स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/विषयानुक्रमणिका

विकिस्रोतः तः
Jump to navigation Jump to search

विषयानुक्रमणिका

१ मंगलाचरणम्, सूतशौनकसंवादारम्भः, तत्र शौनकप्रश्नं श्रुत्वा तस्योत्तरं दातुं सूतेन लिंगोत्पत्तिवर्णनप्रसंगेन स्त्रीवियोगिनः शिवस्य ऋष्याश्रमे गमनवर्णनम्, तत्रर्षिभिर्दिगंबरं शिवं दृष्ट्वा तस्मै शापप्रदानम्, तेन शापेन शिवस्य तत्रव लिंग-पतनम्, ब्रह्मविष्ण्वादिभिः शिवस्तवनकरणम् , तेन तुष्टेन शंकरेण लिंगपूजन- विधिकथनम्, ततो देवैर्हाटकेश्वरक्षेत्रे गत्वा तत्रैव तस्य शिवलिंगस्य स्थापनम्, लिंगपूजनमाहात्म्यवर्णनम् ९..... .. १

२ लिंगोत्पाटनेन पातालतो गंगाया आगमनम्, त्रिशकोश्चण्डालत्वं कथं प्राप्तमिति प्रश्ने तत्कथोपाख्याने सशरीरेणस्वर्गगमनाय त्रिशंकुना वसिष्ठस्य प्रार्थनाकरणम्, वसिष्ठेनेदमशक्यमिति कथितेऽन्यं गुरुं प्रष्टुं मनसि दुराग्रहेण निर्धारणम्- ३

३ वसिष्ठवाक्यमनादृत्य दुराग्रहेण स्वेच्छया वर्तितुमुद्युक्तं त्रिशंकुं प्रति वसिष्ठपुत्रैः 'चण्डालो भव इति शापदानम्, तेन शापेन सद्यश्चण्डालत्वं प्राप्य पश्चात्तापेन दुःखितस्य त्रिशंकोराज्ञया तस्य मन्त्रिभिस्त्रिशंकुज्येष्ठपुत्रं हरिश्चंद्रं राज्येभिषे- चनम्, तस्य त्रिशंकोश्च महारण्ये पद्भ्यां गमनम्... ... ४

४ अरण्ये गच्छतश्चण्डालस्य त्रिशङ्कोर्विश्वामित्राश्रमे गमनम्, ततो विश्वामित्रेण सर्व- वृत्तान्तं श्रुत्वा स्पर्धया 'त्वामनेनैव देहेन स्वर्ग नेष्यामि 'ः इति प्रतिज्ञां कृत्वा तेन चण्डालेन साकं तस्य पापनिरसनायानेकतीर्थक्षेत्रेषु भ्रमणम्, भ्रमतोस्तयोर्मा- र्कण्डयेन समं संवादः, मार्कण्डेयवचनाद्धाटकेश्वरे गमनम्, हाटकेश्वरलिंगपू जनेन त्रिशंकोश्चण्डालत्वनिवृत्तिः, ततः स्वर्गप्राप्तिकरं यज्ञं कर्तुं तयोर्ब्रह्मानुज्ञा- ग्रहणम्...... ..... ... ५

५ ब्रह्मणा तथा करणेऽनुज्ञायामदत्तायामपि विश्वामित्रेण त्रिशंकोः सशरीरेण स्वर्ग- प्राप्तये स्वतपःप्रभावाद्द्वादशवार्षिकं सत्रं ब्राह्मणद्वारा समाप्य ततोऽन्तेऽवभृथ- स्नानादिकं कृत्वा यज्ञसमाप्तिकरणम्. .. ६

६ स्वर्गप्राप्त्यभावाद्विश्वामित्रं प्रति प्रश्नं कुर्वतस्त्रिशंकोर्विष्णुं स्तुत्वा ततो वरं गृहीत्वा विश्वामित्रदत्तं नूतनस्वर्गं रचयित्वा सशरीरेण स्वर्गं प्रति गमनम्.... .. ७

७ विश्वामित्रकृतसृष्ट्या ब्रह्मसृष्ट्या साकं परस्परविवादं दृष्ट्वा देवानां ब्रह्माभ्याशे गमनम्, ततो ब्रह्मादीनां जगत्स्थित्यर्थं विश्वामित्रसमीपे गमनम्, विश्वामित्र-वचनादनन्यगतिकत्वात्त्रिशंकोः स्वर्गे गमनम्, विश्वामित्रस्य नूतनसृष्टेः स्वेच्छ-या निवतर्नम्, त्रिशंकूपाख्यानोपसंहारश्च...... ७

८ हाटकेश्वरप्रभावं श्रुत्वा सर्वजनानां तत्र गमनम्, विश्वामित्रस्यापि कुरुक्षेत्रं त्यक्त्वा तत्रैव वासः, यज्ञादीनकृत्वापि मोक्षप्राप्तिदमिदं क्षेत्रमिति मत्वा देवाज्ञया हाट-केश्वरस्य पाताले स्थापनम्, तेन नागानामपि तद्बिलेन सर्वत्र गमनम्, हाटके-श्वरमाहात्म्यवर्णने हिरण्यकशिपोः सुतया रमानाम्न्या पुत्रप्राप्त्यर्थ विष्णुमुद्दिश्य तपश्चरणम्, विष्णुकृपया ततो वृत्रासुरोत्पत्तिः, इन्द्रादिभिर्वृत्रवधार्थं कृतया विष्णप्रार्थनया तद्वचनाद्वज्रोत्पादनार्थं दधीच्यग्रे गमनम्, दधीच्यस्थिनिर्मितव-ज्रेण वृत्रस्य पराजयः, तज्जन्यब्रह्महत्यादोषनिरासार्थं शक्रस्य हाटकेश्वरे गमनम्, हाटकेश्वरपूजनेन दोषनिवृत्तिः, स्वस्थाने गमनम्, हाटकेश्वरमाहात्म्यवर्णनम् ८

९ शक्रेण नागबिलपूर्तये संवर्तानिलस्य प्रेषणम्, शक्राज्ञया संवर्तानिलस्य नागबिले गमनम् , लिंगोद्भवशापेन भीतस्य संवर्तानिलस्य शक्रपुरं प्रत्यागमनम्, ततो बृह-स्पतेराज्ञया शक्रस्य हिमालयपुत्रान्बिलपूर्तिकरणार्थ प्रेषितुं हिमालयसन्निधौ गम-नम्, शक्रकार्यं कर्तुं हिमालयेनाज्ञापितानामप्यस्वीकृताज्ञानां मैनाकनंदिवर्धन-रक्तशृंगाख्यानां त्रयाणां पुत्राणामननुमोदनं दृष्ट्वा तेभ्यः शक्रेण शापप्रदानम्, शापभीत्या रक्तशृंगाख्यपर्वतस्य नागबिलपूर्तिकरणार्थं तत्र गमनम्, ततो देवेन्द्रेण रक्तशृंगाख्यपर्वतस्य सुखजनकानामनेकतीर्थानां संस्थापनम्, शक्रकृतरक्तशृंग-शिखरोत्साहवर्णनम्... ..-. ........ ११ १

१० शंखतीर्थमाहात्म्यवर्णने चमत्कारनृपस्य मृगयाकरणम्, तत्र बुभुक्षितस्य बालस्यस्तनं ददत्या मृग्याश्चमत्कारेण वधकरणम्, मृगीदत्तशापेन चमत्कारनृपतेः कुष्ठरोगप्राप्तिः, तत्कुष्ठस्य शापस्य च निबर्हणार्थं भ्रमतश्चमत्कारनृपतेर्हाटकेश्वरक्षेत्रे शंखतीर्थे गमनम्, शंखर्तार्थस्नानेन चमत्कारनृपतेः कुष्ठनिरासवर्णनम्, शंख-तीर्थमाहात्म्यवर्णनम्... . १२

११ चमत्कारनृपऋषिसंवादे शंखतीर्थोत्पत्तिवृत्तान्ते शंखकृतेन लिखिताश्रमवृक्षोद्भूतफ-लग्रहणेन चौर्यमिदमिति मत्वा लिखितेन शंखहस्तच्छेदनकरणम् , ततः शंखस्य हाटकेश्वरे तपश्चरणम्, तत्तपस्तुष्टेन शिवेन शंखाय वरप्रदानम्, पूर्ववत्तत्पुण्येन हस्तप्राप्तिकथनम्, तत्र तेन स्वनाम्ना लिंगस्थापनम्, शंखतीर्थोत्पत्तिवर्णनपूर्वकं शंखतीर्थमाहात्म्यवर्णनम्, चमत्कारभूपतिना ब्राह्मणेभ्यो नगरं निर्मापयित्वा दानकरणम.......... १२

१२ चमत्कारेण भूपेन ब्राह्मणाज्ञया नगरस्थित्यर्थं पुत्रोपदेशकरणम्, ब्रह्मदत्ताशीर्वाद- ग्रहणम्-........ १४

१३ स्वराज्यं पुत्रेषु निक्षिप्य तपःकरणार्थं चमत्कारनृपतेर्हाटकेश्वरे गमनम्, तत्र शिव-माराध्य शिवप्रसादेन अचलेश्वरेतिनाम्ना लिंगस्थापनम्; अचलेश्वरमाहात्म्य-वर्णनम्......... .. .... १४

१४ चमत्कारपुरे कस्यचिद्गोरक्षकस्य गोयूथादेकस्या गोररण्ये तृणलोभेन गमनम्, तस्याः शोधनार्थं गोरक्षकस्याप्यरण्ये गमनम्, ततः कालान्तरेण द्वयोः पञ्चत्वप्राप्तिवर्ण- नम्, ततो गोरक्षकस्य दशार्णाधिपतेः कुले जन्मवर्णनम्, तथा गोस्तन्मंत्रेकुले जननम्, ततस्ताभ्यां पूर्वजन्मवृत्तान्तस्मरणं कृत्वा चमत्कारपुरप्रदक्षिणाकरणेन वैमानिकपथा मोक्षप्रापणम्, चमत्कारपुरप्रदक्षिणामाहात्म्यवर्णनम् १५ १५ रक्तशृंगपर्वतप्रभाववर्णनपू्र्वकं चमत्कारपुरप्रदक्षिणामाहात्म्यातिशयवर्णनम्. १६

१६ रक्तशृंगसान्निध्ये स्थित्वा रक्तशृंगस्य सेवनफलश्रैष्ठ्यवर्णनम् १६ २

१७ चमत्कारपुरस्य चतुर्दिक्षु स्थितानां तीर्थानां वर्णनम् , तत्रादौ गयाशिरोमाहात्म्य-वर्णनप्रसंगे विदूरथस्य मृगयायामरण्ये गमनम्, तत्र मृगाननुधावतो विदूरथस्य वनाद्वनं प्रयाणेन श्रान्तस्याश्वस्य भूम्यां पतनम्, ततो विदूरथस्य तत्रैवाश्वमु-त्सृज्य पद्भ्यां मृगानुचंक्रमणम् ...........................१६

१८ ततो दूरगमनोत्तरं पथि मांसादादिपिशाचत्रयदर्शनम्, मांसादादिवचनादृष्या-श्रमपदं प्राप्तस्य विदूरथस्य नृपस्य मुनिभिः सह संवादपूर्वकं सायन्तनकर्मादि-विधानवर्णनम्... ... ......... १७ १

१९ परेऽहनि विदूरथस्य स्वनगरे गमनम्, गयाशिरसि पितृतीर्थकूपिकायां विदूरथेन मांसादादिभ्यः श्राद्धदानम्, ततो मांसादादिभिर्विदूरथस्य स्वप्रे स्वस्वमुक्तिकथ- नम्, पितृकूपिकातीर्थमाहात्म्यवर्णनम् ........ १९ २

२० पितृकूपिकातीर्थे रामलक्ष्मणसीतानां गमनम् ,तत्र श्राद्धकरणेन रामादीनां प्रत्यक्षपि-तृदर्शनम्, ततो मनसि रामं सीतां च हन्तुं विश्वासघातं कर्तुं च प्रवर्तमानस्य लक्ष्मणस्य विश्वासघातदोषनिरासार्थं बालमण्डनतीर्थे गमनम् , तत्तीर्थस्नानेन तस्य दोषनिवृत्तिः, ततो रामकृतं याम्यदिशि प्रयाणम्, बालमण्डनतीर्थमाहात्म्य-वर्णनम्......... . २० २

२१ बालसख्यतीर्थोत्पत्तिवर्णने मृकण्डतो मार्कण्डसुतोत्पत्तिवर्णनपूर्वकं मार्कण्डेयेन दीर्घायुष्ट्वं प्राप्य तपस्तप्त्वा हाटकेश्वरे लिंगस्थापनम्, बालसख्यतीर्थमाहात्म्य-वर्णनम्. .... .... २२ १

२२ बालमण्डनतीर्थमाहात्म्ये कश्यपाद्दितेरेकोनपञ्चाशन्मरुतामुत्पत्तिवर्णने शक्रेण दिति-जठरं प्रविश्य शस्त्रेण पुत्रच्छेदनादिवर्णनम्, तेन मातृद्रोहेण तद्दोषपरिहारार्थं शक्रेण बालमण्डनतीर्थे स्नानकरणम्, शक्रस्य तीर्थस्नानेन दोषनिवृत्तिः, बालमण्डनतीर्थमाहात्म्यवर्णनम्... .... २४ १

२३ मृगतीर्थवर्णने कस्यचिद्वृक्षस्यच्छायायां संस्थितान्मृगान्दृष्ट्वा लुव्धकानां तत्रागमनम्, लुब्धकदर्शनेन भीतानां मृगानां ततः पलायनम्, लुब्धकानां मृगानुधावनम्, मृगानां सरोवरप्रवेशनेन सद्य एव मानुषत्व प्राप्तिः, तत्सरःप्रभावं मृगमुखा-च्छ्रुत्वा लुब्धकैरपि तस्मिन्सरसि स्नानकरणम्, तेन लुब्धकानामपि सौन्दर्य-प्राप्तिः, सर्वेषां मोक्षप्राप्तिवर्णनम्, मृगतीर्थमाहात्म्यवर्णनम् . २५ १

२४ बलिनिग्रहसमये वामनेन पदद्वयेन लोकान्व्याप्य तृतीयपदेन. ब्रह्माण्डोर्ध्वभागे भिन्ने सति ततो गङ्गाजलस्य निर्गमनम्, विष्णुपदतीर्थोत्पत्तिपूर्वकमाहात्म्य- वर्णनम्... .... २५ २ २५ विष्णुपदीगंगामाहात्म्यवर्णने मद्यप्राशनं कुर्वतः कस्यचिद्ब्राह्मणस्य तत्र स्नानेन मद्य- प्राशनदोषनिवृत्तिवर्णनम्, विष्णुपदीगंगामाहात्म्यवर्णनम् .. २६ २

२६ कस्यचिद्गोकर्णब्राह्मणस्य यमानुशासनादागतैर्यमदूतैः सह यमलोके गमनम्, तत्र गोकर्णपृच्छया यमेन द्वाविंशतिनरकवर्णनम्, केन पातकेन कस्य नरकस्य प्राप्ति-रिति वर्णनम्, गोकर्णस्य यमानुज्ञया चमत्कारपुरे गमनम्, तत्र तीर्थस्नानेन मुक्तिवर्णनम्, गोकर्णतीर्थमाहात्म्यवर्णनम्... ... २७ २

२७ अण्वादिचतुर्युगान्तकालपरिगणनम्, चतुर्युगस्वरूपमाहात्म्यप्रमाणनिदर्शनम्, चातुर्वर्ण्यकर्मनिरूपणम्, रजकादिचण्डालानामुत्पत्तिवर्णनम्, विशेषतः कलिकाल- माहात्म्यवर्णनम् २९ २

२८ बृहस्पतीन्द्रसंवादे सर्वतीर्थसमाश्रयवर्णनम्.. ३१ २

२९ सिद्धेश्वरमाहात्म्यवर्णने सूतस्य पितुराज्ञया वत्समहर्षिशुश्रूषाकरणम्, तत्र वत्स- महर्षिणा स्वस्य प्राग्जन्मचरित्रकथनम्, देवरातस्य मुनेरग्रे स्नातुं विवस्त्रां काञ्चित्स्त्रियं विलोक्य जले रेतःस्खलनम्, तद्रेतसो मृग्या प्राशनम्, दशमासान्ते मृगीतः कन्याजननम्, देवरातेन वत्सर्षये कन्यादानम्, बहुकाले गते सर्पदंशनेन स्त्रीमरणं दृष्ट्वा बहुशोकव्याकुलितचेतसो वत्सस्य वने प्रयाणम्, तस्य बहुधा ऋषिभिः सान्त्वने कृतेऽपि क्रुधा सर्पनाशनारंभकरणम्, तस्मिन्सर्पहननं कुर्वति सति तत्रैकस्य सर्पस्य मानुषरूपं धृत्वा संवादवर्णनम्, तेन मानुषरूप- -धारिणा सर्पेण वत्साय पूर्वशापकारणे कथ्यमाने प्राग्जन्मनि मया हाटकेश्वर- क्षेत्रयात्रागतानां जनसमूहानां मध्ये सर्पप्रक्षेपे कृते सत्यृषिणा दत्तेन शापेन सर्पजन्मप्राप्तिः इति कथनम् तेन मानुषरूपिणा सर्पेण वत्सायोपदेशकरणम्, तत्प्र संगेन हिंसाऽहिंसाधर्मनिरूपणम्, ततो वत्सर्षिणा सर्पवधपश्चात्तापेन महेश्वर- पूजां विधातुं स्वमनसि निर्धारणम्, वत्सस्य सिद्धेश्वरपूजनेन सिद्धिप्राप्ति-वर्णनम्........... ३२ १

३० सिद्धेश्वरोत्पत्तिवर्णने सिद्धाधिपनामकहंसेन बृहस्पत्याज्ञया पुत्रप्राप्त्यर्थ लिंगं संस्थाप्य पूजने कृते तस्य पुत्रप्राप्तिः, सिद्धेश्वरमाहात्म्यवर्णनम्.... ३७ २

३१ नागह्रदमाहात्म्यवर्णनप्रसंगेन नवनागानां ब्रह्माज्ञया हाटकेश्वरक्षेत्रे गमनम्, तत्र स्वनाम्ना लिंगस्थापनम्, इन्द्रसेनराज्ञः सर्पदंशनेन मृत्युप्राप्तिवर्णनम्, ततः स्वपुत्रस्य स्वप्न आगत्येन्द्रसेनेन स्वप्रेतत्वप्राप्तिकथनम्, पित्राज्ञया पुत्रस्य नागतीर्थे गमनम्, तत्र पितृश्राद्धकरणेन लिंगपूजनेन च पितुर्मोक्षवर्णनम्, नागतीर्थ- माहात्म्यवर्णनम्... . ३८ १

३२ सप्तर्षितीर्थवर्णने सप्तर्षिपूजनप्रकारकथनम्, सप्तर्षितीर्थोत्पत्तिवर्णने द्वादशवार्षिक्या-मनावृष्ट्यां बुभुक्षितानां सप्तर्षीणां सर्वत्र भ्रमणम्, तेषां वृषादर्भे राज्ञो देशे गमनम्, तत्र मृतकुमारकं दृष्ट्वा तद्भक्षणार्थं सप्तर्षिभिरुद्योगकरणम्, ताव- द्वृषादर्भेर्भूपस्य तत्रागत्य तैः सह संवादकरणम्, ततो मृतकुमारमभक्षयित्वैवर्षीणां चमत्कारपुरे गमनम्, तत्र तैस्तपःकरणम् , लिगस्थापनं च..... ४० २

३३ अगस्त्याश्रमवर्णने विन्ध्यमेर्वोर्मिथः कलहे संपद्यमाने सूर्यमार्गनिरोधात्सूर्यस्यागस्त्या- श्रमे गमनम्, सूर्यवचनाद्विंध्यँ निम्नमुखीकृत्य दक्षिणदिशि हाटकेश्वरेऽगस्त्यस्य गमनम्, तत्र लोपामुद्रया पत्न्या सह गत्वा लिंगस्थापनम्, अगस्त्याश्रममाहा- तम्यवर्णनम्.. .. ४२ २

३४ अगस्त्यकृतसमुद्रप्राशनकारणवर्णने प्रथमं देवदैत्ययोर्युद्धे ब्रह्मविष्ण्विन्द्रादीनां परा- जयं दृष्ट्वा शंकरेण शूलेन दैत्यपराजयकरणवर्णनम् ..... ४४ १

३५ धर्मविनाशेनैव देवपराजयः स्यादिति निश्चयं कृत्वा स्नानसंध्यायज्ञयागादिजपकर्तृणां ब्राह्मणानां दैत्यैर्वधकरणम्, जलावासिनां दैत्यानां वधार्थं ब्रह्मण आज्ञया जल- प्राशनार्थं देवैरगस्त्यस्य प्रार्थनाकरणम्, देवकार्यार्थमगस्त्येन समुद्रप्राशनम, देवै-र्दैत्यवधकरणम्, अगस्त्यस्थापितपीठस्य देवैः स्वकार्यकरणाच्चित्रेश्वरपीठेतिनाम-करणम् ४४ २

३६ चित्रेश्वरपीठमाहात्म्यवर्णनम्.......... ४६ १

३७ दुःशीलाख्यप्रासादोत्पत्तिवर्णनम्. ......... .. .... ४७ १

३८ धुन्धुमारेश्वरलिंगमाहात्म्यवर्णनम्...... .... . ४८ १

३९ ययातीश्वरलिंगमाहात्म्यवर्णनम् .... .- ४८ २

४० ब्रह्मणा पृथ्व्यां शिलास्थापनम्, ततस्तत्र ब्रह्माज्ञया सरस्वत्या पातालतो हदं निर्मा-यागमनम्, ततो मंकणकमहर्षिणा तत्र तपस्तप्त्वा लिंगस्थापनम्, चित्रशिला-मंकणकेश्वरलिंगमाहात्म्यवर्णनम्. ... .... .... ४९ १

४१ बाष्कलिदैत्यपीडितैरिन्द्रादिभिर्देवैर्विष्णोराज्ञया हाटकेश्वरे तपकरणम्, ततो बृह-स्पतिवचनादशून्यशयनतिथौ भगवत्पूजनेन सन्तुष्टस्य भगवत आज्ञया बाष्क-लिना समं युद्धकरणम्, भगवता बाष्कलिदैत्यपराजयं कृत्वा शक्रस्य स्वस्थाने गमनम्, भगवतस्तत्र वासकरणं लिंगस्थापनं च, जलशाय्युत्पत्तिवर्णनम् ... ५० २

४२ विश्वामित्रकुण्डोत्पत्तिवृत्तान्तवर्णनम् , तत्र विश्वामित्रमेनकासमागमवर्णने विश्वा-मित्रेण मेनकायै स्त्रीधर्मकथनम्...... . - - ५१ २

४३ विश्वामित्रकथितपातिव्रत्यधर्मांस्तिरस्कत्य कुत आगमनं क्व गमनमित्यादिपृष्टायां विश्वामित्रदर्शनेन मेनकायां लोलुपायां सत्यां विश्वामित्रेण स्त्रीसंगमस्य धिक्कृ तिकरणम् . ५२ २

४४ विश्वामित्रेण स्वसंगमे तिरस्कारिते बहुशो दुःखसंतप्तया मेनकया विश्वामित्राय विश्वामित्रेण मेनकायै च मिथो जराप्राप्तिरूपशापप्रदानम्, ततस्तयोः कुण्डस्नानेन शापमुक्तिः, विश्वामित्रेण तत्र लिंगस्थापनम्, विश्वामित्रकुण्डविश्वामित्रे-श्वरलिंगमाहात्म्यवर्णनम्- .. ५३ १

४५ त्रिपुष्करतीर्थमाहात्म्यवर्णनम् . ५३ २

४६ सरस्वतीतीर्थमाहात्म्यवर्णने बलभद्रनृपतो जातस्य अंबुवीचिनामकस्य मूकपुत्रस्य मूकत्वनाशनार्थं सरस्वतीतीर्थे सपुत्रकस्य नृपस्य गमनम्, तत्र स्नानेन लिंगपूजनेन च पुत्रस्य मूकत्वनिरसनम्, अंबुवीचिकृतं सरस्वतीस्तवनम्, सरस्वती-तीर्थमाहात्म्यवर्णनम्.... ५५ १

४७ महाकालमाहात्म्यवर्णने सपत्नीकस्य रुद्रसेनस्य राज्ञो हाटकेश्वरे गमनम्, तत्र देवं संपूज्य बहुशो विप्रेभ्यो दानानि दत्त्वा विप्रसंसदि राज्ञा विप्रेभ्यः स्वपूर्व जन्मवृत्तान्तकथनम्, तत्र वणिग्जात्युद्भवस्य तस्यान्नप्राप्त्यभावादुपोषितस्य सपन्नीकस्य महाकालवने गमनम् , तत्र देवं दृष्ट्वा कमलैर्देवस्य पूजाकरणम्, तेन पुण्यप्रभावेन राजकुले जननम्, महाकालेश्वरतीर्थलिंगमाहात्म्यवर्णनम् ५६ १

४८ उमामहेश्वरलिंगमाहात्म्ये हरिश्चन्द्रेण पुत्रप्राप्त्यर्थमुमामहेश्वराराधनम्, तेन तपसा संतुष्टाभ्यामुमामहेश्वराभ्यां पुत्रप्रदवरप्रदानम्, तं वरं गृहीत्वा हरिश्चन्द्रस्य स्वभवने गमनम्, ततो हाटकेश्वरक्षेत्र उमामहेश्वरप्रीतये लिंगस्थापनम्, उमा-महेश्वरलिंगमाहात्म्यवर्णनम्... ... ...... ५७ २

४९ कलशेश्वरमाहात्म्यवर्णने कलशनृपस्य गृहे दुर्वासस आगमनम्, चातुर्मास्यव्र-तस्य पारणं कर्तुमागताय दुर्वाससे नृपेणातिथ्यसत्कारपूर्वकं भोजनादिसमर्पणम्, तत्र भोजनपात्रे लवणादिभिः सुसंत्कृतं मांसं दृष्ट्वा व्याघ्रो भव इति नृपाय शापप्रदानम्, कलशनृपतेर्दुर्वाससः शापेन व्याघ्रत्वप्राप्तिवर्णनम्.. ५८ २

५० नन्दिनीव्याघ्रसंवादे नन्दिन्या व्याघ्रसमीपे शपथकरणम्. ..... ५९ १

५१ व्याघ्रवचनान्नन्दिन्या स्वस्थानं गत्वा वत्सस्य तृप्तिकरणम, सर्वान्पृष्ट्वा नन्दिन्या व्याघ्राग्रे गमनम्, तेन तस्याः सत्यत्वं दृष्ट्वा पश्चात्तापेन मुक्तिप्राप्त्यर्थं तस्यै प्रश्न करणम्, शापाद्व्याघ्रत्वं प्राप्तस्य नृपस्य नंदिनीदर्शितबाणस्थापितलिंगस्य पूजनेन व्याघ्रत्वप्रापकाच्छापान्मुक्त्वा पूर्ववद्राजत्वप्राप्तिः, ततो हराराधनां विधाय स्वनाम्ना लिंगस्थापनम्, शिवलोके गमनं च, कलशेश्वरलिंगमाहात्म्यवर्णनम्.. ५९

५२ रुद्रकोटिमाहात्म्यवर्णनम् ...... . ६१ २

५३ भूणगर्तामाहात्म्य वर्णने मित्रसहस्य राज्ञो वसिष्ठशापाद्राक्षसत्वप्राप्तिवृत्तान्तवर्णनम्, राक्षसधर्मेणानुवर्तमानेन तेन राज्ञा विप्रादीनामपि हननम्, तेन नृपेण ब्रह्महत्या-दोषनिवृत्तये शापमुक्त्युत्तरं वसिष्ठाज्ञया तीर्थयात्राकरणम्, भ्रूणगर्तातीर्थस्ना-नेन ब्रह्महत्यादोषादुन्मुच्य पूर्ववद्राज्यकरणम्, राज्योत्तरमन्ते शिवलोकेगमनं च, भ्रूणगर्तामाहात्म्यवर्णनम् .. .... ६२

५४ नलकथावर्णनपूर्वकं नलस्थापितचर्ममुण्डामाहात्म्यवर्णनम्.. .... .. ६४ २

५५ नलेन स्वनाम्ना स्थापितस्य रोगाद्यनिष्टदोषपरिहारकस्य नलेश्वरस्य माहात्म्यवर्णनम् ६५ १

५६ सांबादित्यमाहात्म्ये गालवेनादित्यप्रसादेन वरं लब्ध्वा पुत्राभावात्सांबादित्यपूजनेन पुत्रप्राप्तिकरणम्, सांबादित्यमाहात्म्यवर्णनम्... ६५ २

५७ गाङ्गेययात्राख्यानवर्णनम् .. ... ... ..... ६६ २

५८ गाङ्गेयकृतलिंगचतुष्टयस्थापनवर्णनम् , शिवगंगामाहात्म्यवर्णनम्.. ६७ २

५९ विदुरेण पुत्रप्राप्त्यर्थं तपस्तप्त्वा स्वनाम्ना लिंगस्थापनम्, विदुरेश्वरमाहात्म्य-वर्णनम्, विदुरकृतदेवप्रासादवृत्तान्तवर्णनम् ..- ... .. ६७ २

६० मित्रावरुणपुत्रेण माहित्यानामदेवतास्थापनम्, नरादित्येश्वरमाहात्म्यवर्णनम्. ६८ २

६१ शर्मिष्ठातीर्थमाहात्म्ये विषकन्योत्पत्तिवर्णनम्. ६९ १

६२ विषकन्यात्यागमकुर्वतो नृपस्य मरणप्राप्तिर्युद्धवर्णनं च, सर्वलोकापवादाञ्छ्रुत्वा विषकन्यायास्तपोऽर्थे वनं प्रति प्रयाणम्, मार्गे स्वपूर्वजन्मस्मरणेन दुःखिताया विषकन्यायाः पञ्चाग्निसाधनादिकं घोरं तपो विलोक्य पार्वत्येन्द्राणीरूपेणा- गमनम्, इन्द्राणीतो वरमगृहीत्वा तया पुनस्तपसि क्रियमाणे पार्वत्या तां प्रति स्वरूपदर्शनम्, विषकन्यया पार्वतीस्तवनम्, पार्वत्या सह विषकन्यायाः कैलासे गमनम् , शर्मिष्ठातीर्थमाहात्म्यवर्णनम्......... ..० ६९ २

६३ सोमेश्वरमाहात्म्ये दक्षशापयुक्तेन सोमेन रोमकमहर्षेर्वचनाद्धाटकेश्वरे लिंग-पूजनम्, तत्प्रभावेण सोमस्य शापनिवृत्तिः, स्वनाम्ना लिंगस्थापनम्, सोमनाथे-श्वरमाहात्म्यवर्णनम् ....... .. .... ७२ १

६४ चमत्कारनृपस्थापितचमत्कारीदुर्गादेवीमाहात्म्यवर्णनम्. ७३ १

६५ आनर्तकेश्वरशूद्रेश्वरयोर्माहात्म्यवर्णनमुत्पत्तिकथनं च.......... ७४ १

६६ रामह्रदवर्णनप्रसंगे जमदग्निवधवर्णने ससैन्यस्य सहस्रार्जुनहैहयनृपतेर्जमदगन्याश्रमे गमनम्, तत्र कामधेनुप्रभावं दृष्ट्वा तेन सहस्रार्जुनेन लोभेन तां याच्यमानेन जमदग्निना तस्या अदाने क्रुधाविष्टेन हैहयेन जमदग्निवधकरणम् ..... ७५ २

६७ पितृवधं श्रुत्वा परशुरामेण पितुरुत्तरक्रियां विधाय निःक्षत्रियां पृथ्वीं कर्तुं प्रतिज्ञा- करणम्, ततो रामेण युद्धे सहस्रार्जुनस्य वधकरणम्... ... ७६

६८ सहस्रार्जुनवधोत्तरं हाटकेश्वरे गत्वा सहस्रार्जुनशरीरान्निर्गतेन रक्तेन पितृश्राद्धं विधाय सर्वां संपादितां महीं ब्राह्मणेभ्यो दत्त्वा स्वनिवासार्थं परशुरामेण समुद्रापसरणकरणम् ............... ७७ २

६९ पुनर्ब्राह्मणेभ्यो दत्तां महीं बलात्कारेण ग्रहीतृणां क्षत्रियाणां रामेण वधकरणम्, एवमेकविंशतिवारान्निःक्षत्रियां पृथ्वीं कृत्वा ब्राह्मणेभ्यस्तस्याः समर्पणम् , ब्राह्मणवचनादाशीर्वादेन च रामह्रदेति नाम्ना गर्तातीर्थस्थापनम्, रामह्रदे शस्त्र- हतानां श्राद्धेन विशेषफलकथनम्, सामान्यतो रामह्रदमाहात्म्यवर्णनम्. ७८ १

७० तारकासुरवधप्रकरणे कार्तिकेयस्य साद्यन्तोत्पत्तिवृत्तान्तवर्णनम्..... ७० २

७१ कार्तिकेय (स्कन्द) स्थापितशक्तिमाहात्म्यवर्णनम्... ... ८० १

७२ पाण्डवधृतराष्ट्रादिकृतहाटकेश्वरक्षेत्रदर्शनवर्णनम्...... ८१ १

७३ ततः कौरवाणां द्वारवत्यां गमनम्, दुर्योधनस्य भानुमत्या सह विवाहवर्णनम्, ततः पुनर्यादवेन समं कौरवपाण्डवानां हाटकेश्वरे गमनम्, धृतराष्ट्रकृतप्रासादस्थाप- नादिवृत्तान्तवर्णनम्.. .. ......... ८१ २

७४ तत्र हाटकेश्वरे धृतराष्ट्रादिभिरेकोत्तरशतलिंगस्थापनम्, सर्वैर्द्रोणादिभिः पाण्डवै-र्यादवादिभिश्च सहस्रशः पृथक्पृथक्स्वनाम्ना लिंगस्थापनम्, कौरवपाण्डवयादव-कृतलिंगप्रतिष्ठावर्णनम्............. ८२ २

७५ यज्ञभूमिमाहात्म्यवर्णनम्....... ........ ८३ १

७६ मुण्डीरकालप्रियमूलस्थानेतिभास्करतीर्थत्रयवर्णने कस्यचित्कुष्ठरोगिणः पुरुषस्य ब्राह्मणवचनात्तत्तीर्थत्रये स्नानेन कुष्ठनिरसनवृत्तान्तवर्णनम् , मुण्डीरकालप्रियमूल स्थानमाहात्म्यवर्णनम् ८३ १

७७ शंकरपार्वतीविवाहसमये ब्रह्मणः पार्वतीदर्शनेन रेतःस्खलनम्, तेन पापेन लिप्तां-गेन ब्रह्मणा रुद्रशिरसमाराध्य दोषनिवृत्तिकरणम्, हराश्रयवेदिकामाहात्म्य-वर्णनम्...... ................ ९५ १

७८ रुद्रशीर्षमाहात्म्यवर्णने व्यभिचारिण्या स्याश्चिद्ब्राह्मण्यारुद्रशीर्षदर्शनेनतत्पातका-न्निवृत्तिवर्णनम्, तथैव विदूरथनृपपत्न्या अपि रुद्रशीर्षदर्शनान्मुक्तिवर्णनम्, रुद्रशीर्ष ( जागेश्वर) माहात्म्यवर्णनम्......... ८६ २

७९ वालखिल्याश्रममाहात्म्यवर्णने शक्रोपरि वालखिल्यैः कोपकरणवृत्तान्तवर्णनम्, वालखिल्याश्रममाहात्म्यम्........... ८८ १

८० सुपर्णाख्यमाहात्म्यवर्णने वालखिल्यैराथर्वणिकैर्मंत्रैरभिमंत्रितममृतकलशं गृहीत्वा पुत्रप्राप्त्यर्थं कश्यपेन स्वपत्न्यै दानम्, अमृतकलशप्राशनेन कश्यपाद्गरुडोत्पत्तिः, मित्रब्राह्मणकन्याया वरशोधार्थं गरुडस्य ब्राह्मणकन्याभ्यां सह गमनम्, पथि नारदस्य दर्शनम्, नारदेन समं विष्णुदर्शनार्थ तेषां सर्वेषां हाटकेश्वरे गमनम्, तत्र गत्वा नारदगरुडाभ्यां विष्णुसंदर्शनग्रहणम्...... ८९ १

८१ विष्णुदर्शनं गृहीत्वा गरुडेन विष्णुं प्रति विप्रकन्यावरणार्थमाग्रहकरणम् , विष्ष्वनुज्ञयया गरुडेन विष्ण्वग्रे सकन्यकस्य विप्रस्यानयनम्, विप्रकन्यायाः विष्णोः स्त्रीत्वं प्राप्तं दृष्ट्वा क्रुधा लक्ष्म्या 'अश्वमुखी भव इति तस्यै कन्यायै शापप्रदानम्, तथैव विप्रेणापि गजवक्रा भव इति लक्ष्म्यै शापदानम् , ततो विष्णुना विप्र- कन्यायाः सांत्वनकरणमुच्छापदानं च, विष्ण्वाज्ञया ससुतस्य विप्रस्य स्वगृहे गम- नम्, विष्णुपुरःस्थितां शाण्डिलीनाम्नीं वृद्धस्त्रीं दृष्ट्वा गरुडेन हास्ये कृते सत्यन्तः क्रुधा शांडिल्या मनसा शापदानेन गरुडपक्षभस्मीकरणम् ९० २

८२ निजपक्षदाहं दृष्ट्वा गरुडेन विष्णुना च शांडिलीस्तवनम्, ततः शांडिलीवचना- द्गरुडेनहाटकेश्वरं गत्वा रुद्रशीर्षकालरुद्रनीलरुद्रादीन्नत्वा शिवाराधनकरणम्, तेन गरुडस्य पुनः सुवर्णमयपक्षप्राप्तिवर्णनम्, सुपर्णेश्वराख्यमाहात्म्यवर्णनम् ९१ १

८३ सुपर्णेश्वरमाहात्म्यवर्णने वेणुनामकनृपतेर्दुर्वासनत्वाद्दुराचरितपरिपाकात्कुष्ठप्राप्ति-वर्णनम्, तत्कुष्ठनिरासार्थं भ्रमता वेणुनृपेण सुपर्णेश्वरं प्रति गमनम्, तदाराधनेन तस्य कुष्ठनिरासवर्णनम्.. ..... .. ९२ १

८४ लक्ष्मीशापिताया विप्रकन्याया विष्णोरुच्छापेन कृष्णावतारे सुभद्रेति नाम्ना पद्मा-दत्तशापविमुक्तिपूर्वकं विष्णुभगिनीत्वप्राप्तिवर्णनम्. ..... ९२

८५ विप्रदत्तशापनिवृत्त्यर्थं लक्ष्म्या ब्रह्माणमुद्दिश्य तपश्चरणम् , ब्रह्मणा शापनिवृत्तिपूर्वकं -लक्ष्म्यै वरप्रदानम्, गजवक्त्रामहालक्ष्मीति ब्रह्मणा तत्स्थलस्य नामकरणम्, महालक्ष्मीमाहात्म्यवर्णनम्... ......... ९३ १

८६ दक्षस्य सप्तविंशतिकन्याभिश्चन्द्रप्रीतिविवर्धनार्थं हाटकेश्वरे चंड्याराधनेन चन्द्रस्य प्रीत्यास्पदीकरणम् , सप्तविंशतिकेति नाम्ना लिंगस्थापनम्, सप्तविंशतिकालिंग- माहात्म्यवर्णनम्................ ९३ २

८७ सोमप्रासादमाहात्म्यवर्णनम्. .... . ९४ १

८८ अंबावृद्धेत्यभिधाभ्यां काशीराजभार्यायां पतिनाशोत्तरं तत्रैव पुररक्षार्थं वासक-रणम्, तत एकस्मात्कुण्डाद्गजवक्त्राश्वमुख्यादिदेवतानां समुत्पत्तिं दृष्ट्वा तत्कृतज-नत्रासनिवारणार्थं तासां तद्भक्षणीयपदार्थस्य ताभ्यामंबावृद्धाभ्यां व्यवस्थाकरणम्, ततः स्वनाम्ना हाटकेश्वरे लिंगस्थापनम्, अंबावृद्धामाहात्म्यवर्णनम्...... ९५ १

८९ अंबावृद्धाज्ञया सर्वबालकक्षयकारिणीनां देवतानां व्यवच्छेदार्थं चमत्कारराजप्रार्थ-नयाऽम्बावृद्धादेव्या स्वपादुकास्थापनकरणम्, पादुकादर्शनेन जनानां दुःखनि-वृत्तिभवनम्, पादुकादर्शनमकुर्वतां शृगालत्वप्राप्तिवर्णनम्, ध्यानं कुर्वतः शंक-रस्य तृतीयनयनात्कन्यकोत्पत्तिः, शंकरवचनात्पादुकापूजनेन तस्याः सर्वसिद्धि- प्राप्तिकथनम् , पादुकामाहात्म्यवर्णनम्....... ९६ १

९० वह्नितीर्थोत्पत्तिमाहात्म्यवर्णने ज्येष्ठं भ्रातरमुत्सृज्य कनिष्ठेन शंतनुना राज्यकरणा-दयमधर्म इति मत्वा शक्रेणानावृष्टिकरणवर्णनम्, तेन कारणेन वने भ्रमता विश्वा-मित्रेण चण्डालगृहे गत्वा तत्र लब्धेन श्वमांसेन वह्नौ पञ्चमहायज्ञकरणम्, तेन कारणेन रुष्टेनाग्निना कृतं सर्वतः स्वात्मनो गोपनम् , अग्निमन्वेष्टुकामानां देवानां गजादिभिः स्वनाम्नि कथिते सति तदुपरि रुष्टेन वह्निना गजादीनां शापप्र-दानम्, ततो ह्रदान्निर्गतमग्निं दृष्ट्वा ब्रह्मणा स्वात्मगोपनकारणे पृष्टे वह्निना शक्र-वृष्ट्यकरणाद्विश्वामित्रकृतश्वजाघनीहवनान्मया स्वात्मगोपनं कृतम् इति कथिते शक्रेण स्वाज्ञया वृष्टिकरणम्, ततो ब्रह्मणाग्नये वरप्रदानम्, तस्य ह्रदस्याग्नितीर्थेति नामकरणम्, तत्र अग्नौ घृतस्य वसोर्धाराया माहात्म्यम्, अग्नितीर्थमाहात्म्य-वर्णनम् ...................... ९७ १

९१ वह्निशापितानां गजादीनां ब्रह्मादिदेवैरुच्छापदानपूर्वकं सांत्वनकरणम्, ततो देवानां स्वस्वस्थाने गमनम्, अग्नितीर्थोत्पत्तिवर्णनम्... ....... ९९ १

९२ मार्कण्डेयस्थापितब्रह्मकुण्डमाहात्म्यवर्णनम्, तत्र स्नानं कुर्वतः कस्यचिच्छूद्रस्य देवं प्रसाद्य मोक्षप्राप्तिवृत्तान्तवर्णनम्...... ....... ... ९९ २

९३ गोमुखतीर्थोत्पत्तिवर्णनपूर्वकं गोमुखतीर्थमाहात्म्यवर्णनम्, तत्र कुष्ठं प्राप्तस्यस्वपुत्रस्य कुष्ठनिरासार्थमम्बरीषेण भूपतिना तपःकरणम्, तेन तुष्टेन भगवता तत्पुत्रस्यपूर्वजन्मकृतदोषकथनम् , भगवदाज्ञया गोमुखतीर्थस्नानेन तत्पुत्रस्य कुष्ठनिरास- वर्णनम्, गोमुखतीर्थमाहात्म्यवर्णनम्.... ... १०० १

९४ ब्राह्मणवचनात्परशुरामेण कुठारं भंक्त्वा लोहयष्टिविमोचनेन लोहयष्टितीर्थस्थाप-नम्, लोहयष्टिमाहात्म्यवर्णनम्..... ..... १०१ १

९५ अजापालनृपनिर्मितकामप्रदादेव्युत्पत्तिवर्णने वसिष्ठवचनादजापालस्य हाटकेश्वर-क्षेत्रे गमनम्, तत्र देवीमाराध्य तं प्रति प्रसन्नया देव्या वरप्रदानम्, वरग्रहणेना-जापालराज्ये स्थितान्पुण्यवतो जनान्दृष्ट्वा नरकस्य पापिनामभावाच्छून्यतां दृष्ट्वा यमस्य ब्रह्मलोके गमनम्, तत्र स्थितेन शिवेन तच्छ्रुत्वा शिवस्य व्याघ्ररूपेण राजसमीपे गमनम्-, व्याघ्रकृताजाभक्षणेन रुष्टेन राज्ञा प्रेरितानां चंडीदत्ता-स्त्राणां व्याघ्ररूपिणा शंकरेण भक्षणम् , पश्चादस्त्राभावाद्व्याघ्रेण समं राज्ञो द्वंद्वयुद्धवर्णनम्, ततो व्याघ्ररूपं त्यक्त्वा तस्मै शिवेन प्रत्यक्षदर्शनदानम्, अजा-पालेन शिववर्णनम्, शिववचनाद्राज्ञः पाताले गमनम्, स्वनाम्ना लिंगस्थापनं च , तत्राजापालेश्वरीतिनाम्ना चण्डीस्थापनम् , अजापालेश्वरीमाहात्म्यवर्णनम्- १०१ २

९६ राज्ञा दशरथेन ज्योतिर्विन्मुखाद्रोहिणीशकटभेदादिभविष्यं श्रुत्वा तन्निवारणाय शनै-श्चरसमीपे युद्धार्थं गमनम्, तस्य तच्छौर्य दृष्ट्वा संतुष्टेन शनैश्चरेण नाहं रोहि-णीभेदं करिष्यामीति प्रतिज्ञां कृत्वाऽभयदानकरणम्, शनैश्चरदशरथसंवादफलश्रु-तिवर्णनम्.. ... १०३ २

९७ शनैश्चरेण रोहिणीशकटमहं न भेत्स्यामि इति तिज्ञापूर्वकमाशीःप्रदानोत्तरमिन्द्रेण दशरथस्य शौर्यवर्णनपूर्वकप्रशंसाकरणम्, ततोऽपुत्रस्य नैव सद्गतिरिति दशरथेन शक्रमुखाज्ज्ञात्वा पुत्रप्राप्त्यर्थं तपःकरणार्थं समुद्योगकरणम्... १०४ २

९८ दशरथस्य हाटकेश्वरक्षेत्रे गत्वा तपकरणम् , तत्तपस्तुष्टेन विष्णुना चतुःपुत्रत्वेना-हमवतरिष्यामीति दशरथाय वरप्रदानम्, दशरथकृततपःस्थलस्य तत्पूजितेन विष्णुना राजस्वामीति स्वनामस्वीकरणपूर्वकं तत्कृतवाप्या राजवापीति नामकरणम्, राजस्वामिराजवापीमाहात्म्यवर्णनम्.... ..... .. १०५ २

९९ रामेश्वरस्थापनप्रस्तावे रामेण सीतात्यागं कृत्वा स्वर्णमयीं सीतां निर्माय यज्ञ आर-भ्यमाणे तत्र दुर्वासस आगमनम्, दुर्वासोरामसंवादवर्णनम् ... १०६ १

१०० लक्ष्मणेन रामाज्ञाभंगकरणाद्रामाज्ञया नगरतो गमनकरणम्, सरयूस्नानेन लक्ष्म-णस्य दोषनिवृत्तिवर्णनम्, ततो लक्ष्मणस्य योगसाधनेन प्राणनिष्क्रमणम्, वियद्गतं लक्ष्मणं दृष्ट्वा रामेण शोककरणम्, मंत्रिभी रामस्य सान्त्वनम् , लक्ष्मण-शवस्याग्निं दातुं प्रवृत्तं रामं दृष्ट्वा संन्यस्ते नाग्निसंस्कारः इति नभोवाण्या निषेधकरणम्, ततो लक्ष्मणस्यौर्ध्वदेहिककर्मकरणानन्तरं रामस्य पुष्पकविमानेन किष्किन्धागमनम्, तत्र सुग्रीवकृतसत्कारादिवर्णनम्......... १०७ १

१०१ ततः पुष्पकमारुह्य वानरैः समं रामस्य लंकायां गमनम्, तत्र विभीषणेन राम-चन्द्रस्य सत्कारकरणम्, ततः श्रीरामेण तैः सर्वैः सह हाटकेश्वरक्षेत्रमागत्य तत्र रामेश्वरलिंगप्रतिष्ठाकरणम्, रामेश्वरमाहात्म्यवर्णनम्......... १०८ २

१०२ लक्ष्मणप्रासादपञ्चकप्रतिष्ठापनवर्णनम्.. ...... १०९ २

१०३ आनर्ततडागे राक्षसैः सह रामस्यागमनम् , तत्र रामविप्रसंवादेऽप्सरोवेष्टिते विमाने स्थित्वा स्वर्गं प्रति गच्छतोऽन्धविप्रस्य पूर्वजन्मकथावृत्तान्ते तडागमाहात्म्य-वर्णनम् , आनर्ततीर्थकूपिकामाहात्म्यवर्णनम् ... ..... ११० १

१०४ अथ श्रीरामचन्द्रस्य स्वलोकं प्रति गमनानन्तरं हाटकेश्वरक्षेत्रे शिवपूजार्थं समा-गतैराक्षसैस्तत्र मिलितानां ब्राह्मणानां भक्षणेन त्रासितान्ब्राह्मणान्दृष्ट्वा श्रीरामपु-त्रेण कुशेन राक्षसानां पराजयकरणम्, राक्षसैस्तत्रानर्ततडागे बहुशो लिंगस्था-पनकरणम्, कुशेन विभीषणाय संदेशं प्रेषयित्वा तद्द्वारा राक्षसानां जंबूद्वीपागमने निरोधकरणम्, 'कुशेश्वरलवेश्वरप्रतिष्ठावर्णनम् -... .. .... ११२ १

१०५ तुलागते मरीचिमालिनि विभीषणशापेन व्यंतरत्वं प्राप्तै राक्षसैर्हाटकेश्वरक्षेत्रे राक्षसस्थापितानां चतुर्मुखलिंगानां भूम्यां पूरणम् , तत्र क्षेत्रे प्रासादरहितेप्रदेशे बृहदश्वराजस्य .गमनम्, तत्र प्रासादनिर्माणे राज्ञा प्रयत्नकरणम्, ततो भूमिखननसमये चतुर्वक्त्रलिंगदर्शनम्, लिंगैरावृतां भूमिं दृष्ट्वा राज्ञो मृत्युप्राप्ति-वर्णनम्, राक्षसैर्लिंगाच्छादनवृत्तान्तवर्णनम् ११५ १

१०६ लुप्ततीर्थानां माहात्म्यवर्णनम्-............ ११५ १

१०७ अष्टषष्टितीर्थोत्पत्तिमाहात्म्ये वत्सान्वयसंभूतचित्रशर्मनामनृपेण पातालस्थं हाटके-श्वरमग्रस्थल आनेतुमुद्युक्तेन शिवाराधनाकरणम् , शिवकृपया लिंगस्थानम्, ततोऽष्टषष्टिगोत्रोद्भवैर्ब्राह्मणैर्नृपाज्ञया शिवमाराध्य तत्कृपया अष्टषष्टीतिनाम्नां लिंगानां नवप्रासादं रचयित्वा स्थापनाकरणम्, ब्राह्मणैश्चित्रशर्मणा च कृतस्य लिंगस्थापनस्य वृत्तान्तवर्णनम्....... ११६ १

१०८ अष्टषष्टितीर्थवर्णने शिवपार्वतीसंवादे नारदशक्रादिभिश्चमत्कारक्षेत्रे स्नानादि कृत्वा शिवलिंगं संपूवज्य तीर्थलिंगस्तुतिकरणम्, वाराणस्याद्यष्टषष्टितीर्थवर्णनम. .. ११७ २

१०९ अष्टषष्टितीर्थानां प्रतितीर्थेषु भिन्नभिन्नलिंगानां नामनिर्देशपूर्वकप्रभाववर्णनम् . ११८ २

११० अष्टषष्टितीर्थमाहत्म्यवर्णनम् .. ११९ १

१११ कस्मिंश्चित्समय आनर्तभूपस्य पल्या दमयन्त्या हाटकेश्वरक्षेत्रे गमनम्, तत्र तीर्थे हरिबोधवासरे स्नात्वा भगवन्तं ध्यायमानां दमयन्तीं दृष्ट्वाऽन्याभिर्ब्राह्मणस्त्रीभि- र्दमयन्तीवर्णनकरणम्, दमयन्त्या ध्यानोत्तरं ब्राह्मणस्त्रीभ्यः स्वकीयसर्वालङ्कार- दानकरणम्, चतसृभिस्तापसीभिर्विनाअन्याभिः सर्वाभिर्ब्राह्मणस्त्रीभिर्भूषणग्रहणे- नाह्लादकरणम्, तथैव प्रतिदिने राजपल्या ताभ्यो भूषणप्रदानकरणम्, पञ्चमी दिने चतसृभिर्विप्रपत्नीभिर्भूषणानामग्रहणे तत्समीपे भूषणानि गृहीत्वा दम-यन्त्या गमनम्, ताभिर्भूषणग्रहणतिरस्कारकरणम्, याभिर्दमयन्तीदत्तानां भूष-णानां तिरस्कृतिरकारि तासां पतिभिराकाशमार्गेण स्वाश्रमे स्वपुण्यप्रभावेणा-गमनकरणम्, याभिर्लोभाद्दमयन्तीदत्तानां भूषणानां ग्रहणं कृतं तासां पतीनां तत्स्त्रीगृहीतदुष्परिग्रहवशात्पापेनाकाशगतिक्षयेण तत्रैव पतनम्, तैश्चतुर्भिराकाश-मार्गेणागतैर्ऋषिभिस्तत्कारणं दृष्ट्वा दमयन्त्यै शिला भव इति शापप्रदानम्,ततस्तस्या दमयन्त्यास्तत्र शिलाभावं प्राप्य पतनम्, तद्वृत्तान्तं श्रुत्वा द्विजप्रसाद-नाय दमयन्तीपतेरानर्तदेशराजस्य तत्रागमनम्, शिलाभूतां पत्नीं दृष्ट्वा राज्ञाशोककरणम् .. ...... ११९ २

११२ राज्ञे शापं दातुं गृहीतजलानां विप्राणामन्यद्विजप्रार्थनया शांतिं गत्वा भूम्यामेवो-दकप्रक्षेपणात्तस्या भूमेरूषरत्वप्राप्तिवर्णनम्, ऊषरस्थानस्योत्पत्तिपूर्वकमाहात्म्य वर्णनम्...... १२१ २

११३ तत आनर्ताधिपतेः प्रतिमासं हाटकेश्वरे गमनम् , ब्राह्मणान्सन्तोष्य शान्तिकर्मा-दिकं विधाय स्वपुरं प्रत्यागमनं च, वह्निवचनान्मासिमासि भविष्यद्धोमकार्ये केनापि ब्राह्मणाधमेन ग्रहाद्युद्देशेन कृतस्य द्रव्यदिदानस्याग्रहणाद्ग्रहाणामधिका पीडेति ज्ञात्वा सर्वैः प्रार्थनायां कृतायां तत्र तीर्थे स्नानकरणेनैकं ब्राह्मणं विना सर्वेषां शुद्धिवर्णनम्, अशुद्धेन कुष्ठितेन ब्राह्मणेन सर्वब्राह्मणानां प्रार्थनाकरणम्, तत्र तीर्थे अग्नेः स्थापनाकरणम् , त्रिजातकविशुद्धयेऽग्निकुण्ड- माहात्म्यवर्णनम् ............ १२२ १

११४ कुष्ठित्वं प्राप्तेन द्विजेनारण्यं गत्वा तपःकरणम्, तेन तपसा तुष्टेन शिवेन वरप्रदा-नम्, चमत्कारपुरे वसतो देवरातविप्रस्य क्रथनामकपुत्रस्य नागतीर्थे गमनम्, तत्र तेन क्रथेन रुद्रमालसंज्ञकं नागेन्द्रतनयं दृष्ट्वा लगुडेन हननम्, पुत्रहननं दृष्ट्वा तत्पितृमातृभिरन्यैश्च शोककरणम्, ततो रुष्टैः पन्नगैस्तत्पुरस्यजनानां भक्षणे समारब्ध आदौ सकुटुम्बदेवरातसुतक्रथभक्षणकरणम्, ततो भयभीतैर्ग्रामस्थैः सर्वैर्जनैर्वनं प्रतिप्रयाणम् , निर्जनं पुरं दृष्ट्वा पुत्रदुःखनिरसनम्, सर्वेषां सर्पत्र-स्तानां जनानां त्रिजातब्राह्मणसमीपेगमनम्, तद्दुःखं श्रुत्वा त्रिजातेन शिव-प्रार्थनां कृत्त्वा सर्पभीतिंनिरासाय शिवतो वरग्रहणम्, तत्रस्थानां सर्पाणां निर्वि- षत्वकरणाय शिवेन तेभ्यः सर्पनिर्विषत्वकारक 'न गरं न गरम् इति महामन्त्र-दानम्, तन्महामन्त्रजपेन सर्पाणां नगरत्वकरणेन नगरेति तस्य पुरस्य नामाभि-धानकरणम् तत्रस्थानां विप्राणां नागरेति नामकरणम् , निर्विषाणां सर्पाणां ततः पलायनम्, नरोत्पत्तिवृत्तान्तवर्णनम् ... ..... १२४ १

११५ त्रिजातब्राह्मणस्य जन्मकर्मादिवर्णने गोत्रादीनां वर्णनम, त्रिजातेन ब्राह्मणेभ्यः स्वसाद्यन्तवृत्तान्तकथनम् , भर्तृयज्ञकृतयज्ञविधानमुनिगोत्रव्यवस्थावर्णनम् . १२६ १

११६ कुटुंबभक्षणेनशापितया रेवतीसर्पिण्या भट्टिकाख्यायाः क्रथद्विजभगिन्या दंशकर-णम्, भट्टिकाशाप स्मृत्वा रेवतीसर्पिण्या मानुषत्वे जननम्, रेवतीकृतं देव्यारा-धनम्, देवीवचनात्स्वनाम्नातीर्थस्थापनम्, देव्या तस्या अंबा दुर्गेत्यादिबहुना-मकरणम्, अंबारेवतीतीर्थोत्पत्तिपूर्वकमाहात्म्यवर्णनम्... ... १२७ १

११७ भट्टिकोपाख्याने तक्षकेण भार्यात्वाय भट्टिकायाः पाताले नयनम्, तदा भट्टिकया मर्त्यो भवेति तक्षकाय शापदानम्, तत्य प्रणतिपूर्वकप्रार्थनयोच्छापदानं च, ततो भट्टिकाया दारुपर्वते प्रयाणम्, भट्टिकया तत्र निजशुद्धताप्रत्ययप्रदाना- याग्निं प्रज्ज्वाल्य तस्मिन्प्रज्वलितेऽग्नौ प्रवेशकरणेनाग्नेः शीतलत्वे खात्पुष्पवर्षणम्, देवदूतैः भट्टिकायाः स्तवनकरणम्, देवदूतवचनान्मृत्युमप्राप्य भट्टिकायाः स्वगृहे गमनम्, तया स्वनाम्ना तत्रैव तीर्थस्थापनम्, भट्टिकातीर्थोत्पत्तिमाहात्म्यकथनम् १२८ २

११८ भट्टिकाशापात्तक्षकस्य मनुष्यत्वप्राप्तौ रैवतनृपरूपेण भूमौ जन्मवृत्तान्तवर्णनम्, रैवतप्रभंजनयो राज्ञोर्युद्धवर्णनम्, पुत्रं राज्ये निक्षिप्य क्षेमंकर्या भार्यया सह रैवतस्य राज्ञो वने प्रयाणम्, ततस्तयोर्हाटकेश्वरक्षेजे गमनं शिवलिंगस्थापनं च, क्षेमंक-रीरैवतेश्वरोत्पत्तिमाहत्म्यवर्णनम् . १३० १

११९ दीर्घबाहुराजाय महिषो भवेति दुर्वाससा शापदानम्, ततो महिषत्वं प्राप्य शुक्रा-ज्ञया हाटकेश्वरे शिवाराधनम्, तदा शिवेन स्त्रीं विना ते मरणं न स्यादि-त्युक्त्वाऽन्येभ्योऽवध्यत्वरूपवरप्रदानम्, महिषतीर्थमाहात्म्यवर्णनम्, महिषपुरः-सरैर्दैत्यैः सह देवानां युद्धवर्णनम्, दैत्यैर्देवसेनापराभवकरणम्, सर्वदेवैर्बृहस्पतिना सहैकीभूय मंत्रकरणम्......... .... १३१ १

१२० महिषासुरादिदैत्यवधार्थाय कात्यायन्युत्पत्तिवर्णनम्........ १३२ २

१२१ स्वतेजोवृद्ध्यर्थं कात्यायन्या सिंहमारुह्य विन्ध्यं गत्वा तपःकरणम् , तेजोरूपां तां दृष्ट्वा कामवशगस्य महिषासुरस्य सैन्येन सह तत्रागत्य भार्यात्वाय तस्याः प्रार्थनाकरणम्, देव्या महिषवचने तिरस्कृते सति क्रुद्धस्य महिषासुरस्य देव्या सह महायुद्धवर्णनम्, ततः कात्यायन्या महिषदैत्यस्य केशान्धृत्वा यावद्गात्रविनाशं कर्तुं प्रयत्न आरभ्यत तावद्दानवेन देव्याः स्तवनम्, ततो देव्या दयया महिषा-सुराय जीवदानम्, इत्थं महिषपराजयपूर्वकं कात्यायन्या महिषासुरमाक्रम्याव-स्थितिकरणम्, कात्यायनीमाहात्म्यवर्णनम्. .. ... ....... १३३ १

१२२ हिरण्याक्षपीडितैर्दैवैः स्तुत्या सतोषितेनेश्वरेण माहिषं रूपमास्थाय के दारयामि इति प्रश्नकारणात्तत्स्थलस्य केदारेति नामकरणम्, केदारमाहात्म्यवर्णनम्. १३४ २

१२३ शुक्लतीर्थमाहात्म्यवर्णने शुद्धकनामकरजकेनाज्ञानाद्ब्राह्मणानां सुवस्त्राणां नीलीमध्ये प्रक्षेपकरणम्, तच्छ्रुत्वा रजककन्यया स्वसख्यै दाशकन्यायै पितृकृत्यनिवेदन-करणम् , तज्ज्ञात्वा दाशकन्यया कृष्णवस्त्राणां शुक्लत्वापादकं जलाशयं स्मृत्वा रजककन्यायै तन्निवेदनकरणम्, ततो रजककन्ययाऽपि स्वसखीकथितोपायस्य स्वपित्रे शुद्धकाय निवेदनम्, तत्र वस्त्रक्षालनेन तेषां वस्त्राणां पूर्वापेक्षयाप्यति-शुक्लत्वप्राप्तिः, रजकेन ब्राह्मणेभ्यो वस्त्रादिवृत्तान्तनिवेदनकरणम्, ततस्तस्य जला- शयस्य शुक्लतीर्थेति प्रसिद्धिभवनम्, शुक्लतीर्थमाहात्म्यवर्णनम्. . १३६ १

१२४ मुखारतीर्थोत्पत्तिवर्णने लोहजंघापरनामकवाल्मीकिजन्मकथानिरूपणम्, मुखार-तीर्थमाहात्म्यवर्णनम्...... ..... ..... १३७ २

१२५ कर्णोत्पलतीर्थवर्णने सत्यसंधराज्ञः कर्णोत्पलेतिनाम्न्याः कन्याया उत्पत्तिवर्णनम्, कर्णोत्पलेयं कस्मै देयेति प्रष्टुं सकन्यकस्य सत्यसंधस्य ब्रह्मलोके गमनम्, ब्रह्मवचनात्तत्र ब्रह्मलोके स्थातुं प्रवृत्तं स्वपितरं दृष्ट्वा कन्यया प्रार्थनाकरणम्, कन्यावचनाद्राज्ञः स्वदेशे गमनम्, देशे वैपरीत्यं दृष्ट्वाऽऽश्चर्यकरणम्, तत्रस्थैः सह मिथो भाषणे स्वस्ववृत्तान्तकथनम्, सकन्यकस्य सत्यसंधस्य तत्रैव गर्ता- समीपे तपःकरणवर्णनम्.............. १३९ १

१२६ सत्यसंधेन राज्ञा तपस्तप्त्वा लिंगस्थापनाकरणम्, सत्यसंधेश्वरमाहात्म्यवर्णनम् १४१ १

१२७ सत्यसंधकन्यया कर्णोत्पलया पतिप्राप्त्यर्थं देवीमुद्दिश्य तपःकरणम्, तत्तपःप्रस-न्नाया देव्या आज्ञया तया कर्णोत्पलया गर्तातीर्थे स्नाने कृते सति तस्या यौवन- प्राप्तिवर्णनम्, तस्याः सौन्दर्यं दृष्ट्वा कामदेवेन तल्लिप्सया प्रार्थनायां कृतायां सत्यसंधेन स्वकन्याया अभिप्रायं ज्ञात्वा तस्मै कामाय स्वकन्याया वैवाहिकेन विधिना दानकरणम्, कर्णोत्पलादेव्यग्रे कर्णोत्पलया स्वनाम्ना तीर्थस्थापनम् ,
कर्णोत्पलातीर्थमाहात्म्यवर्णनम् ............ १४२ १

१२८ अराजकमानर्तदेशं दृष्ट्वा सत्यसंधवचनात्सुपुत्रदकुण्डे स्नानेन आनर्ताधिपते राज्ञीष्वटादिसंज्ञकानां पुत्राणां जन्मकथनम्, अटेश्वरमाहात्म्यवर्णनम्.... १४२ २

१२९ निजाज्ञाभंगक्रुद्धस्य शाकल्यगुरोर्निर्बन्धात्क्रुद्धेन याज्ञवल्क्येन तस्माद्गुरोः पठिता विद्यां तस्मै गुरवे निवेद्य तद्विद्यासंपादनार्थ सूर्योपास्तिकरणम्, ततः सूर्येण याज्ञवल्क्याय लघिमाविद्याप्रदानम्, तया लघुभूत्वा सूर्याश्वकर्णं समाश्रित्य सूर्यमुखनिर्गतानां वेदानां याज्ञवल्क्येन पठनकरणम्, सर्वविद्यासंपादनोत्तरं याज्ञवल्क्येन वेदार्थदर्शकोपनिषन्निर्माणकरणम्, स्वनाम्ना हाटकेश्वरे तीर्थस्था-पनम्, याज्ञवल्क्याश्रमतीर्थमाहात्म्यवर्णनम्......... १४४ १

१३० याज्ञवल्क्यस्य मैत्रेयीपत्न्युपरि विशेषा प्रीतिं दृष्ट्वा तादृशीमात्मोपरि तस्य प्रीतिं संपादयितुं कात्यायनीनामक द्वितीयपत्न्या शाण्डिलीसमीपे गमनम्, शाण्डि-ल्या कात्यायन्यै स्वस्थितिवृत्तान्तकथनम्, शाण्डिलीवचनात्कात्यायन्या वर्षप-र्यन्तं गौरीपूजनकरणम्, पंचपिंडागौर्युत्पत्तिवर्णनम्.. .... १४५ २

१३१ ईशानोत्पत्तिपञ्चपिंडागौरीमाहात्म्यवररुचिस्थापितगणपतिमाहात्म्यवर्णनम्... १४७ १

१३२ कात्यायननिर्मितवास्तुपदतीर्थोत्पत्तिमाहात्म्यवर्णनम्.. .. १४८ १

१३३ अजापालनिर्मिताजागृहोत्पत्तिमाहात्म्यवर्णनम् . १४९ १

१३४ हारीतपत्न्याः स्नानार्थ जलाशये गमनम्, तत्रैव रतिवासनया कामदेवस्यागमनम्, तत्सर्वं ज्ञात्वा हारीतेन कामं स्वपत्नीं च प्रति शापप्रदानम्, तत्रैव हारीतपत्न्याः पतिशापेन शिलात्वप्राप्तिवर्णनम्, कुष्ठित्वं गतस्य कामस्य विप्रवचनात्खण्डशि-लाराधनेन कुष्ठनिवृत्तिवर्णनम्, खण्डशिला सौभाग्यकूपिकोत्पत्ति माहात्म्यवर्णनम् १५० १

१३५ दीर्घिकोत्पत्तिवर्णने वीरशर्मब्राह्मणेन स्वकन्याया दुर्दोषनिवारणार्थं चान्द्रायणा-दिव्रतकरणम् , कन्ययापि व्रतकरणम् , शक्रवचनात्तया कुष्ठिब्राह्मणस्य पाणिग्र-हकरणम्, पतिवाक्यमनुसृत्य तस्या अष्टषष्टिषु तीर्थेषु गमनम्, मार्गे शूलस्थि-
तेन माण्डव्येन ताभ्यां शापप्रदानम्, तया सूर्यनिरोधकरणम् ,वयं ते पतिं जीवा-पयिष्यामः इति देववचनात्सूर्योदयकरणम् , कुष्ठिब्राह्मणस्य मरणम्, देवैस्तस्य संजीव्योत्थापनम्, देवैस्तस्यै दीर्घायै पतिब्रतायै वरप्रदानम् . ... १५२ १

१३६ माण्डव्येन यमाय शूद्रयोनिप्रापकशापप्रदानम्, दीर्घिकागर्तोत्पत्तिमाहात्म्यवर्णनम् १५४ १

१३७ माण्डव्यशूलप्राप्तिकारणकथनम् ..... ....... १५४ २

१३८ धर्मराजेन माण्डव्यदत्तशापविनाशाय तपःकरणम्, धर्मराजेश्वरोत्पत्तिवर्णनम्. .. १५५ १

१३९ कश्यपवंशोद्भूतोपाध्यायसंज्ञक द्विजस्य पञ्चवर्षात्मकपुत्रस्य मरणेन शोकवर्णनम्, ततः क्रुधा ब्राह्मणेन यमाय शापप्रदानम्, शापितस्य यमस्य ब्रह्माग्रे गमनम्, यमस्य ब्रह्मवचनाच्छापनिवृत्त्यर्थं हाटकेश्वरे गमनम्, ततो यमेन द्विजरूपं धृत्वा ब्राह्मणगृहमेत्य ब्राह्मणाय तत्पुत्रस्य प्रदानम्, धर्मराजेन शिवलिंगस्थापनम्, धर्म-राजेश्वरमाहात्म्याख्यानवर्णनम्... ....... . १५५ १

१४० धर्मराजपुत्राख्यानवर्णनम् १५६ २

१४१ मिष्टान्नदायकलिंगमाहात्म्यवर्णने वसुसेननामकस्य भूपस्याऽन्नं विना बहुदानकरणेन स्वर्गं गत्वा बुभुक्षितत्वप्राप्तिवर्णनम्, तेन पीडितेन वसुसेनेनेन्द्रं प्रति पृष्टे सति तस्मिन्नेव समये तत्र नारदस्यागमनं दृष्ट्वा तस्मै सर्ववृत्तान्तकथनम्, वसुसेनस्य प्रार्थनया नारदेन पितृश्राद्धादौ नित्यमन्नदानादिकं कुर्विति वसुसेनपुत्राय सत्यसे-नाय पितुराज्ञासन्देशनिवेदनकरणम्, नारदद्वारा स्वपितुः संदेशं श्रुत्वा सत्यसेनेन स्वपित्रेऽन्नप्रदानम्, अवर्षणादन्नाभावेन सत्यसेनेन शिवाराधनाकरणम् , तदाराधनासन्तुष्टेन शिवेन यथेष्टमिष्टान्नादिदानम्, ततः सत्यसेनेन मिष्टान्नदेश्वरनाम्ना लिंगस्थापनम्, मिष्टान्नदेश्वरमाहात्म्यकथनम्.... .... १५६ २

१४२ गणपतित्रयमाहात्म्यवर्णनम्... ...... .... १५८ १

१४३ जाबालितपोविघ्नकरणार्थं तत्रेन्द्रवाक्याद्रंभाया आगमनम्, तत्र रंभया जाबालि
चित्तं क्षोभयित्वा कृत्रिमभावैस्तेन सह रमणम्-.. .... १५९ १

१४४ रंभोद्भूतां स्वकन्यां दृष्ट्वा जाबालिना तस्याः पोषणकरणम्, यौवनं प्राप्तायाः कौमा-रवत्या जावालिकन्याया अग्रे चित्रसेनगन्धर्वस्य गमनम्, तां जाबालिकन्यां गृहीत्वा गन्धर्वस्य देवमन्दिरे गमनम्, ततो दुहितरमन्वेषयमाणेन जाबालिना देवमन्दिरे स्वकन्यां पलायमानं तं गन्धर्वं च दृष्ट्वा लगुडेन स्वकन्यायास्ताडनम्, गन्धर्वाय च शापप्रदानम् ,गन्धर्वेण शापनिवृत्त्यर्थं तपस्तप्त्वा शापान्निवृत्त्य लिंग-स्थापनम्, फलवतीनामकया जाबालिकन्ययाऽपि शापनिबर्हणार्थं तपकरणम्, तत्तपःप्राप्तदिव्यभावया तया कन्यया सह जाबालिमहर्षेः प्रश्नोत्तररूपेण संवादे जायमाने तया कन्यया स्वपितुर्जाबालेर्निरुत्तरीकरणम्, जाबालीश्वरचित्रांगदे-श्वरफलवतीयोगिनीत्रयमाहात्म्यवणर्नम्... .... .. १६० १

१४५ अमरेश्वरमाहात्म्यवर्णने दैत्यकृतं देवपराजयं श्रुत्वा आदित्येश्वराराधनाकरणम्, ईश्वरकृपया देवदैत्ययुद्धे देवकृतदैत्यपराजयवर्णनम्, अमरत्वप्राप्तिकरत्वात्तस्य लिंगस्यामरेश्वरेति नामकरणम्, अमरेश्वरलिंगमाहात्म्यवर्णनम्.. १६३ २

१४६ अमरेश्वरप्रभाववर्णनं आदित्यवसुरुद्रादीनां नामवर्णनम्, अमरेश्वरकुण्डमाहात्म्य-वर्णनम्... ....... ..... १६४ २

१४७ शुकजन्मवर्णनम्, ततो व्यासशुकसंवादवर्णनम्...... .. १६५ १

१४८ शुक्राचार्यपुत्रविरहाद्दुःखेन तन्मात्रा पिगञ्लेत्यपरनाम्न्या वटिकया द्वितीयपुत्र-प्राप्त्यर्थं शिवमाराध्य वरग्रहणम्, वटिकया स्वनाम्ना लिंगस्थापनम्, वटिकेश्वर-माहात्म्यवर्णनम् ............. १६६ २

१४९ केलीश्वर्युत्पत्तिवर्णने हिरण्यकशिपोः सकाशादन्धकासुरस्य जन्म, तस्य राज्यप्राप्ति-वर्णनम्, ततः सहस्रवर्षपर्यन्तं तपस्तावान्धकेन ब्रह्मणो वरग्रहणकरणम्, तेन ब्रह्मदत्तवरेणोन्मत्तेनान्धकेन सेन्द्रान्देवाञ्जित्वा शंभुमपि जित्वा शंभुनिर्मिताग्नि-कुण्डजाकेलीश्वर्या देव्या समं युद्धकरणम्........... १६६ २
 
१५० स्वदैत्यसैन्यपराजयं दृष्ट्वाऽन्धकेन प्रार्थितेन शुक्रेण शंभुनेव वह्नावाथर्वणिकमन्त्रैरा-वाहने कृते सति केलीश्वर्या उत्पत्तिवर्णनम्, ततोऽन्धकेन तस्या देव्याः सकाशतो वरं लब्ध्वा केलीश्वरीस्तवनकरणम्, केलीश्वरीमाहात्म्यवर्णनम्.... १६९ १

१५१ अन्धकशिवयोर्युद्धे वर्तमाने शिवेनान्धकस्य पराजयकरणम्, अन्धककृतया स्तुत्या प्रसन्नेन भगवतांऽधकस्य भृंगिरिटीति नाम्ना स्वकीयशैवगणत्वप्रदानवर्णनम्, अथ राज्याद्भ्रष्टस्य सुरथस्य वसिष्ठवचनाद्धाटकेश्वरे गत्वा भैरवं स्थापयित्वा तस्य पूजनेन राज्यप्राप्तिवर्णनम्, भैरवक्षेत्रमाहात्म्यवर्णनम् .... ... १६९ २

१५२ चक्रपाणिमाहात्म्यवर्णनेऽर्जुनस्य युधिष्ठिरानुज्ञया ब्राह्मणानां गवां संरक्षणार्थमरण्ये गमनम्, ततो गोमोचनं कृत्वा तीर्थयात्रां कर्तुमुद्युक्तस्य फाल्गुनस्य हाटकेश्वरे गमनं चक्रपाणिस्थापनं च, चक्रपाणिमाहात्म्यवर्णनम्... .. १७१ १

१५३ रूपतीर्थमाहात्म्यवर्णने तिलोत्तमोत्पत्तिवर्णनम्, ब्रह्माज्ञया तिलोत्तमायाः कैलासे गमनम्, शिवं नत्वा प्रदक्षिणां कुर्वत्या तिलोत्तमायां शिवमनसः क्षुब्धतां समालोक्य पार्वत्या 'कुरूपा भव इति तिलोत्तमा प्रति शापदानम्, तिलोत्तमा-प्रार्थनया तिलोत्तमां गृहीत्वा पार्वत्या हाटकेश्वरे रूपतीर्थे गमनम्, तेन पूर्वव-त्स्थितां तिलोत्तमां प्रति पार्वत्या वरप्रदानम्, अप्सरःकुण्डोत्पत्तिमाहात्म्य-वर्णनम्... ... ... १७२ १

१५४ चित्रेश्वरीपीठमाहात्म्यवर्णनम् ....... १७३ १

१५५ हाटकेश्वरक्षेत्रे द्वादशादित्याष्टवस्वेकादशरुद्राणां पूजनमाहात्म्यवर्णनम्, पुष्पादि-त्यमाहात्म्यवर्णनम्, तत्र मणिभद्रक्षत्रियवृत्तान्तवर्णनम्, वृद्धमणिभद्राय कन्यां प्रदातुं तस्याः कन्यायाः पित्रा क्षत्रियेण निजभार्यायै बोधोपदेशकरणम्.. १७४ १

१५६ मणिभद्रविवाहोत्तरं मणिभद्रेन पुष्पनामकब्राह्मणस्य विडंबनकरणम्, तस्मै ब्राह्म- णाय नगरवासिभिः सान्त्वनपूर्वकं भोजनायाभ्यर्थनाकरणम् .. ... १७५ १

१५७ ततो भोजनमकृत्वैव सूर्यमाराधयितुं पुष्पकस्य चमत्कारपुरे गमनम्, ततः सम-न्त्रकः सांगं होमं कृत्वा स्वमांसेन स्विष्टकृदादिकमवेक्ष्य सूर्यस्य तत्समीपं प्रत्या-गमनम्, सूर्येण पुष्पाख्याय मणिभद्ररूपकरण-स्वरूपकरणप्रभावशालिगुटिकाद्वय-प्रदानम्, पुष्पब्राह्मणेन स्वनाम्ना पुष्पादित्यस्थापनम्, पुष्पादित्यमाहात्म्यवर्णनम् १७६ १

१५८ सूर्यदत्तगुटिकाप्रभावात्पुष्पकेण मणिभद्रसदृशं रूपं धृत्वा मणिभद्रगृहे गमनम्, तस्य सत्यमणिभद्रस्य गृहं गत्वा द्वारस्थं षण्ढं वस्त्रादिना सन्तोष्य तस्य पत्नीं वस्त्रालंकारादिना सन्तोष्य तया सह सुखेन भुक्त्वा संभोगकरणम्, ततस्तस्य कृत्रिममणिभद्रस्य वचनात्सत्यमणिभद्रस्य द्वारस्थषण्ढेन धिक्कारकरणम्, कृत्रि-माकृत्रिममणिभद्रयो राजमदिरे विवादवर्णनम्, ततो राजवचनादकृत्रिममणि-
भद्रस्य तत्पत्न्या स्वपतित्वेनास्वीकारे राजाज्ञया तस्याकृत्रिममणिभद्रस्य राज-दूतद्वारा शाखावलंबेन निधनवर्णनम्..... ... १७७ १

१५९ तत आप्तवर्गान्समाहूय तेन कृत्रिमेण पुष्परूपमणिभद्रेण भोजनवस्त्रादिदानवर्णनम्, पुष्पविभववर्णनम्. ........ ... १७९ १

१६० माहिकाप्रार्थनया पूर्ववत्पुष्पशरीरं धृत्वा तेन पुष्पब्राह्मणेन माहिकायाः सौख्यकर-णम् , ततस्तेन पुष्पेण स्वपुत्रेभ्यो धनं दत्त्वा कृतस्य पापस्य क्षालनार्थं हाटकेश्वर-क्षेत्रे गमनम्, पुरश्चरणादीन्कर्तुं ब्राह्मणनिमंत्रणकरणम्, पुष्पादित्यस्य मंदिर-निर्माणकरणम् ... ....... . १७९ १

१६१ पुष्पादित्यमाहिकादुर्गोत्पत्तिमाहात्म्यवर्णनम्......... १८० १

१६२ पुरश्चरणसप्तमीव्रतकथने मार्कण्डेयरोहिताश्वसंवादे न्यासपूर्वकं षोडशोपचारपूजन-विधिवर्णनम्, प्रतिमासपूजाविशेषभेदवर्णनम्, केनचिच्चंडशर्मणा ब्राह्मणेन पुष्पं प्रति पुरश्चरणसप्तमीव्रतविधिवर्णनम् . १८० २

१६३ चंडशर्मणा शास्त्राण्यालोड्य कथितेन प्रायश्चित्तविधिना पुष्पस्य पापशुद्धौ जातायां लोकैश्चण्डशर्मणस्तिरस्करणम्, ततस्तेन चण्डशर्मणा ब्राह्मणेन तपःकरणम्, चंड-शर्मणा पुष्पादित्यं प्रदक्षिणीकृत्य स्वमांसेनाग्नौ होमे क्रियमाणे प्रत्यक्षेश्वरसूर्य-नारायणेन निजदर्शनदानम्, सूर्यदर्शनेन पुष्पचण्डशर्मणोः पापनिवृत्तिपूर्वकसुरू-पप्राप्तिवर्णनम्, ब्रह्मनागरोत्पत्तिवृत्तान्तवर्णनम्... १८२ १

१६४ ततः पुनः पुष्पचंडशर्मणोः सरस्वतीतीरे गमनम्, तत्र कर्दमेन लिंगकरणपूर्वकं पूजनं कृतवता चण्डशर्मणा नागरेश्वरेति नाम्ना लिंगस्थापनम्, चण्डशर्मपत्न्या शाकं-भर्याऽपि शाकम्भरीदुर्गास्थापनम्,चण्डशर्मणा सरस्वतीतीरे ागरादित्यस्थापनम्, ागरेश्वरनागरादित्यशाकंभर्युत्पत्तिमाहात्म्यवर्णनम्.... १८३ १

१६५ विश्वामित्रोत्पत्तिकथन ऋचीकस्य गाधिकन्या याचनार्थं गाधिगृहे गमनम्, ततो याचनोत्तरं सहस्रश्यामकर्णप्रदानेन कन्यां दास्यामीति राजप्रतिज्ञां श्रुत्वा तच्छ्या-मकर्णलब्धये सरस्वतीतीरे ऋचीकेन तपःकरणम्, ततो मन्त्रसामर्थ्येन श्याम-कर्णाँल्लब्ध्वा गाधिसमीपे ऋचीकस्य गमनम्, अश्वतीर्थोत्पत्तिवर्णनम्... १८४ १

१६६ वरप्रदानोत्सुकस्यर्चीकस्य वचः श्रुत्वा मातुराज्ञया ऋचीकपत्न्या मातुरात्मनश्च पुत्रप्राप्त्यर्थमृचीकं प्रति प्रार्थनाकरणम्, ऋचीकेन पत्नीवाक्यं श्रुत्वा क्षात्रतेजः-प्रपूरकपुरोडाशं गाधिपत्न्यर्थं ब्राह्मतेजःसंयुक्तपुरोडाशं स्वपत्न्यर्थमिति पुरोडाश- द्वयं निर्माय ऋचीकेन भिन्नत्वेन द्वाभ्यां तत्पुरोडाशद्वयस्य संप्रदानकरणम् , तत्तद्गृहीत्वा ताभ्यां राजपत्नीद्विजपत्नीभ्यां विपर्यासकरणादृचीकेन गर्भदोहद-लक्षणपरीक्षया पुरोडाशव्यत्ययं विदित्वा स्वपत्न्यै शापप्रदानम् , ततस्तत्प्रार्थनया तस्यै 'तव पौत्रः क्षात्रतेजोयुक्तो भवेत् इत्याद्युच्छापप्रदानम् , परशुरामोत्पत्ति-वर्णनम्. .......... १८४ २

१६७ विश्वामित्रोत्पत्तिवर्णनम्, विश्वामित्रस्य ससैन्यस्य वसिष्ठाश्रमे गमनम्, वसिष्ठकाम-धेनुप्रभावं ज्ञाप्वा तत्प्राप्त्यर्थं वसिष्ठं प्रति याचनाकरणम् , वसिष्ठविश्वामित्र-योर्युद्धवर्णनम्, तत्र वसिष्ठेन विश्वामित्रस्य दोःस्तंभनकरणम्, ब्राह्मं तेजः क्षात्र-तेजोपेक्षया वरिष्ठमिति मत्वा ब्राह्मतेजःसंपादनार्थ राज्यं त्यक्त्वा विश्वामि-त्रस्य वने प्रयाणम्.............. ... १८५ २

१६८ विश्वामित्रकृता घोरतपश्चर्या विलोक्येन्द्रब्रह्मणोर्वरप्रदानार्थं विश्वामित्राग्रे गमनम्, ब्राह्मं तेजो दुर्लभमिति मत्वापि ऋचीकवचनात्केवलं वसिष्ठं विना सर्वैरयं ब्रह्मर्षिरिति भाषितकरणम् , वसिष्ठविनाशार्थं विश्वामित्रेणाथर्वणिकमंत्रैरग्नौ होम आरब्धे सति तस्मादग्नेः कृत्याया उद्भवः, विश्वामित्रेण तस्याः कृत्याया वसिष्ठं प्रति प्रेषणम्, तस्या वसिष्ठहृदयंस्पृष्ट्वा तत्रैव पतनम्, धारेति तस्या नामकरणम्, धारोत्पत्तिमाहात्म्यवर्णनम्.............. १८७ २

१६९ वसिष्ठपत्न्याऽरुन्धत्या धारातीर्थ आगत्य तत्तीर्थस्य देव्याश्च स्तवकरणम्, धाराना-मोत्पत्तिवृत्तान्तधारादेवीमाहात्म्यवर्णनम्....... .... १८८ २

१७० धारातीर्थोत्पत्तिमाहात्म्यवर्णनम्....... ...... १८९ २

१७१ विश्वामित्रेण वसिष्ठोपरि प्रेषितायाः स्वशक्त्या निष्फलत्वं वीक्ष्य ब्राह्मास्त्राद्यस्त्रैर्युद्ध-करणम्, वसिष्ठप्रेरिततत्प्रतिद्वन्द्वयस्त्रैर्भूतले प्रलयमिव दृष्ट्वा तत्र ब्रह्मणो गमनम्, वसिष्ठविश्वामित्रयोः सामकरणम्, विश्वामित्रवसिष्ठयोर्युद्धे दिव्यास्त्रनिवर्तनव-र्णनम्................... १८९ २

१७२ वसिष्ठद्रोहकरणार्थं सरस्वत्या विश्वामित्रेणाज्ञाकरणम्, तया सरस्वत्या कृतं स्वाज्ञा-भंगं विज्ञाय विश्वामित्रेण सरस्वत्यै शापप्रदानम्......... १९० १
१७३ सरस्वतीशापमोचनपूर्वकसाभ्रमप्युत्पत्तिवृत्तान्तवर्णनम्........ १९० २

१७४ अथ पिप्पलादोत्पत्तिवृत्तान्तवर्णनम् , तत्र जन्मकालेऽतिकष्टतरां दशामापन्नं पिप्प-लादं प्रति समागतेन नारदेन पिप्पलादकृतं निजदुर्दशाकारणजिज्ञासया प्रश्नं श्रुत्वा शनैश्चरस्य जन्मराशिस्थत्वादिदं ते गर्हितं जन्मेति पिप्पलादं प्रति कथिते सति पिप्पलादेन स्वदृष्टिपातेन शनैश्चरस्य स्वस्थानात्पाते कृते सति नारदेन शनैश्चरस्य गगने स्तंभनम्, ततः पिप्पलादेन नारदोपदेशात्पीडापरिहारार्थं शनै-श्चरस्तुतिकरणम्, शनैश्चरेण तस्मै वरप्रदानम्, पिप्पलादस्य - याज्ञवल्कयाय समर्पणकरणम्... ........... १९१ १

१७५ याज्ञवल्क्येन स्वकृताज्ञानजन्यपातकदोषनिबर्हणार्थं ब्रह्माज्ञया हाटकेश्वरे गमनं लिंग-स्थापनं च, याज्ञवल्क्येश्वरमाहात्म्यवर्णनम् ....... १९३ १

१७६ कंसारेश्वरोत्पत्तिमाहात्म्यवर्णनम्.... ......... १९३ २

१७७ काशिराजपत्न्या पद्मावत्या सौभाग्यवर्धनार्थं वालुकया पञ्चलिंगान्निर्माय तत्पूजनम्, तत्प्रभावेण तस्या राज्यादिसौभाग्यप्राप्तिवर्णनम्, पञ्चपिंडिकोत्पत्तिमाहात्म्य-वर्णनम् ....... .............. .. १९४ १
 
१७८ पञ्चपिंडिकागौरीमाहात्म्यवर्णने लक्ष्मीविष्णुसंवादे विष्णुपृच्छया लक्ष्म्या विष्णु प्राप्त्यर्थं दुर्वाससो वचनात्पंचगौरीपूजनम्, अथ लक्ष्म्या तद्विसर्जनसमये गौरीवचनात्पंचपिंडागौरीतिनाम्ना हाटकेश्वरे स्थापनम्, पञ्चपिंडागौरीमाहा-त्म्यवर्णनम् ........ .. १९५ २

१७९ पुष्करत्रयवर्णने ब्रह्मनारदसंवादे नारदमुखादनेकदुःखावृताञ्जनानवेक्ष्य ब्रह्मणा लोकरक्षार्थं भूतले कमलप्रक्षेपणम्, तत्र हाटकेश्वरे तत्कमलपतनेन गर्तात्रय-निर्माणकरणम्, ततस्तत्र ब्रह्मादिभिर्यज्ञसमारंभार्थमुपकरणानयनब्राह्मणामन्त्रणा-दिप्रकारकथनम्... .... .... १९७ २

१८० यज्ञमण्डपप्राप्तब्राह्मणसत्कारपूर्वक लिंगादिस्थानयोजनापूर्वकाध्वरकर्मारंभवर्णनम्.... १९८ २

१८१ नागरैर्बाह्यं श्राद्धं यज्ञो वा वृथेति नागरब्राह्मणान्ब्रह्मणा वरप्रदानम्, ब्रह्मणो वचनाप्सावित्रीमानेतुं नारदस्य ब्रह्मलोके गमनम्, 'नाहमेकाकिन्यागमिष्यामि इति तस्या वचनं श्रुत्वा ब्रह्मणा पुनः पुलस्त्यस्य संप्रेषणम्, सावित्र्या दुराग्रहं समालोक्य कामप्यन्याकन्यामानयेति शक्रं प्रति ब्रह्मणासंप्रेषणम् , शक्रेण कांचि-द्गोपकन्यां दृष्ट्वा गृहीत्वा च गोर्वक्त्रेण प्रवेश्य गुह्येन निष्कास्य तस्याः पवित्रीकर-णम्, तां पूतां दृष्ट्वा विष्णुरुद्रादिदेववचनाद्ब्रह्मणा तस्या गोपकन्यायाः पाणिग्रहणकरणम्, गायत्रीविवाहोत्तरं गायत्रीतीर्थस्थापनम्, गायत्रीतीर्थमाहात्म्य-वर्णनम्. . .. ...... .. १९९ २

१८२ ततो गायत्र्या नखनिकृंतनं ब्रह्मणः केशनिर्वपणं च कारयित्वा दण्डादिकं हस्ते दत्त्वा चर्मादिभिः सहोभयोर्यज्ञशालागमनम्, ततस्तत्र कस्यचिज्जाल्मस्यागम-नम् , पैतामहोऽयं यज्ञोऽनिन्द्य इति तेषामृत्विजां वचनमाकर्ण्य यज्ञे जाल्मेन कपालप्रक्षेपणम्, ऋषिभिः पदाऽऽहत्य तस्मिन्कपाले बहिर्निक्षिप्ते तत्स्थले पुनरन-न्तकपालोत्पत्तिं दृष्ट्वा ब्रह्मणा हरप्रार्थनाकरणम्, हरकृपयाऽरिष्टनिरसनम्,रूपती-
र्थोत्पत्तिवर्णनपूर्वकं तस्य यक्षस्य प्रथमदिवसवृत्तान्तवर्णनम् .... २०१ १

१८३ यज्ञस्य द्वितीयदिवसे यज्ञमध्ये केनापि बटुना सर्पनिक्षेपणम्, तेन सर्पेण होतुः शरीरं वेष्टितमिति मैत्रावरुणकर्मणि स्थितेन होतुः पुत्रेण दृष्ट्वा सर्पनिक्षेपकारिणं बटुं प्रति शापदानम्, ततस्तत्प्रार्थनयोच्छापस्यापि प्रदानम्, तत्रैव नागतीर्थ-स्थापनम्, नागतीर्थमाहात्म्यवर्णनम् . २०२ २

१८४ तृतीये दिवसे तत्र यज्ञे भोजनादिसमारंभे कस्यचिदतिथेरागमनम्, तेन सह संवाद ऋत्विग्भिस्तस्य पुष्टत्वकारणे पृष्टे तेनातिथिना 'पिंगलादिषडगुरुभ्यो मया ज्ञानं लब्धम् इति कथनम्, तच्छुत्वा कथं ज्ञानं लब्धम् इत्यृत्विग्भिः प्रश्ने कृतेऽतिथिना तान्प्रति पिंगलाख्यानकथनम्, तत्र प्रथमतः स्वस्य गोत्रकुलजन्मादिवृत्तान्त-कथनम्, तस्यातिथेर्बाल्ये वयसि पितर्युपरते सत्यानर्ताधिपतेर्गृहे सेवाकरणार्थ गमनम्, तत्र आनर्ताधिपतेः पिंगलाया वेश्यायाः सुरतसुखोपभोगे गततृष्णत्वेन सुखेन स्वपनम्, तथाऽन्यासां स्त्रीणां कामपीडितत्वेन शान्तिसमाधानसुखाभावं दृष्ट्वा पिंगलातो विगततृष्णत्वरूपगुणग्रहणवर्णनम्, पिंगलोपाख्यानवर्णनम् .. २०४ १

१८५ कुररतो गुणग्रहणादिवर्णने यथा कुररो निरामिषः सुखी बभूव तथा मनुष्यैर्भाव्यमि-त्यादि मनसि विचार्य सर्वं वित्तं दायादहस्ते दत्त्वातिथेः सुखीभवनम्, सर्पा-द्गुरुत्वबुद्ध्या गुणग्रहणवर्णने परगृहवासिनां सर्पाणां स्वभाववर्णनपूर्वकयति-धर्मनिरूपणम्, एवं भ्रमरादिभ्योऽपि गुणग्रहणवर्णनम्, एवमतिथिसंभाषणे प्रवृत्ते सति तत्र विष्ण्विन्द्रादीनां देवानामागमनम्, पैतामहयज्ञशोभावर्णनम्, अतिथितीर्थोत्पत्तिमाहात्म्यवर्णनम् २०४ २

१८६ गृहागतस्यातिथेः सत्कारपूजनादिमाहात्म्यवर्णनम्... .... २०७ १

१८७ चतुर्थेऽहनि कस्यचिद्विश्वावसुनाम्नः पुलस्त्यपुत्रस्य जिह्वालौल्याद्यज्ञियपशुगुदमांस-भक्षणेन ब्राह्मणैस्तस्य राक्षसत्वप्रापकशापप्रदानम्, तेन शापेन तस्य विश्वावसु-नाम्नः पुलस्त्यपुत्रस्य सद्यो राक्षसत्वप्राप्तिवर्णनम्, ततो ब्रह्मणा तस्य स्वपौत्रस्य तृप्त्यर्थं व्यवस्थाकरणप्रसङ्गेन राक्षसप्राप्यश्राद्धवर्णनम्. .. ... २०७ २

१८८ पञ्चमेऽहनि उद्गातृनिर्मिते गीते गीतश्रवणार्थमौदुंबर्या आगमनम्, औदुंबर्युद्गात्रोः संवादवर्णनम्, तत्रौदुंबर्या स्वजन्मवृत्तान्तकथनम्, औदुंबरीं प्रत्युद्गात्रा वर-प्रदानम्, शंकुप्रचारपूजनमाहात्म्यवर्णनम्, औदुंबरीशापनिवृत्तिवर्णनम्, तत्रे-श्वरेण सह सर्वदेवतानामागमनम्, मातृगणस्य स्वस्वस्थानं प्रति गन्तुं तस्याः सकाशतो गमने सति सावित्र्या मातृगणाय शापदानवृत्तान्तवर्णनम् ... २०९ १

१८९ औदुंबर्युत्पत्तिपूर्वकतत्प्राग्जन्मवृत्तान्तवर्णनम्... ...... २११ १

१९० ब्रह्मणा यज्ञान्ते सर्वान्नागरानाहूय तेभ्यः सर्वे यज्ञगतवृत्तान्तं तीर्थोत्पत्त्यादिकं च कथयित्वा अवभृथस्नानार्थं सर्त्विजो ब्रह्मणो ज्येष्ठपुष्करे गमनम्, ब्रह्मणे-न्द्रादिभ्यो वरप्रदानम्, ब्रह्मणा तस्मिन्समये तत्रागताय यक्ष्मणे वरप्रदानम्, यक्ष्मतीर्थोत्पत्तिवर्णनम् ... . २११ २
 
१९१ सावित्र्या यज्ञमण्डपं प्रत्यागमनकाले संजायमानोत्पाताद्यपशकुनोद्भववर्णनम्, घृताच्याद्यप्सरसां तत्रागमनम् , तत्कृतगायनवादनहास्यादीनां वर्णनम् . २०३ २

१९२ सावित्रीं प्रति नारदेन गायत्रीविवाहादिवृत्तकथनम्, सावित्र्या तन्नारदकथितं वृत्तान्तं श्रुत्वा दुःखकरणम्, गौरीवचनान्नारदवाक्यमविश्वास्य ब्रह्मणोग्रे यज्ञ-मण्डपे सावित्र्या गमनम्, सावित्र्या ब्रह्मणो निंदाकरणम् , ब्रह्मणे सावित्र्या शापप्रदानम्, सावित्र्या शक्रवह्निनागरब्राह्मणर्त्विगादिभ्यः शापदानम्, ततः सावित्र्या ततो निर्गत्यैकपदा पर्वतमधिरुह्य गमनम्, सावित्रीमाहात्म्यवर्णनम् २१३ २ १९३ गतायां सावित्र्यां तत्र स्थितया गायत्र्या सर्वेभ्यः सावित्र्या दत्तानां शापानां निवृत्तिकरणपूर्वकं वरप्रदानम्.. ...... .... २१६ १
 
१९४ सर्वदेवैर्गायत्रीस्तवनकरणम्, ब्रह्मविष्ण्वीशानां समायुष्ट्वप्राप्तिवर्णनम्, निमेषादि-कल्पान्तपर्यंतकालप्रमाणवर्णनम्, ब्रह्मज्ञानप्राप्त्यर्थं कुमारिकातीर्थद्वयगर्तक्षेत्रस्थ पादुकामाहात्म्यवर्णनम्......... २१६ २

१९५ कुमारिकातीर्थद्वयवर्णने ब्राह्मणीनाम्न्याश्छान्दोग्यब्राह्मणकन्याया आनर्ताधिपते रत्नावतीनाम्न्याः कन्यायाश्च मिथोतिसख्यवर्णनम्, विवाहान्त आवयोर्वियोगः स्यादिति ताभ्यां मनसि निधायोपाययोजनम्, नृपब्राह्मणकन्यावृत्तान्तवर्णनम् २१७ २

१९६ दशार्णाधिपतेर्बृहद्बलस्यानर्ताधिपतेः पुरं प्रत्यागमनम्. ..... ..... २१८ २

१९७ तस्मिन्नवसरे वेश्यागृहं गतस्य कस्यचिद्विश्वावसुपुत्रस्य परावसुनाम्नो विप्रविद्या-र्थिनो रात्रौ निद्रावशेन तृष्णया पीडिततयाऽज्ञानेन मद्यप्राशनम्, ततः पश्चात्ता-पेन तेन प्रातः शंखतीर्थे गत्वा वपनादिकं कृत्वाऽन्त्यजवद्गुरुगृहे दूरतोऽवस्थाने तत्सतीर्थ्यैस्तं प्रति प्रश्नकरणम्, तत्सतीर्थ्यैस्तस्मै परिहासोक्त्या 'रत्नावती-स्तनग्रहणाधरास्वादनतस्ते पापनिर्मुक्तिः स्यात् इति प्रायश्चित्तकथनम्, ततो विश्वावसुना गुरोराज्ञया सर्ववृत्तान्तकथनम् , अथ धर्मशास्त्रज्ञब्राह्मणोक्ताग्नितुल्य- घृतप्राशनरूपप्रायश्चित्तं ग्रहीतुमुद्युक्तं विश्वावसुं दृष्ट्वा तन्मातापित्रोराक्रोशकरणम्, ततो भर्तृयज्ञेन रत्नावतीस्तनग्रहणाधरास्वादनेन मद्यपानशुद्धिः स्यादिति प्रथ-मतो विप्रविद्यार्थिभिः प्रोक्तं प्रायश्चित्तं श्रुत्वा तैः सर्वैर्ब्राह्मणैः सह राजानं प्रत्या-
गत्य ब्राह्मणजीवदानार्थ प्रार्थनायां कृतायां राज्ञा निजकन्यायै ब्राहाणस्य प्रायश्चि-त्तार्थं तथानुगृह्यतामित्युक्ते तया पुत्रदृष्ट्या तस्मै ब्राह्मणाय प्रायश्चित्तार्थं निजस्त-नधारणनिजाधरास्वादनार्थमाज्ञायां दत्तायां तेन ब्राह्मणेन मातृभावेन तथा कृते सति ब्राह्मणस्य मुखाद्रत्नावत्याः स्तनाभ्यां च क्षीरनिर्गलनम्, परावसुप्रायश्चि- त्तवृत्तान्तवर्णनम्.. .......... .... .. २१९ १

१९८ दशार्णाधिपतेरेव पाणिग्रहणे रत्नावत्या दुराग्रहकरणम्, रत्नावत्या विवाहा-भावे तत्सख्या ब्राह्मण्या अपि विवाहाकरणे दुराग्रहकरणम्, ततस्तयोर्ब्राह्मणी-रत्नावत्योस्तपश्चिकीर्षया भर्तृयज्ञाश्रमे गमनम्, भर्तृयज्ञाज्ञया ताभ्यां जला-शये तपःकरणम्, तत ईश्वरस्य प्रसादे जाते सति ताभ्यां लिंगस्थापनम्, शूद्री-ब्राह्मणीतीर्थद्वयमाहात्म्यवर्णनम्........... ... २२१ २

१९९ क्षेत्रत्रयारण्यत्रयपुरीत्रयवनत्रयग्रामत्रयतीर्थत्रयपर्वतत्रयमहानदीत्रयादीनामुत्पत्तिवृ-त्तान्तपूर्वकं तेषां तेषां माहात्म्यवर्णनम्....... .... २२४ १

२०० भर्तृयज्ञकृतनागरज्ञातिव्यवस्थावृत्तान्तवर्णनम्... .. .... २२७ २

२०१ विश्वामित्रभर्तृयज्ञसंवादे विश्वामित्रेण भर्तृयज्ञाय नागरशोधनविषयकप्रश्ने कृते सति भर्तृयज्ञेनोत्तरदानम्, भर्तृयज्ञेन गर्तादितीर्थस्नानेन तत्र पीठिकादिदानेन श्रीसूक्त-पावमान्यादिसूक्तपठनेन छांदोग्याद्यपुनिषद्वाचनेन शुद्धिः स्यादित्यादिनागर-प्रश्ननिर्णयकरणम्................ २२८ २
 
२०२ तालत्रयं केन देयमिति नागरैः प्रश्ने कृते सति भर्तृयज्ञेन नागरप्रश्नानामुत्तरदानम् , नागराणां वाचि सत्यत्वमतस्तैरेव नागरैस्तालत्रयं देयमित्यादिकथनम्, भर्तृयज्ञ निर्णयवाक्यवर्णनम्................ २२९ १
 
२०३ देशदेशान्तरस्थितनागरविशुद्धिप्रकारवर्णनम्.......... .. २२९ २

२०४ आनर्तविश्वामित्रसंवादे हिरण्याक्षेन्द्रयुद्धवर्णनम्, तत्र स्वपराजयं दृष्ट्वा शक्रेण विष्णुना सह संगमः, ततः शक्रविष्णुसंवादे युद्धहतानां प्रेतत्वान्मुक्तिः कथं भवे-दिति पृष्टेन विप्णुना शक्राय प्रेतश्राद्धकथनम्......... २३० १

२०५ शक्रविष्णुसंवादे गयाश्राद्धफलमाहात्म्यकथनम्........ २३१ १

२०६ विष्णुवाक्योपरि विश्वस्तेन शक्रेणैरावतमारुह्य हिमवन्तं गत्वा तत्र चमत्कारपुरस्था-न्विप्रान्दृष्ट्वा तदाश्रमस्थैर्विप्रैः पूजितेन शक्रेण तान्प्रति कुशलप्रश्नादिकं मिथः कृत्वा गयाकूपे श्राद्धादिकरणम्, तत्र ब्रह्मदेवस्यागमनम्, 'एकोद्दिष्टं विना सर्वत्र विश्वेदेवपूजनं कार्यं न त्वेकोद्दिष्टे इत्यादि ब्रह्मणा विश्वेदेवानां शक्रदत्तशापस्य व्यवस्थाकरणम्, कूष्मांडादीनामुत्पत्तिनामकथनम्, बालमंडनकतीर्थमाहात्म्य- वर्णनम्- ................. ... २३१ १
 
२०७ पञ्चरात्रेन्द्रमहोत्सववर्णनेऽहिल्यया सह सुरतप्रसंगादिन्द्राय गौतमेन शापप्रदानम्, ततो बृहस्पतिना प्रार्थितेन गौतमेन इन्द्रगात्रे सहस्रभगस्थाने नेत्रजाशोभाप्रदानं पञ्चरात्रे भूम्यां पूजालाभप्रदानं च, पञ्चरात्रेन्द्रमहोत्सवमाहात्म्यवर्णनम्.. २३५ १

२०८ अहिल्याया मातुः स्वपित्रा कृतं शिलाजनकत्वशापप्रदानं श्रुत्वा मरणे कृतनिश्चयेन शतानन्देन तच्छुद्ध्यर्थ बहुदुःखकरणम्, ततो गौतमेन शताननन्दस्य सान्त्वनकर-णम्, श्रीरामेणाहिल्यायाः शिलारूपायाः पादरजसः स्पर्शनेन शापतो मुक्तताकर-णम्, रामवचनाद्धाटकेश्वरेऽभ्येत्य अहिल्याशतानन्दगौतमैःस्वस्वनामभिर्लिंगस्था-पनम्, गौतमेश्वराहिल्येश्वरशतानन्देश्वरमाहात्म्यवर्णनम्........ २३६ २

२०९ शंखतीर्थमाहात्म्यवर्णने कुष्ठित्वं गतेनानर्ताधिपेन नारददर्शनम्, नारदेनानर्ताधिपतेः पूर्वजन्मचरित्रवर्णनम्, नारदेन कुष्ठादिपापशुद्ध्यर्थं शंखतीर्थस्नानाद्युपायक-थनम्, तत्र शंखतीर्थोत्पत्तिवर्णनम्, शंखादित्यस्थापनवृत्तान्तवर्णनम्, शंख-तीर्थशंखादित्यमाहात्म्यवर्णनम्........ २३९ १

२१० नागवल्लीदोषकारणकथनप्रसंगे नारदेन सिद्धसेननाम्न आनर्ताय समुद्रमन्थनाद-मृतादिचतुर्दशरत्नोत्पत्तिवर्णनम्, तत्र अमृतप्राशनसमये कुहकेन युक्तस्य राहोः श्रीविष्णुना सुदर्शनेन शिरश्छेदादिवर्णनम् , ऐरावतप्रभिन्नपीयूषकमण्डलुतो वल्ली-निर्गमनम्, तस्या नागालानत्वान्नागवल्लीति नामकरणम्, वाणीवत्सरकाख्यस्य नृपस्य शक्राराधनया शक्रदत्तं विमानमारुह्य शक्रलोके नित्यं गमनम्, तत्र शक्रदत्तं तांबूलं भक्षयित्वा पुनः स्वस्थाने गमनम्, तेन वाणीवत्सरकेण स्वोद्याने क्षितौ नागवल्लीप्रसिद्धिकरणार्थं शक्रलोकतो नागवल्ल्या आनयनम्, तांबूलोत्पत्ति-
तांबूलभक्षणमाहात्म्यवर्णनम्...... ...... २४१ १
 
२११ आनर्ताधिपतेः शंखतीर्थे स्नानेन कुष्ठमोचनकथनम्, शत्रुहृतराज्यप्राप्तिपूर्वकं शंख-तीर्थमाहात्म्यकथनम्........ ...... .. २४३ १

२१२ विश्वामित्रीयतीर्थमाहात्म्यवर्णने विश्वामित्रप्रशंसावर्णनम्, भास्करतीर्थधन्वन्तरि-वापीमाहात्म्यवर्णनम्, रत्नाक्षनाम्र्नोऽयोध्याधिपतेः कुष्ठविनाशार्थ कार्पटिकवच-नाद्धाटकेश्वरमेत्य सप्तम्यां भास्करर्तार्थे स्नानेन भास्करपूजनेन च दोषनिवृत्तिक-
थनम्, रत्नादित्येतिनाम्ना तीर्थस्थापनम्, रत्नादित्यतीर्थमाहात्म्यवर्णनम्... २४३ १

२१३ कुहरवासाख्यसंज्ञकभगवत्स्थापनवर्णनम्, राजमार्गेण गच्छन्तं कृष्णपुत्रं सांबं द्रष्टुं सर्वासां नागरिकस्त्रीणां स्वस्वकार्याणि संत्यज्य गवाक्षद्वार आगमनम्, सांब-दर्शनेन तासां मध्ये कासांचिन्निश्चेष्टितत्वेन पतनादिवर्णनम्, ततः स्वपत्नीस्वरूपेणागतया नंदिनीनाम्न्या कृष्णपत्न्या समं सांबेनाज्ञानाद्रतिक्रीडादिकरणम्, ततसर्वं तस्याः कुहकं ज्ञात्वा पश्चात्तापेन श्रीकृष्णं प्रति सर्ववृत्तान्तकथनम्, धर्मशास्त्रज्ञब्राह्मणोक्तपद्धत्या तिंगिन्यादिना शुद्धिकरणोपायनिवेदनं च ततःकृतपापेन कुष्ठितस्य सांबस्य श्रीकृष्णाज्ञया हाटकेश्वरे गमनम्, तत्र भास्कराराधनया तस्य सांबस्य कुष्ठनिवृत्तिकथनम्, स्वनाम्ना तीर्थस्थापनाकरणम्, कुहरवासिसांबादित्यमहात्म्यवर्णनम् ----- २४४ १

२१४ गणनाथोत्पत्तिवर्णनम्, गणनाथसाहाय्येन दानवान्विजित्यसन्तुष्टेनेन्द्रेणगणनाथाय वरप्रदानम्, रोहिताश्वमार्कण्डेयसंवादेनविश्वामित्रस्य वसिष्ठाश्रमे गमनम्, वसिष्ठकामधेनुप्रभावं ज्ञात्वा कामधेनुं ग्रहीतुं समुत्सुकस्य विश्वामित्राय वसिष्ठेन पराजयकरणम्, ततोब्राह्मं तेज- संपादयितुं विश्वामित्रेण तपःकरणम्,सन्तुष्टेन शिवेन ब्राह्मण्यप्राप्त्यर्थं गणपतिपूजाविधिमाहात्म्यक्रमस्य विश्वामित्रायकथनम्,विश्वामित्रेण गणपतिपूजनेन ब्राह्मण्यसंपादनम् ---- २४७ १

२१५ अथ सूतशौनकसंवादप्रसङ्गेन विश्वामित्रेण रोहिताश्वाय भर्तृयज्ञानर्ताधिपतिसंवादेन श्राद्धकल्पकथनम्, तत्र केषांकेषां श्राद्धं कार्यमित्यादि श्राद्धावश्यकताकारणवर्ण- नम्, श्राद्धकालनिर्णयकरणम्

२१६ व्यतीपातादिकाले श्राद्धकरणे फलकथनम्, अग्निष्वात्तादिनवपितृगणवर्णनम् , कस्मिंश्चित्समये श्राद्धाभावात्क्षुत्पिपासार्दितानां पितॄणां ब्रह्मलोके गमनम्, ब्रह्मणे स्ववृत्तान्तकथनम्, ब्रह्मणा पितॄणां सांत्वनकरणम्, अमाश्राद्धगयाश्राद्धादिविधा-नेन सर्वेषां तृप्तिकरणम्, श्राद्धोत्पत्तिवृत्तान्तवर्णनम्......... २५० १

२१७ श्राद्धे कुतपादिकालमाहात्म्यवर्णनम्, श्राद्धेऽपांक्तेयव्राह्मणलक्षणवर्णनम्, श्राद्धे पूजार्हव्राह्मणलक्षणानि, श्राद्धविधिवर्णनम्, श्राद्धे त्याज्यदुष्टकर्माणि, श्वरजस्वला-स्त्रीपतितादिदर्शने घरट्टोलूखलादिशब्दश्रवणे च दोषकथनम् , श्राद्धानर्ह-वस्तुवर्णनम्, प्रतिमासे श्राद्धार्हतिथिवर्णनम्, श्राद्धार्हपदार्थब्राह्मणकालनिर्णयवर्णनम् ----- २५३ १

२१८ श्राद्धनियमवर्णनम् - - - - २५४ २

२१९ काम्यश्राद्धविधिक्रमवर्णनम् २५४ २

२२० गजच्छायायां श्राद्धकरणेन फलप्राप्तिकथनम्,श्राद्धे कड्गमांसादिना ब्राह्मणेभ्योभोजनदानेन फलवर्णनम्, प्रमादेन श्राद्धाकरणे दोषकथनम्, २५५ २

२२१ कस्यकस्यमांसेन कतिमासावधिपितृतृप्तिः स्यादित्यादिवर्णनम्, श्राद्धकल्पे सृष्ट्युत्पत्तिकालिकब्रह्मोत्सृष्टश्राद्धार्हवस्तुपरिगणनवर्णनम् --- २५७ २

२२२ शस्त्रमृतानामपमृत्युमृतानामुपसर्गैर्मृतानां विषं भक्षयित्वा मृतानां वह्निदग्धानां जलमृतसर्पव्याघ्रहतानां शृंगैरुद्बन्धनादिभिर्मृतानां च का गतिःकदा वा श्राद्धं कर्तव्यं को विधिरित्यादिवर्णनम्, चतुर्दशीशस्त्रहतश्राद्धनिर्णयवर्णनम् - - - -२५९ १

२२३ श्राद्धार्हानर्हब्राह्मणवर्णनम् - - - २५९ २

२२४ मन्त्रपूर्वकसाद्यन्तश्राद्धविधिकथनम्.... .......... २६० १
 
२२५ एकोद्दिष्टविधिकथनम्, पार्वणश्राद्धविधिकथनम्, नवश्राद्धविधिवर्णनम्, सपिंडी-करणश्राद्धनिर्णयविधिवर्णनम् २६१ १

२२६ प्रेतजनकत्वकारणकथनम्, ततो युधिष्ठिरभीष्मसंवांदप्रसंगेन एकविंशतिनरकवर्ण-नम् , यमलोके पुण्यपापधर्मादिव्यवस्थावर्णनम् , केन पातकेन कस्य नरकस्य प्राप्तिरित्यादिवर्णनम्, तत्तद्दुरितप्राप्यैकविंशतिनरकयातनानिरसनोपायवर्णनम्. २६२ १

२२७ गंगादिपुण्यसलिलेपु देहास्थिपातने नरकयातनाविमोक्षवर्णनम् , प्रायश्चित्तैर्धारातीर्थे देहपातनेन तथाऽन्यैरप्युपायैर्नरकयातनानिरसनोपायकथनम्...... २६३ १

२२८ चातुर्मास्ये जलशायिपूजनेन पापनिवृत्तिकथनम्, बिलद्वारे जलशायिशयनवर्णने हिरण्यकशिपुपुत्रप्रह्लादेन राज्यास्वीकारात्तत्कनिष्ठभ्रात्राऽन्धकेन राज्यस्वीकरणम्, अन्धकेन ब्रह्माणमाराध्य वरं लब्ध्वा देवपराजयकरणम्, तत्पराजितेन शक्रेण शंकराराधनकरणम्, तेनाराधनेन तुष्टेन शंकरेण अन्धकबोधनार्थं गणेशवीरभद्रादीनां प्रेषणम् , गणेशवीरभद्रादीनां वाक्यं निशम्य ब्रह्मदत्तवरप्रदानोद्धतेनान्धकासुरेण शंकराज्ञावमाननवर्णनम्.......... २६४ १

२२९ ततः क्रुद्धेन शंकरेण वृषमारुह्यान्धकासुरेण सह युद्धं कर्तुममरावत्यामागमनम्, तत्रांधकासुरेण युद्धं कृत्वा तेनान्धकासुरेण कृतया प्रार्थनया भृंगिरिटीतिनाम्ना शैवगणगणनायां निवेशनकरणम्, भृंगिरिट्युत्पत्तिवर्णनम्.... २६५ १
 
२३० स्वपितुरंधकस्य स्थितिं ज्ञात्वा तत्पुत्रेण वृकेण हाटकेश्वरे तपश्चर्याकरणम्, तत्तपसा तुष्टेन ब्रह्मणा तस्मै जरामरणवर्जितत्त्वरूपवरप्रदानम्, ततः शुक्रवचनात्सेन्द्रा-न्देवान्विजित्य तेषुतेषु देवाधिकारस्थानेषु दैत्यान्संस्थाप्य स्वयं वृकेण शक्राधि-कारस्थाने स्वात्मानं संस्थाप्य त्रैलोक्यस्य राज्यकरणम्.. . २६६ १

२३१ वृकस्य सांकृतिमहर्षिदत्तशापात्पंगुत्वप्राप्तिवर्णनम्, ततो वृकेण ब्रह्मदत्तवरेण सांकृति-महर्षिद्वारा चातुर्मास्ये नैव पंगुत्वमित्यादिवरप्रदानम्, कस्मिंश्चित्प्रावृषि लब्ध-पादो वृकासुर आयास्यतीति भिया शक्रेण बृहस्पतये सर्ववृत्तान्तकथनम्, बृहस्पति-वचनाद्देवानां चातुर्मास्ये प्राप्ते क्षीराब्धौ गमनम्, शक्रेण तत्र क्षीराब्धौ तपस्तप्त्वा विष्णोः प्रबोधनकरणम् , शक्रादिदेवानां दुःखनिवारणाय शेषशायिनो हाटकेश्वरे गमनम्, तत्र गत्वा तेन जलशायिना वृकोपरि शयनकरणेन वृकस्याचलनाच्छक्रस्याखण्डराज्यसुखप्राप्तिवर्णनम्, कार्तिकशुक्लैकादशीव्रत माहात्म्यवर्णनम् २६६ २

२३२ चातुर्मास्यकर्तव्यनियमव्रतहोमजपदानादिफलकथनम्.........२६८ १

२३३ ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये प्रातःस्नानमाहात्म्यवर्णनम् । ततोऽपि गंगोदक-स्नानफलमाहात्म्यवर्णनम्............. २६९ २

२३४ स्नानोत्तरं पितृतृप्तये पितृतर्पणफलकथनम्, ततो जपहोमादिकर्मोत्तरं गोविन्द-नामस्मरणफलम्, चातुर्मास्यावश्यकनियमविधिवर्णनम्...... २७० १

२३५ अन्नोदकमणिरत्नप्रवालरूप्यसुवर्णवत्सगोदानानां फलकथनम्, वेदपठनफलकथनम्, चातुर्मास्यादिहोमफलम्, आज्यदानवम्रदानघृतदानानां माहात्म्यकथनम् , दुग्ध-तक्रदानफलकथनम्, वस्त्रदानादिना सोमलोकादिलोकप्राप्तिकथनम्, चातुर्मास्य-दानमहिमवर्णनम्... ............. २७० २

२३६ चातुर्मास्ये त्याज्यग्राह्यभोजनपात्रनिर्णयकरणम्, त्याज्यात्याज्यवस्त्रधान्यवस्तुवि-चारफलवर्णनम्, असत्यभाषणादित्यागफलम्, इष्टवस्तुपरित्यागफलकथनम् .. २७१ १
 
२३७ विष्णुसंनिधौ विधिनिषेधकर्तव्यकालनिर्णयकरणम्, अर्घ्यमंत्रकथनपूर्वकार्घ्यदानफल-कथनम्, विष्णुव्रतानां मध्ये ब्रह्मचर्यव्रतस्य श्रेष्ठत्ववर्णनम्, चातुर्मास्ये विशेषेण पालनीयधर्माधर्मनियमविवेचनम्........ २७१ २

२३८ चातुर्मास्ये विष्णुपूजनादितपःफलवर्णनम्, त्रिकालविष्णुपूजाकरणफलवर्णनम्, इन्द्रियनिग्रहादिनियमवर्णनम्, केवलं दुग्धाहारकारिणः फलकथनम् , तपो-महिमवर्णनम्... .......... .... २७२ २

२३९ विष्णुपूजायां षोडशोपचारविवेचनकरणे सृष्ट्युत्पत्त्यादिकथनम्, चातुर्वेद्येषु षोडशर्चात्मकपुरुषसूक्तपठनफलकथनम्, विष्णुध्यानपद्धतिवर्णनम्, ॐकारपूर्वक प्रत्येकपुरुषसूक्तस्थमन्त्रेणावाहनादिषोडशोपचारपूजाक्रमवर्णनम् , तपोऽधिकार-वर्णनपूर्वकं षोडशोपचारपूजामाहात्म्यवर्णनम्, दीपदानमहिमवर्णनम् . २७३ २

२४० दीपदानादिसायुज्यचिन्तनान्तभक्तिनिरूपणम्......... २७४ २
 
२४१ चातुर्मास्ये भगवत्षोडशोपचारपूजनादितपःकर्मणि सच्छूद्राद्यधिकारविचारप्रसंगे सच्छूद्रशब्दव्याख्याविवेचनकरणम्, तपोऽधिकारे सच्छूद्रकथनम्... रे७५ १

२४२ अष्टादशप्रकृतीनां नामवर्णनपुरःसरं तासां धर्मकथनम्, तत्र ब्रह्मण उत्पत्तिकथनम्, विष्णुना ब्रह्मणे सृष्टिवृद्धिकरणार्थमादेशकरणम्, नभोवाणीश्रवणाद्ब्रह्मणा तपः-करणम्, चातुर्वर्ण्योत्पत्तिवर्णनम्, तेषां कर्माधिकारित्ववर्णनम्, शूद्रान्तर्गत-बहुविधभेदविवरणम्, तेषां धर्माधर्मविवेचनम्, विष्णुभक्तिमाहात्म्यवर्णनम्... २७६ १

२४३ शूद्रजातिवर्णने पैजवनशूद्रोपाख्याने पैजवनस्य गृहे गालवर्षेरागमनम्, गालवस्य पैजवनकृतबह्वातिथ्यसत्कारवर्णनम्, गालवेन तुलसीमंजर्यादिमाहात्म्यकथनम्, शालिग्रामशिलापूजनमाहात्म्यवर्णनम्............ २७७ १

२४४ गालवपैजवनसंवादे भगवतः केशवादिचतुर्विंशतिनामभेदपूर्वकपूजनक्रमविधि-वर्णनम्, शालिग्राममूर्तिभेदवर्णनम्, शालिग्रामशिलासु मूर्त्युत्पत्तिवर्णनम्... २७८ २ २४५ गण्डक्यां शालिग्रामशिलोत्पत्तिवृत्तान्तवर्णने दाक्षायण्या हिमालयसुतात्वप्राप्ति-वर्णनम्, शिवपार्वतीविवाहवर्णनम्, कामकृतशिवस्तुतिवर्णनम्, तारकासुर-प्रभृतिदैत्यैः पीडितानां सेन्द्रादिदेवानां ब्रह्माज्ञया शिवदर्शनार्थं मन्दराचले गमनम्.. ................ २७८ २

२४६ शिवपार्वत्यो रहसि रतिक्रीडासमये देवप्रेषितवह्नेस्तत्रागमनम्, शिवदत्तं वीर्यं प्राश्य वह्नौ गते पार्वत्या स्वस्या रतिश्रमवैफल्यं दृष्ट्वा 'शिला भवत इति सर्वेषां दिवौकसां शापप्रदानम्.......... ...... २८० १

२४७ कस्मिंश्चित्समये दैत्यपराजितानां देवानां ब्रह्मलोके गमनम्, ततो ब्रह्मेन्द्रसंवादे रुद्रेण विष्णुगणैः सह स्वकीयानामैक्यं कर्तुं हरिहरार्धरूपधारणम्, तत्रैकस्मिन्देहे विष्णोर्वैनतेयादीनां शिवस्य वृषभादीनां चिह्नानामपि दशर्नकरणम्, विष्णुशिव-स्वरूपस्यैकत्रदर्शनेन पाखंडिभिर्विस्मयकरणम्, मन्दरे देवैर्महेशविष्णुसंयुक्तायाः पापनाशिन्या मूर्तेः स्थापनम्, वह्निप्रमुखदेवानां मन्दरे विल्ववृक्षस्थां पार्वतीं तुलसीमञ्जरीस्थां लक्ष्मीं च दृष्ट्वा सर्वेषां 'शापमुक्तिवर्णनम्, अकस्मादाकाश-वाण्या देवानुद्दिश्याश्वत्थोत्पत्तिपूर्वकाश्वत्थमहिमवर्णनम्... २८० २

२४८ नभोवाण्या पलाशमाहात्म्यवर्णनम्, तत्र प्रतिदलेषु ब्रह्मादिदेवतानां स्थापना-वर्णनम् ......... ... २८१ २

२४९ तुलसीरोपणफलकथनम्, तुलसीदर्शनतुलसीपत्रभक्षणफलकथनम्, तुलस्याः प्रति-पर्णेषु देवतानां स्थापनवर्णनम्, ुलसीशुष्ककाष्ठधारणमाहात्म्यम, सर्वेन्द्रियेषु तुलसीवासकरणेन फलप्राप्तिकथनम्, तुलसीमाहात्म्यवर्णनम्...... २८२ १
 
२५० जयापार्वतीसंवादे बिल्वोत्पत्तिवर्णने विल्ववृक्षस्य दर्शनस्पर्शनसेवनादिफलकथनम् , बिल्ववृक्षस्य प्रत्यवयवेषु भिन्नभिन्नदेवतानां स्थापनादिवर्णनम्, विल्ववृक्षस्य कंटकस्थदेवतानां वर्णनम्, बिल्वोत्पत्तिवर्णनम्... ....... २८२ १

२५१ नभोवाण्यां विरतायां बिल्वाश्वत्थपलाशतुलस्याख्यचतुर्वृक्षाणां चातुर्मास्ये सेन्द्रै-देंवैः पूजनकरणम्, तुष्टेन हरिहरात्मकेनेश्वरेण दैत्याञ्जित्वा देवान्प्रति स्वस्वस्थाने गन्तुमाज्ञाकरणम्, ततो देवैर्देवीदत्तशापं स्मृत्वा तच्छापनिवृत्त्यर्थं माहेश्वरी-पूजनेन माहेश्वरीस्तवनेन च देवानां गंडकीनद्यामेव शालिग्रामेति नाम्ना शिला-त्वप्राप्तिवर्णनम्, शालिग्रामशिलामाहात्म्यवर्णनम्.... ... २८२ २
 
२५२ चातुर्मास्ये तिलदानमाहात्म्यवर्णनम्, चतुर्षु वृक्षेषु देवतानां स्थापनम्, अन्येषु प्रत्येकैकवृक्षविशेषेषु शक्रवरुणयमकुबेरादीनां देवानां यथानुक्रमेण स्थापनम्, वृक्ष-माहात्म्यवर्णनम्................... २८३ २

२५३ शंकरकृतपार्वत्यनुनयवर्णनम्............... २८४ २
 
२५४ चातुर्मास्ये देवानां मन्दराचले ब्रह्मचर्यव्रतपरस्य हरस्याग्रे गमनम्, ततो हरेण पार्वतीसंतोषणार्थं मम साहाय्यार्थमागन्तव्यम् इत्युक्ते तदुक्तं स्वीकृत्य देवानां स्वंस्वं निकेतनं प्रति गमनम्, तत आषाढशुक्लचतुर्दश्यां भवानीतोषणाय हरेण नृत्यकरणम्, तत्र नृत्यप्रसंगे मन्दरे ब्रह्मादीनां देवानां नारददेवलव्यासादीनां महर्षीणां चागमनम्, तस्मिन्समये हरेण चिन्तितानां श्रीरागादिरागाणां च तत्रागमनम्, तत्र हरनृत्ये प्रवर्तमाने नारदादिभिर्ब्रह्मादिभिश्च साहाय्यकरणम्, हरनृत्येन तुष्टया पार्वत्या हरस्तोत्रकरणम्, हरताण्डवनर्तनवर्णनम्... २८५ १

२५५ लक्ष्मीनारायणमहिमवर्णनम् .... २८७ १

२५६ शिवपार्वतीसंवादे चातुर्मास्ये विष्णोर्द्वादशाक्षरमंत्रजपस्य रामेति द्व्यक्षरमंत्रजपस्य च माहात्म्यवर्णनम्. ............. २८८ १

२५७ ईश्वरपार्वतीसंवादे शंकरेण द्वादशाक्षरमाहात्म्यवर्णनम्, शिववचनात्पार्वत्या तप-श्चरणवर्णनम्.......... .. २८९ १

२५८ तपः कर्तुं गतायां पार्वत्यां कामाकुलितस्य शिवस्य स्नानार्थं यमुनायां गमनम्, तत्र शिवकृतस्नानेन तन्नीरस्य हरकायात्कृष्णत्वप्राप्तिं दृष्ट्वा दुःखितया यमुनया शिवस्तवनकरणम् , यमुनाप्रार्थनया हरेण हरतीर्थस्थापनम्, केनचित्कारणान्तरेण विप्रस्त्रीतः शापं प्राप्तेन शिवेन कैलासं गत्वा देवीस्तोत्रकरणम्... . २८९ २

२५९ विप्रस्त्रीभिर्दत्तेन हरस्य शापेन दुःखितानां देवानां हरसमीपे गमनम् , ततोऽमर-कण्टकतीर्थस्थापनं तन्माहात्म्यवर्णनं च तत्र देवैर्नीलवृषस्थापनम्, नीलवृष-स्तुतिकरणम्......... .... २९० २

२६० चातुर्मास्यकथासंक्षेपसारांशकथनम्... ......... .. २९२ १
 
२६१ कार्तिकस्वामिजन्मकथनम्, षडाननस्य शंकरपार्वत्यौ नत्वा नदनदीपतीस्तीर्त्वा विमा-नमारुह्य गमनम्, ततः शिवस्य विष्णुदर्शनार्थं प्लक्षादिसप्तद्वीपसमुद्रानतीत्य विष्णुं दृष्ट्वा विष्णुस्तवनम् , तत्प्रसंगेन ध्यानयोगवर्णनम्......... २९२ १

२६२ पार्वत्या ध्यानयोगं प्राप्य ज्ञानयोगं प्राप्तुं शिवस्य प्रार्थनायां कृतायां तेन शिवेन द्वादशाक्षरमंत्रेण ज्ञानयोगप्राप्तिकथनम्, द्वादशाक्षरमंत्रस्य प्रत्यक्षरबीजवर्णनम्, विष्णुस्वरूपवर्णनम्, भगवद्विराट्स्वरूपवर्णनम् , ज्ञानयोगकथनम्...... २९३ २
 
२६३ शिवेन पार्वत्यै मन्त्रोपदेशकरणम्, योगिषुरुषाणां मुख्यसारतत्त्ववर्णनम्, पार्वत्यु-त्संगस्थितस्य मत्स्यजातस्य सुतस्य मत्स्येन्द्रनाथेति शिवेन नामाभिधानकरणम्, मत्स्येन्द्रनाथोत्पत्तिवर्णनम् .............. २९५ १

२६४ तारकासुरपीडितदेवानां प्रार्थनया कार्तिकेयस्य देवसेनाधिपत्येऽभिषेकपूर्वकं तारका-सुरेण सह युद्धवर्णनम्, तत्र तारकासुरवधवर्णनम्, देवैः कार्तिकेयस्तवकरणम् २९६ २

२६५ भीष्मपञ्चकमाहात्म्यवर्णनम्, भीष्मंपञ्चकपूजनपद्धतिवर्णनम् , तत्र भगवत्प्रार्थनाव-र्णनम्, अशून्यशयनव्रतमाहात्म्यवर्णनम् .......... २९७ १

२६६ मंकणेश्वरर्तार्थमाहात्म्यवर्णनम्, शिवरात्र्यां कस्यचिच्चौरस्य देवालये जागरार्थं प्राप्तानां स्त्रीपुरुषाणां धनहरणार्थं गत्वा तत्समीपस्थितकर्णिकारद्रुममारुह्यावस्थितिकर-णम्, तस्य कर्णिकारवृक्षस्याधस्तात्स्थितस्य धरोद्भूतस्य शिवलिंगस्योपरि तेन
चौरेणाज्ञानात्कर्णिकारवृक्षपत्राणां हस्तेन विच्छिद्य प्रक्षेपणम्, तस्यां रात्रौ पर-धनजिहीर्षयाप्यनायासेन तस्य जागरणम्, तेन ज्ञानं विनापि जायमानेन शिव-पूजनेन तस्य चौरस्य चौरभावाद्विमुक्तिः शुद्धसात्त्विकस्वभावताप्राप्तिश्च, तत-स्तेन शुद्धमनसा शिवपूजाकरणम्, तत्प्रसंगेन शिवपूजाविधिकथनम्, शिवरात्रि-पूजनजागरादिमाहात्म्यवर्णनम्, ततः पञ्चत्वं गतस्य चौरस्य दशार्णाधिपतेः कुले तत्पुण्यप्रभावेण जननम्, तस्य राज्यप्राप्तिवर्णनम्, दशार्णाधिपतेर्गृहे शांडिल्यपु-लस्त्यादिमहर्षीणामागमनम्, ऋषिभी राज्ञे मङ्गलाशीर्वादादिदानम्, शिवरा-त्रिमाहात्म्यवर्णनं च................... २९८ १

२६७ सिद्धेश्वरमाहात्म्यवर्णनम्, तुलापुरुषदानकालनिर्णयः, तुलापुरुषदानविधिवर्णनम् , तुलापुरुषदानमाहात्म्यवर्णनम्.......... ... ३०० १

२६८ चक्रवर्तित्वप्रापकोपायकथनम्, तत्र हिरण्मयीभूमिदानस्य समन्त्रकसाग्रविधिकथ-नम्, भूदानफलमाहात्म्यकथनम्, गौतमेश्वरमाहात्म्यकथनम्.... ३०१ १

२६९ इन्द्रस्थापितकपालेश्वरमाहात्म्यवर्णनम्, तत्र वृत्रासुरजन्म, राज्यप्राप्त्याद्यनन्तरं वृत्रा-सुरहननेन ब्रह्महत्याव्याकुलितस्य शक्रस्य ब्रह्महत्यादोषदूरीकरणार्थं ब्रह्मवाक्यो-परि विश्वस्याष्टषष्टिषु तीर्थेषु गमनम्, इन्द्रस्य हस्ताद्विश्वामित्रह्रदे कपालपतना-द्ब्रह्महत्यानिवारणम्, तत्रैव लिंगस्थापनम्, तस्य माहात्म्यवर्णनम्, तत्रैव वात-कब्राह्मणस्थापितवातकेश्वरोत्पत्तिपूर्वकमाहात्म्यवर्णनं च...... ३०१ २

२७० प्रायश्चित्तमकुर्वतां जनानां कथ पापनुक्तिरित्याद्यानर्तराजप्रश्ने भर्तृयज्ञेन स्वर्णनिर्मित- पापपिंडप्रदानफलकथनम्, तत्र मण्डपादिकं विधाय पृथ्व्यादिदेवानामासमन्ता- त्स्थापनवर्णनम् , समन्त्रकपूजाविधिकथनम्, पापपिंडदानोदर्ककथनम्... ३०५ १
 
२७१ इन्द्रद्युम्नेश्वरमाहात्म्यवर्णनप्रसङ्गेनेन्द्रद्युम्नस्य विष्णुप्रसादेन सदेहस्वर्गगमनवृत्तान्त- वर्णनम् , ब्रह्मलोकं गतस्येन्द्रद्युम्नस्य बहुकालं तत्र निवासानन्तरं ब्रह्मणा चिरका- लाद्भूमौ कीर्तेः पुनर्व्यक्तीकरणार्थमिन्द्रद्युम्नस्य भूलोकं प्रति प्रेषणम्, भूलोकं प्रत्यागतेनेन्द्रद्युम्नेन भूलोकस्थितस्य दीर्घजीविनो मार्कण्डेयस्य प्रश्नकरणम्, इन्द्रद्युम्नेन स्वकीर्तिंपरिज्ञानार्थं रोचकपुरसंबंधिवार्ता कथयितुमसमर्थाञ्जनान्दृष्ट्वा कांपिल्यपुरवासिवचनादिन्द्रद्युम्नस्य मार्कण्डेयेन साकं नाडीजंघबकसमीपे गम- नम् , नाडीजंघदर्शनेन समुत्सुकाभ्यामिन्द्रद्युम्नमार्कण्डेयाभ्यां स्वागमनकारण- कथनेन नाडीजंघेन स्वकीयवृत्तान्तकथनम्, तत्र प्राग्जन्मनि शापाद्बकत्वप्राप्त्यादि- कथनम् , प्रतिमकरसंक्रमणे लिंगोपरि घृताच्छादनेन तुष्टेन शिवेन बकाय वर- प्रदानवर्णनम्, ततो निराशस्येन्द्रद्युम्नस्य वार्ताविज्ञानार्थं नाडीजंघेनात्मनोऽप्यपे- क्षया दीर्घायुषः प्राकारकर्णनामकस्योलूकस्य समीपे मार्कण्डेयेन्द्रद्युम्नयोर्नयनम्, तेन प्राकारकर्णोलूकेनापीन्द्रद्युम्नवार्तानभिज्ञानकथनोत्तरमिन्द्रद्युम्नप्रश्ने. निजदीर्घा- युष्ट्वकारणकथनम्, निजवार्तानभिज्ञानादुदासीनस्येन्द्रद्युम्नस्य कृते नाडीजंघेनेन्द्र- द्युम्नवार्ताविज्ञानस्यावश्यकताप्रदर्शने प्राकारकर्णोलूकेनात्मनोऽपि दीर्घायुषो गन्ध- मादनस्थस्य गृध्रस्य समीपं प्रतीन्द्रद्युम्नमार्कण्डेयनाडीजंघबकानां नयनम्, तेन युध्रेणापीन्द्रद्युम्नवार्तानभिज्ञानवर्णनपूर्वकं निजदीर्घायुष्ट्वकारणवृत्तान्तकथनम्, नि- जवार्तानभिज्ञानादुदासीनस्येन्द्रद्युम्नस्याग्निप्रवेशोद्योगं दृष्ट्वा प्राकारकर्णप्रार्थ- नया गृध्रेणात्मनोऽपि दीर्घायुषो मानससरोनिवासिनः कूर्मस्य समीपं प्रतीन्द्रद्युम्नमार्कण्डेयनाडीजंघप्राकारकर्णानां नयनम्, तत्र सरस्तीरे समा- गतानां तेषां मध्य इन्द्रद्युम्नं नृपं दृष्ट्वा कूर्मस्य तानसत्कृत्यैव जलमध्ये प्रवेश-करणम्, ततो गृध्रेण तस्मै जलप्रवेशकारणपृच्छायां तेन कूर्मेणेन्द्रद्युम्नस्य पूर्व-
समस्तवृत्तान्तकथनादिन्द्रद्युम्नस्य कीर्त्युद्धारे जाते सतीन्द्रद्युम्नोपरि देवैः पुष्प-वृष्टिकरणम्, ततस्तस्मिन्नेव समये देवदूतेन विमानमानीयेन्द्रद्युम्नं प्रति ब्रह्म-लोकं प्रति गमनाय प्रार्थनाकरणम्, इन्द्रद्युम्नेन ब्रह्मलोकं प्रति गन्तुं स्वस्या-निच्छां प्रदर्श्य कूर्मं प्रति तस्यैव दीर्घायुष्ट्वकारणजिज्ञासया प्रश्नकरणम्; कूर्मेण निजपूर्ववृत्तान्तकथनपूर्वकमिन्द्रद्युम्नादीनामातिथ्यकरणम्, ततः षड्भिस्तैर्लोमश-महर्षिणा सह समागमं कृत्वा लोमशस्य दीर्घायुष्ट्वकारणं ज्ञात्वा तैः सर्वैः सप्तभिः स्वस्वनाम्ना लिंगस्थापनम्, ततः सप्तलिंगोत्पत्तिवर्णनम्....... ३०५ २

२७२ आयुःप्रमाणवर्णने निमेषादारभ्य कृतादिचतुर्युगकालप्रमाणवर्णनम्, अग्निष्टोमादि-कर्मभिर्देवलोकब्रह्मलोकादिप्राप्तिवर्णनम्, चतुर्युगेपु लोकानां परिस्थितिधर्मादि-वर्तनवर्णनम्, तत्प्रसंगेन विशेषतः कलिकालनिर्णयकरणम् ...३१५ १

२७३ ब्रह्मविष्ण्वादीनामायुःप्रमाणवर्णनम्, चान्द्रसौरमासप्रमाणवर्णनम्, नाक्षत्रमास-प्रमाणकथनम् ,युगप्रमाणवर्णनम्.... .... ३१५ २

२७४ दुर्वाससः कथाप्रसंगे निंबशुचनामकस्य कस्यचिन्मठपतेरग्रतः स्थितां द्रव्यपूरितां मंजूषां ग्रहीतुं केनचिल्लुब्धकेन - तद्विश्वासार्थं निंबशुचशिष्यत्वं स्वीकृत्य कपटन वर्तनम्, त बहुकाले गते कस्मिंश्चित्समये शिष्येण सह निंबशुचस्य मुरलानद्यामागमनम्, तत्र स्वकंथां शिष्यहस्ते निधाय ततोऽतिदूरं मूत्रपुरीषोत्सर्गादिकं विधातुं निंबशुचस्य गमने तां कन्थां गृहीत्वा लुव्धकशिष्यस्य पलाय-नम्, निंबशुचाख्येन मठपतिना तज्ज्ञात्वा शोककरणम्, ततो दुःशीललुव्धकेन तद्द्रव्यसाहाय्येन व्यापारं कृत्वा दारपरिग्रहोत्तरं स्वस्यापुत्रत्वं दृष्ट्वा पुत्रप्राप्त्यर्थं भार्यया समं चमत्कारपुरे गमनम्, तत्र दुर्वाससा समागमं कृत्वा दुर्वाससं प्रति प्राक्कृतसर्वकपटादिस्वकीयगर्हितकर्म विनिवेद्य दुर्वासोवचसा दुःशीलेन दानादिकरणं स्वनाम्ना लिंगस्थापनं च, 'एवं तस्य लिंगस्य डुःशीलेश्वर-संज्ञाप्राप्तिकारणवृत्तान्तवर्णनम् , दुःशीलेश्वरदुर्वाससेश्वरयोर्माहात्म्यवर्णनम्.. ३१७ १

२७५ दुःशीलेन स्वगुरोर्निंबशुचस्योद्देशेन निंबेश्वरेतिनाम्ना लिंगस्थापनम्, ततो दुःशीलस्य भार्यया शाकंभरीनाम्न्या शाकंभरीदुर्गास्थापनम्, ततो दुःशीले पञ्चत्वं गते
दुःशीलभार्यया शाकंभर्या तेन दुःशीलेन सहाग्नौ प्रवेशकरणम्, दुःशीलेश्वरनिंबे-श्वरशाकंभर्युत्पत्तिवर्णनम्... . ३१९ २
 
२७६ एकादशरुद्रवर्णने हाटकेश्वरक्षेत्रं द्रष्टुमहमहमिकयैकादशमहर्षीणामागमनम्, तदा शिवेन सर्वेषां युगपद्दर्शनलाभार्थमेकादशरूपधारणम्, तदेकादशविधं शिवरूपं दृष्ट्वा मुनिभिः स्तुतिकरणम्, तत्रैवैकादशरुद्राणां स्थापनम्, एकादशरुद्रोत्पत्ति-माहात्म्यवर्णनम् .............. ३१९ २

२७७ एकादशरुद्राणां नामकीर्तनम् , एकादशरुद्रसमीपे दानमाहात्म्यवर्णनम.... ३२० २

२७८ द्वादशादित्यवर्णनप्रसंगेन ब्रह्मकृतयज्ञप्रस्तावे शक्रेण ब्रह्मपत्नीत्वेन कर्तुं गोपकन्याया गोवक्त्रेण निष्कास्यानयनम् , गायत्रीब्रह्मणोर्विवाहोत्तरं सावित्र्या आगमनम्, ततः पितामहस्यसावित्रीदत्तशापेन शुनःशेपप्रपौत्रस्य चारायणस्य गृहे याज्ञवल्क्येतिना-म्नाजन्मग्रहणम् ,परस्त्रीलम्पटत्वरूपदुर्व्यसनार्तं तं दृष्ट्वा तस्य याज्ञवल्क्यस्य पिता-महेन चारायणेन याज्ञवल्क्यस्य स्वाश्रमान्निःसारणम्, ततः शाकल्यस्य शिष्यत्वं प्राप्य तस्य गृहे निवासकरणम्, ततः कदाचिच्छिष्यानुक्रमेणैकदा तस्य याज्ञ-वल्क्यस्य राजगृहे शांतिपूर्वकमाशीःप्रदानार्थ गमने राज्ञाऽपमानकरणम् , ततः पश्चात्तापवता राज्ञा पुनरपरेद्युस्तस्य याज्ञवल्क्यस्यैव राजमंदिरेप्रेषणार्थं प्रार्थनायां कृतायां राजगृहे गन्तुं तस्य याज्ञवल्क्यस्य गुरुणाज्ञाकरणम्, तां गुर्वाज्ञामुल्लंघ्य याज्ञवल्क्यस्य तस्य राज्ञो गृहे गमननिषेधनम् , ततो याज्ञवल्क्येन क्रुद्धस्य तस्य गुरोरतिनिर्बंधात्तस्मादधीतां विद्यां वमनेन निरुद्गीर्य गुरवे तद्विद्याया निवेदनम्,
ततो विद्याप्राप्त्यर्थं सूर्याराधनाकरणम्, ततः सूर्यतो विद्यां लब्ध्वा सूर्यं संमान्य सूर्याज्ञापालनं प्रतिज्ञाय शाकल्यगुरुसमीपेगुरुदक्षिणां दातुं याज्ञवल्क्यस्यागमनम्, ततः सूर्यप्राप्तां विद्यां गुरुदक्षिणात्वेन शाकल्याय कथयित्वा सशिष्येण शाकल्येन समं याज्ञवल्क्यस्य द्वादशादित्यसंनिधौ गमनम्, द्वादशादित्योत्पत्तिरत्नादित्योत्प-त्तिमाहात्म्यवर्णनपूर्वकं याज्ञवल्क्यवृत्तान्तवर्णनम्......... ३२१ १
 
२७९ स्कान्दमहापुराणागमपरंपराकथनम्, तत्र नागरखण्डोपसंहारवर्णनम्, नागरखण्ड-वैभववर्णनम्, नागरखण्डफलश्रुतिकथनम्, गुरुशिष्याधिकारवर्णनम्, पौरा-णिकव्यासाधिकारवर्णनम्. .. ...... -... ३२४ १ ।।

इति श्रीस्कान्दे महापुराणे षष्ठं नागरखण्डम् ।। ६ ।।