स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ०७

विकिस्रोतः तः

पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ सुपुण्यमचलेश्वरम् ॥
यं दृष्ट्वा सिद्धिमाप्नोति नरः श्रद्धासमन्वितः ॥ १ ॥
तत्र कृष्णचतुर्दश्यां यः श्राद्धं कुरुते नरः ॥
आश्विने फाल्गुने वापि स याति परमां गतिम् ॥ २ ॥
यस्तु पूजयते भक्त्या दक्षिणां दिशमास्थितः ॥
पुष्पैः पत्रैः फलैश्चैव सोऽश्वमेधफलं लभेत् ॥ ३ ॥
पंचामृतेन यस्तत्र तर्पणं कुरु ते नरः ॥
सोऽपि देवस्य सांनिध्यं शिवलोकमवाप्नुयात् ॥ ४ ॥
प्रदक्षिणांते यस्तस्य प्रणामं कुरुते नरः ॥
नश्यंति सर्वपापानि प्रदक्षिणपदेपदे ॥ ५ ॥
तत्राश्चर्यमभूत्पूर्वं तत्त्वं शृणु महामते ॥
मया पूर्वं श्रुतं स्वर्गे नारदाच्छक्रसन्निधौ ॥ ६ ॥
तत्र पूर्वं शुको नीडं वृक्षे चैवाकरोद्द्विजः ॥
गतागतेन नीडस्य कुरुते तं प्रदक्षिणाम्॥ ७ ॥
न च भक्त्या महाराज पक्षियोनिसमुद्भवः ॥
अथासौ मृत्युमापन्नः कालेन महता शुकः ॥ ८ ॥
संजातः पार्थिवे वंशे राजा वेणुरिति स्मृतः ॥
जातिस्मरो महाराज सर्वशत्रुनिकृन्तनः ॥ ९ ॥
स तं स्मृत्वा प्रभावं हि प्रदक्षिणासमुद्भवम् ॥
अचलेश्वरमासाद्य प्रदक्षिणामथाकरोत् ॥ 7.3.7.१० ॥
नक्तं दिनं महाराज नान्यत्किंचित्करोति सः ॥
न तथा तपसे यत्नो न नैवेद्ये कथंचन ॥ ११ ॥
न पुष्पे धूपदाने च प्रदक्षिणापरः सदा ॥
केनचित्त्वथ कालेन मुनयोऽत्र समागताः ॥ १२ ॥
नारदः शौनकश्चैव हारीतो देवलस्तथा ॥
गालवः कपिलो नंदः सुहोत्रः कश्यपो नृपः ॥ १३ ॥
एते चान्ये च बहवो देवव्रतपरायणाः ॥
केचित्स्नानं कारयंति तस्य लिंगस्य भक्तितः ॥ १४ ॥
अन्ये च विविधां पूजां जपमन्ये समाहिताः ॥
एके नृत्यंति राजेंद्र गायंति च तथा परे ॥ १५ ॥
बलिमन्ये प्रयच्छंति स्तुतिं कुर्वंति चापरे ॥
अथाश्चर्यं परं दृष्ट्वा प्रदक्षिणापरं नृपम् ॥ १६ ॥
परं कौतुकमापन्ना वाक्यमेतदथाब्रुवन् ॥
प्रदक्षिणासमुद्भूतं कारणं ज्ञातुमिच्छवः ॥ १७ ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्मात्त्वं पार्थिवश्रेष्ठ प्रदक्षिणापरः सदा ॥
देवस्यास्य विशेषेण सत्यं नो वक्तुमर्हसि ॥ १८ ॥
न ददासि जलं लिंगे प्रभूतं सुमनोहरम् ॥
पुष्पधूपादिकं वाथ स्तोत्राणि विविधानि च ॥ १९ ॥
समर्थोऽसि तथान्येषां दानानां त्वं महीपते ॥
एतन्नः कौतुकं सर्वं यथावद्वक्तुमर्हसि ॥ 7.3.7.२० ॥
॥ वेणुरुवाच ॥ ॥
यदहं संप्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ॥
पूर्वदेहांतरे वृत्तं सर्वं सत्यं विशेषतः ॥ २१ ॥
प्रासादेऽस्मिन्पुरा पक्षी शुकोऽहं स्थितवांस्तदा ॥
कृतवांश्च तदा देवं प्रदक्षिणामहर्निशम् ॥२२॥
कृपयाऽस्य प्रभावाच्च जातो जातिस्मरस्त्वहम् ॥
अधुना परया भक्त्या यत्करोमि प्रदक्षिणाम् ॥ २३ ॥
न जाने किं फलं मेऽद्य देवस्यास्य प्रसादतः ॥
एतस्मात्कारणाच्चाहं नान्यत्किंचित्करोमि भोः ॥ २४ ॥ ॥
॥ पुलस्त्य उवाच ॥ ॥
वेणुवाक्यं ततः श्रुत्वा मुनयः शंसितव्रताः ॥
विस्मयोत्फुल्लनयनाः साधुसाध्विति चाब्रुवन् ॥ २५ ॥
ततः प्रदक्षिण पराः सर्वे तत्र महर्षयः ॥
 बभूवुर्मुनयः सर्वे श्रद्धया परया युताः ॥ २६ ॥
सोऽपि राजा महाभागो वेणुः शंभोः प्रसादतः ॥
शाश्वतं स्थानमापन्नो दुर्ल्लभं त्रिदशैरपि ॥ २७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडेऽचलेश्वरप्रभाववर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥