोऽत्र संसारे जन्म प्राप्नोति दारुणम्॥ 7.1.42.१० ॥
एवं कृत्वा नरो भक्त्या यात्रां देवस्य शूलिनः ॥
निर्माल्यातिक्रमोद्भूतैरज्ञानाद्भक्षणोद्भवैः ॥
पापैः प्रमुच्यते जंतुस्तथाऽन्यैः कर्मसंभवैः ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये चण्डीशमाहात्म्यवर्णनंनामद्विचत्वारिंशोऽध्यायः ॥ ४२ ॥