स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २५६

विकिस्रोतः तः
Jump to navigation Jump to search

॥ गालव उवाच ॥ ॥
एकदा भगवान्रुद्रः कैलासशिखरे स्थितः ॥
दधार परमां लक्ष्मीमुमया सहितः किल ॥ १ ॥
गणानां कोटयस्तिस्रस्तं यदा पर्यवारयन् ॥
वीरबाहुर्वीरभद्रो वीरसेनश्च भृङ्गिराट् ॥ २ ॥
रुचिस्तुटिस्तथा नन्दी पुष्पदन्तस्तथोत्कटः ॥
विकटः कण्टकश्चैव हरः केशो विघंटकः ॥ ३ ॥
मालाधरः पाशधरः शृङ्गी च नरनस्तथा ॥
पुण्योत्कटः शालिभद्रो महाभद्रो विभद्रकः ॥ ४ ॥
कणपः कालपः कालो धनपो रक्तलोचनः ॥
विकटास्यो भद्रकश्च दीर्घजिह्वो विरोचनः ॥ ५ ॥
पारदो घनदो ध्वांक्षी हंसक्री नरकस्तथा ॥
पंचशीर्षस्त्रिशीर्षश्च क्रोडदंष्ट्रो महाद्भुत ॥ ६ ॥
सिंहवक्त्रो वृषहनुः प्रचण्डस्तुंडिरेव च ॥
एते चान्ये च बहवस्तदा भवसमीपगाः ॥ ७ ॥
महादेव जयेत्युच्चैर्भद्रकालीसमन्विताः ॥
भूतप्रेतपिशाचानां समूहा यस्य वल्लभाः ॥८॥
अस्तुवंस्तं समीपस्था वसन्ते समुपागते ॥
वनराजिर्विभाति स्म नवकोरकशोभिता ॥ ९ ॥
दक्षिणानिलसंस्पर्शः कवीनां सुखकृद्बभौ ॥
वियोगिहृदयाकर्षी किंशुकः पुष्पशोभितः ॥ ॥ ६.२५६.१० ॥
द्वन्द्वादिविक्रियाभावं चिक्रीडुश्च समंततः ॥
तस्मिन्विगाढे समये मनस्युन्मादके तथा ॥ ११ ॥
नंदी दंडधरः संज्ञां दृष्ट्वा चक्रे हरो परः॥
अलं चापलदोषेण तपः कुर्वंतु भो गणाः ॥ १२ ॥
तदा सर्वे वनमपि भूकांडजमभूत्पुनः ॥
गणास्ते तप आतस्थुर्दृष्ट्वा कान्तिंवसन्तजाम् ॥ १३ ॥
ततः सा विश्वजननी पार्वती प्राह शंकरम् ॥
इयं ते करगा नित्यमक्षमाला महेश्वर ॥ १४ ॥
त्वया किं जप्यते देव संदेहयति मे मनः ॥
त्वमेकः सर्व भूतानामादिकृत्सकलेश्वरः ॥ १५ ॥
न माता न पिता बंधुस्तव जातिर्न कश्चन ॥
अहं तव परं किंचिद्वेद्मि नास्तीति किंचन ॥ १६ ॥
श्रमेण त्वं समायुक्तो श्वासोच्छ्वासपरायणः॥
जपन्नपि महाभक्त्या दृश्यसे त्वं मया सदा ॥१७॥
त्वत्तःपरतरं किचिद्यत्त्वं ध्यायसि चेतसा ॥
तन्मे कथय देवेश यद्यहं दयिता तव॥ १८ ॥
इति स्पृष्टस्तदा शंभुरुवाच हरिसेवकः ॥
हरेर्नामसहस्राणां सारं ध्यायामि नित्यशः ॥ १९ ॥
जपामि रामनामांकमवातरं(?) ससप्तमम्॥
चतुर्विशतिसंख्याकान्प्रादुर्भावान्हरेर्गुणान् ॥ ६.२५६.२० ॥
एतेषामपि यत्सारं प्रणवाख्यं महत्फलम् ॥
द्वादशाक्षरसंयुक्तं ब्रह्मरूपं सना तनम्॥ २१ ॥
अक्षरत्रयसंबद्धं ग्रामत्रयसमन्वितम् ॥
सबिंदुं प्रणवं शश्वज्जपामि जपमालया ॥ २२ ॥
वेदसारमिदं नित्यं द्व्यक्षरं सततोद्यतम् ॥
निर्मलं ह्यमृतं शांतं सदूपममृतोपमम् ॥ २३ ॥
कलातीतं निर्वशगं निर्व्यापारं महत्परम् ॥
विश्वाधारं जगन्मध्यं कोटिब्रह्मांडबीजकम्॥ २४ ॥
जडं शुद्धक्रियं वापि निरंजनं नियामकम् ॥
यज्ज्ञात्वा मुच्यते क्षिप्रं घोरसंसारबंधनात् ॥ २५ ॥
ओंकारसहितं यच्च द्वादशाक्षरबीजकम् ॥
जपतः पापकोटीनां दावाग्नित्वं प्रजायते ॥ २६ ॥
एतदेव परं गुह्यमेतदेव परं महः ॥
एतद्धि दुर्लभं लोके लोकत्रयविभूषणम्॥ २७ ॥
प्राप्यते जन्मकोटीभिः शुभाशुभविनाशकम् ॥
एतदेव परं ज्ञानं द्वादशाक्षरचिन्तनम् ॥ २८ ॥
चातुर्मास्ये विशेषेण ब्रह्मदं चिंतितप्रदम् ॥
एतदक्षरजं स्तोत्रं यः समाश्रयते सदा ॥ २९ ॥
मनसा कर्मणा वाचा तस्य नास्ति पुनर्भवः ॥
द्वादशाक्षरसंयुक्तं चक्रद्वादशभूषितम् ॥ ६.२५६.३० ॥
मासद्वादशनामानि विष्णोर्यो भक्तितत्परः ॥
शालग्रामेषु तान्युक्त्वा न्यसेदघहराणि च ॥ ३१ ॥
दिवसेदिवसे तस्य द्वादशाहफलं लभेत् ॥
द्वादशाक्षर माहात्म्यं वर्णितुं नैव शक्यते ॥ ३२ ॥
जिह्वासहस्रैरपि च ब्रह्मणापि न वार्यते ॥
महामन्त्रो ह्ययं लोके जप्यो ध्यातः स्तुतस्तथा ॥ ३३ ॥
पापहा सर्वमासेषु चातुर्मास्ये विशेषतः ॥
इदं रहस्यं वेदानां पुराणानामनेकशः ॥ ३४ ॥
स्मृतीनामपि सर्वासां द्वादशाक्षरचिन्तनम्॥
चिंतनादेव मर्त्यानां सिद्धिर्भवति हीप्सिता ॥ ३५ ॥
पुण्यदानेन याम्येन मुक्तिर्भवति शाश्वती ॥
वर्णैस्तथाश्रमैरेव प्रणवेन समन्वितैः ॥ ३६ ॥
जपैर्ध्यानैः शमपरैर्मोक्षं यास्येत निश्चितम ॥
शूद्राणां चापि नारीणां प्रणवेन विवर्जितः ॥ ३७ ॥
प्रकृतीनां च सर्वासां न मन्त्रो द्वादशाक्षरः ॥
न जपो न तपः कार्यं कायक्लेशाद्विशुद्धिता ॥ ३८ ॥
विप्रभक्त्या च दानेन विष्णुध्यानेन सिद्ध्यति ॥
तासां मन्त्रो रामनाम ध्येयः कोट्यधिको भवेत् ॥ ३९ ॥
रामेति द्व्यक्षरजपः सर्वपापापनोदकः ॥
गच्छंस्तिष्ठञ्छयानो वा मनुजो रामकीर्तनात् ॥ ६.२५६.४० ॥
इह निर्वर्ततो याति प्रान्ते हरिगणो भवेत् ॥
रामेति द्व्यक्षरो मन्त्रो मंत्रकोटिशताधिकः ॥ ४१ ॥
सर्वासां प्रकृतीनां च कथितः पापनाशकः ॥
चातुर्मास्येऽथ संप्राप्ते सोऽप्यनंतफलप्रदः ॥ ४२ ॥
चातुर्मास्ये महापुण्ये लभ्यते भक्तितत्परैः ॥
देववन्निष्फलं तेषां यमलोकस्यसेवनम् ॥ ४३ ॥
न रामादधिकं किंचित्पठनं जगतीतले ॥
रामनामाश्रया ये वै न तेषां यमयातना ॥ ४४ ॥
ये च दोषा विघ्नकरा मृतका विग्रहाश्च ये ॥
राम नामैव विलयं यांति नात्र विचारणा ॥ ४५ ॥
रमते सर्वभूतेषु स्थावरेषु चरेषु च ॥
अन्तरात्मस्वरूपेण यच्च रामेति कथ्यते ॥ ४६ ।
रामेति मत्रराजोऽयं भयव्याधिनिषूदकः ॥
रणे विजयदश्चापि सर्वकार्यार्थसाधकः ॥ ४७ ॥
सर्वतीर्थफलः प्रोक्तो विप्राणामपि कामदः ॥
रामचन्द्रेति रामेति रामेति समुदाहृतः ॥ ४८ ॥
द्व्यक्षरो मन्त्रराजोऽयं सर्वकार्यकरो भुवि ॥
देवा अपि प्रगायंति रामनामगुणाकरम् ॥ ४९ ॥
तस्मात्त्वमपि देवेशि रामनाम सदा वद ॥
रामनाम जपेद्यो वै मुच्यते सर्वकिल्बिषैः ॥ ६.२५६.५० ॥
सहस्रनामजं पुण्यं रामनाम्नैव जायते ॥
चातुर्मास्ये विशेषेण तत्पुण्यं दशधोत्तरम् ॥ ५१ ॥
हीनजातिप्रजातानां महदह्यति पातकम् ॥ ५२ ॥
रामो ह्ययं विश्वमिदं समयं स्वतेजसा व्याप्य जनांतरात्मना ॥
पुनाति जन्मांतरपातकानि स्थूलानि सूक्ष्माणि क्षणाच्च दग्ध्वा ॥ ५३ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये रामनाममहिमवर्णनं नाम षट्पंचाशदुत्तरद्विशततमोऽध्यायः ॥ २५६ ॥