स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २५९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ गालव उवाच ॥ ॥
तस्मिंस्तु पतिते लिंगे योजनायामविस्तृते॥
विषादार्त्ता ऋषिगणास्तत्राजग्मुः सहस्रशः ॥ १ ॥
व्यलोकयन्त सर्वत्र दृष्ट्वा तत्र महेश्वरम्॥
नासौ दृष्टिपथे तेषां बभूव भयविह्वलः ॥ २ ।१
वीर्यं वर्षसहस्राणि बहून्यपि सुसंचितम् ॥
पृथिवीं सकलां व्याप्य स्थितं ददृशिरे द्विजाः ॥३॥
तद्दृष्ट्वा सुमहल्लिंगं रुधिराक्तं जलैः प्लुतम् ॥
ब्राह्मणाः संशयगता दह्यमाना वसुन्धरा ॥ ४ ॥
तल्लिंगं तत्र संस्थाप्य चक्रुस्तां नर्मदां नदीम् ॥
तज्जलं नर्मदारूपं ल्लिंगं चामरकण्टकम्॥५..
नरकं वारयत्येतत्सेवितं नरकापहम्॥
भूतग्रहाश्च सर्वेऽपि यास्यंति विलयं ध्रुवम्॥६॥
तत्र स्नात्वा जलं पीत्वा संतर्प्य च पितॄंस्तथा।.
सर्वान्कामानवाप्नोति मनुष्यो भुवि दुर्लभान्॥७॥
लिंगानि नार्मदेयानि पूजयिष्यंति ये नराः॥
तेषां रुद्रमयो देहो भविष्यति न संशयः॥
चातुर्मास्ये विशेषेण लिंगपूजा महाफला॥
चातुर्मास्ये रुद्रजपं हरपूजा शिवे रतिः॥ ९॥
पंचामृतेन स्नपनं न तेषांगर्भवेदना ॥
ये करिष्यंति मधुना सेचनं लिंगमस्तके ॥ ६.२५९.१० ॥
तेषां दुःखसहस्राणि यास्यंति विलयं ध्रुवम् ॥
दीपदानं कृतं येन चातु र्मास्ये शिवाग्रतः ॥ ११ ॥
कुलकोटिं समुद्धृत्य स्वेच्छया शिवलोकभाक् ॥
चन्दनागुरुधूपैश्च सुश्वेतकुसुमैरपि ॥ १२ ॥
नर्मदाजललिंगं ये ह्यर्च यिष्यंति ते शिवाः ॥
शिला हरत्वमापन्नाः प्राणिनामपि का कथा ॥ १३ ॥
तत्संभूतं महालिंगं जलधारणसंयुतम् ॥
पूजयित्वा विधानेन चातुर्मास्ये शिवो भवेत् ॥ १४ ॥
चातुर्मास्ये ये मनुजा नर्मदाऽमरकण्टके ॥
तीर्थे स्नास्यंति नियतास्तेषां वासस्त्रिविष्टपे ॥ १५ ॥ ॥
॥ ब्रह्मोवाच ॥ ॥
इत्युक्त्वा ते द्विजास्तत्र स्थाप्य लिंगं यथाविधि ॥
अमरकण्टकतीर्थे नर्मदां च महानदीम् ॥ १६ ॥
पुनश्चिन्तापरा जाता विश्वस्य क्षोभकारणे ॥
पद्मासनगता भूत्वा प्राणायामपरायणाः ॥ १७ ॥
चिन्तयामासुरव्यग्रं हृदयस्थं महे श्वरम् ॥
ततो देवा महेंद्राद्याः संप्राप्यामरकण्टकम् ॥ १८ ॥
ब्राह्मणानां स्तुतिं चक्रुर्विनयानतकन्धराः ॥
नमोऽस्तु वो द्विजातिभ्यो ब्रह्मविद्भ्यो महेश्वराः ॥ १९ ॥
भूसुरेभ्यो गुरुभ्यश्च विमुक्तेभ्यश्च वंधनात् ॥
यूयं गुणत्रयातीता गुणरूपा गुणाकराः ॥ ६.२५९.२० ॥
गुणत्रयमयैर्भावैः सततं प्राणबुद्बुदाः ॥
येषां वाक्यजलेनैव पापिष्ठा अपि शुद्धताम् ॥
प्रयांति पापपुंजाश्च भस्मसाद्यांति पापिनाम् ॥ २१ ॥
शस्त्रं लोहमयं येषां वागेव तत्समन्विताः ॥
पापैः पराभिभूतानां तेषां लोकोत्तरं बलम् ॥ २२ ॥
क्षमया पृथिवीतुल्याः कोपे वैश्वानरप्रभाः ॥
पातनेऽनेकशक्तीनां समर्था यूयमेव हि ॥ २३ ॥
स्वर्गादीनां तथा याने भवन्तो गतयो ध्रुवम् ॥ २४ ॥
सत्कर्मकारकाश्चैव सत्कर्मनिरताः सदा ॥
सत्कर्मफलदातारः सत्कर्मेभ्यो मुमुक्षवः ॥ २५ ॥
सावित्रीमंत्रनिरता ये भवंतोऽघनाशनाः ॥
आत्मानं यजमानं च तारयंति न संशयः ॥ २६ ॥
वह्नयश्च तथा विप्रास्तर्पिताः कार्यसाधकाः ॥
चातुर्मास्ये विशेषेण तेषां पूजा महाफला ॥ २७ ॥
कोपिताः सर्वदेहस्य नाशनाय भवंति हि १।
तावन्न वज्रमिंद्रस्य शूलं नैव पिनाकिनः ॥ २८ ॥
दण्डो यमस्य तावन्नो यावच्छापो द्विजोद्भवः ॥
अग्निना ज्वाल्यते दृश्यं शापोद्दिष्टानपि स्वयम् ॥ २९ ॥
हंति जातानजातांश्च तस्माद्विप्रं न कोपयेत्॥
विप्रकोपाग्निना दग्धो नरकान्नैव मुच्यते ॥ ६.२५९.३० ॥
शस्त्रक्षतोऽपि नरकान्मुच्यते नात्र संशयः ॥
देवानां मधुधान्यानां सामर्थ्यं भेदनेन हि ॥ ३१ ॥
वाङ्मात्रेण हि विप्रस्य भिद्यते सकलं जगत् ॥
ते यूयं गुरवोऽस्माकं विश्वकारणकारकाः ॥
प्रसादपरमा नित्यं भवंतु भुवनेश्वराः ॥ ३२ ॥
ईश्वरेण विना सर्वे वयं लोकाश्च दुःखिताः ॥
तत्कथ्यतां स भगवान्कुत्रास्ते परमेश्वरः ॥ ३३ ॥ ॥
गालव उवाच ॥ ॥
ज्ञात्वा मुनिभयत्रस्तं देवेशं शूलपाणिनम् ॥ ३४ ॥
सुरभीगर्भसंभूतं देवानूचुर्महर्षयः ॥ स्वा
गतं देवदेवेभ्यो ज्ञातो वै स महेश्वरः ॥ ३५ ॥
तत्र गच्छंतु देवेशा यत्र देवः सनातनः ॥
इत्युक्त्वा ते महात्मानः सह देवैर्ययुस्तदा ॥ ३६ ॥
गोलोकं देवमार्गेण यत्र पायसकर्दमाः ॥
घृतनद्योमधु ह्रदा नदीनां यत्र संघशः ॥ ३७ ॥
पूर्वजानां गणाः सर्वे दधिपीयूषपाणयः ॥
मरीचिपाः सोमपाश्च सिद्धसंघास्तथा परे ॥ ३८ ॥
घृतपाश्चैव साध्याश्च यत्र देवाः सनातनाः ॥
ते तत्र गत्वा मुनयो ददृशुः सुरभीसुतम् ॥ ३९ ॥
तेजसा भास्करं चैव नीलनामेति विश्रुतम् ॥
इतस्ततोऽभिधावंतं गवां संघातमध्यगम् ॥ ६.२५९.४० ॥
नंदा सुमनसा चैव सुरूपा च सुशीलका ॥
कामिनी नंदिनी चैव मेध्या चैव हिरण्यदा ॥ ४१ ॥
धनदा धर्मदा चैव नर्मदा सकलप्रिया ॥
वामनालंबिका कृष्णा दीर्घशृंगा सुपिच्छिका ॥ ४२ ॥
तारा तरेयिका शांता दुर्विषह्या मनोरमा ॥
सुनासा दीर्घनासा च गौरा गौरमुखीह या ॥ ४३ ॥
हरिद्रवर्णा नीला च शंखिनी पंचवर्णका ॥
विनताभिनताचैव भिन्नवर्णा सुपत्रिका ॥ ४४ ॥
जयाऽरुणा च कुण्डोध्नी सुदती चारुचंपका ॥
एतासां मध्यगं नीलं दृष्ट्वा ता मुनिदेवताः ॥४५॥
विचरंति सुरूपं तं संजातविस्मयोन्मुखाः ॥
मुनीश्वराः कृपाविष्टा इन्द्राद्या हृष्टमानसाः ॥
स्तुतिमारेभिरे कर्त्तुं तेजसा तस्य तोषिताः ॥ ४६ ॥ ॥
॥ शूद्र उवाच ॥ ॥
कथं नीलेति नामासौ जातोयमद्भुताकृतिः ॥
किमस्तुवन्प्रसन्नास्ते ब्राह्मणा विश्वकारणम् ॥ ४७ ॥
॥ गालव उवाच ॥ ॥
लोहितो यस्तु वर्णेन मुखे पुच्छे च पांडुरः ॥ ४८ ॥
श्वेतः खुरविषाणेषु स नीलो वृषभः स्मृतः ॥
चतुष्पादो धर्मरूपो नील लोहितचिह्नकः ॥ ४९ ॥
कपिलः खुरचिह्नेषु स नीलो वृषभः स्मृतः ॥
योऽसौ महेश्वरो देवो वृषश्चापि स एव हि ॥ ६.२५९.५० ॥
चतुष्पादो धर्मरूपो नीलः पंचमुखो हरः ॥
यस्य संदर्शनादेव वाजपेयफलं लभेत् ॥ ५१ ॥
नीले च पूजिते यस्मिन्पूजितं सकलं जगत् ॥
स्निग्धग्रासप्रदानेन जगदाप्यायितं भवेत् ॥ ५२ ॥
यस्य देहे सदा श्रीमान्विश्वव्यापी जनार्दनः ॥
नित्यमर्चयते योऽसौ वेदमन्त्रैः सनातनैः ॥ ५३ ॥
॥ ऋषय ऊचुः ॥ ॥
त्वं देवः सर्वगोप्तॄणां विश्वगोप्ता सनातनः ॥
विघ्नहर्ता ज्ञानदश्च धर्मरूपश्च मोक्षदः ॥५४॥
त्वमेव धनदः श्रीदः सर्वव्याधिनिषूदनः ॥
जगतां शर्मकरणे प्रवृत्तः कनकप्रदः ॥ ५५ ॥
तेजसां धाम सर्वेषां सौरभेय महाबल ॥
शृंगाग्रे धृतकैलासः पार्वतीसहितस्त्वया ॥ ५६ ॥
३३ स्तुत्यो वेदमयो वेदात्मा वेदवित्तमः ॥
वेदवेद्यो वेदयानो वेदरूपो गुणाकरः ॥ ५७ ॥
गुणत्रयेभ्योऽपि परो याथात्म्यं वेद कस्तव ॥
वृषस्त्वं भगवान्देव यस्तुभ्यं कुरुते त्वघम् ॥ ५८ ॥
वृषलः स तु विज्ञेयो रौरवादिषु पच्यते ॥
यदा स्पृष्टः स तु नरो नरकादिषु यातनाः ॥ ५९ ॥
सेवते पापनिचयैर्निगाढप्रायबन्धनैः ॥
क्षुत्क्षामं च तृषाक्रांतं महाभारसमन्वितम् ॥ ६.२५९.६० ॥
निर्दया ये प्रशोष्यंति मतिस्तेषां न शाश्वती ॥
चतुर्भिः सहितं मर्त्या विवाहविधिना तु ये ॥ ६१ ॥
विवाहं नीलरूपस्य ये करिष्यंति मानवाः ॥
पितॄनुद्दिश्य तेषां वै कुले नैवास्ति नारकी ॥ ॥ ६२ ॥
त्वं गतिः सर्वलोकानां त्वपिता परमेश्वरः ॥
त्वया विना जगत्सर्वं तत्क्षणादेव नश्यति ॥ ६३ ॥
परा चैव तु पश्यंती मध्यमा वैखरी तथा ॥
चतुर्विधानां वचसामीश्वरं त्वां विदुर्बुधाः ॥ ६४ ॥
चतुःशृंगं चतुष्पादं द्विशीर्षसप्तहस्तकम् ॥
त्रिधा बद्धं धर्ममयं त्वामेव वृषभं विदुः ॥ ६५ ॥
तृप्तिदं सर्वभूतानां विश्वव्यापकमोजसा ॥
ब्रह्म धर्ममयं नित्यं त्वामात्मानं विदुर्जनाः ॥ ६६ ॥
अच्छेद्यस्त्वमभेद्यस्त्वमप्रमेयोमहा यशाः ॥
अशोच्यस्त्वमदाह्योऽसि विदुः पौराणिका जनाः ॥ ६७ ॥
त्वदाधारमिदं सर्वं त्वदाधारमिदं जगत् ॥
त्वदाधाराश्च देवाश्च त्वदाधारं तथा मृतम् ॥ ६८ ॥
जीवरूपेण लोकांस्त्रीन्व्याप्य तिष्ठसि नित्यदा ॥
एवं स संस्तुतो नीलो विप्रैस्तैः सोमपायिभिः ॥ ६९ ॥
प्रसन्नवदनो भूत्वा विप्रा न्प्रणतितत्परः ॥
पुनरेव वचः प्रोचुर्विप्राः कृतशिवागसः ॥ ६.२५९.७० ॥
वरं ददुर्महेशस्य नीलरूपस्य धर्मतः ॥
एकादशाहे प्रेतस्य यस्य नोत्सृज्यते वृषः ॥ ७१ ॥
प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥
पुनरेव सुसर्पंतं दृष्ट्वा नीलं महावृषम् ॥ ७२ ॥
स्वल्पक्रोधसमाविष्टं द्विजाश्चक्रुस्तमं कितम् ॥
चक्रं च वामभागेषु शूलं पार्श्वे च दक्षिणे ॥ ७३ ॥
उत्ससृजुर्गवां मध्ये तं देवैर्गोपितं तदा ॥
ततो देवगणाः सर्वे महर्षीणां गणाः पुनः ॥
स्वानि स्थानानि ते जग्मुर्मुनयो वीतमत्सराः ॥ ७४ ॥
एवमृषीणां दयितासु सक्तः कामार्त्तचित्तो मुनिपुंगवानाम् ॥
शापं समासाद्य शिवोऽपि भक्त्या रेवाजलेऽगात्सुशिलामयत्वम् ॥ ७९ ॥
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने वृषस्तुतिर्नामैकोनषष्ट्युत्तरद्विशततमोअध्यायः ॥ २५९ ॥ [। छ ॥