सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २५३

विकिस्रोतः तः

॥ शूद्र उवाच ॥ ॥
पार्वतीकुपिता देवी कथं देवेन शूलिना ॥
प्रसादं च गता शप्त्वा यत्कोपात्क्षुभ्यते जगत् ॥ १ ॥
कथं स भगवान्रुद्रो भार्याशापमवाप ह ॥
वैकृतं रूपमासाद्य पुनर्दिव्यं वपुः श्रितः ॥ २ ॥
॥ गालव उवाच ॥ ॥
देवा रूपाण्यदृश्यानि कृत्वा देव्या महाभयात्॥
मनुष्यलोके सकले प्रतिमासु च संस्थिताः ॥ ३ ॥
तेषामपि प्रसन्ना साऽनुग्रहं समुपाकरोत् ॥
विष्णुस्तुता महाभागा विश्वमाताऽघनाशिनी ॥ ४ [।
तेषां बलाच्च पार्वत्याः शापभारेण यन्त्रितः ॥
तां नित्यमेवानुनयन्नृचे सोवाच शंकरम् ॥ ५ ॥
एते देवा विश्व पूज्या विश्वस्य च वरप्रदाः ॥
मत्प्रसादाद्भविष्यंति भक्तितस्तोषिता नरैः ॥ ६ ॥
त्वामृते मम कर्मेदं कृतं साधुविनिन्दितम् ॥
वेद्यां विवाह काले च प्रत्यक्षं सर्वसाक्षिकम् ॥ ७ ॥
यत्सप्तमंडलानां च गमनं च करार्पणम् ॥
वह्निश्च वरुणः कृष्णो देवताश्च सवल्लभाः ॥ ८ ॥
चतुर्दिक्ष्वंग संयुक्ता देवब्राह्मणसंयुताः ॥
एतेषामग्रतो दिब्यं कृत्वा त्वं जनसंसदि ॥ ९ ॥
प्रमादात्सत्त्वमापन्नो व्यभिचारं कथं कृथाः ॥
गुरुवोऽपि न सन्मार्गे प्रवर्त्तंते जनौघवत् ॥ ६.२५३.१० ॥
निग्राह्याः सर्वलोकेषु प्रबुद्धैः श्रूयते श्रुतौ ॥
पुत्रेणापि पिता शास्यः शिष्येणापि गुरुः स्वयम् ॥ ११ ॥
क्षत्रियैर्ब्राह्मणः शास्यो भार्यया च पतिस्तथा ॥
उन्मार्गगामिनं श्रेष्ठमपि वेदान्तपारगम् ॥ १२ ॥
नीचैरपि प्रशास्येत श्रुतिराह सनातनी ॥
सन्मार्ग एव सर्वत्र पूज्यते नापथः क्वचित् ॥ १३ ॥
येन स्वकुलजो धर्मस्त्यक्तः स पतितो भवेत् ॥
मृतश्च नरकं प्राप्य दुःखभारेण युज्यते ॥ ॥ १४ ॥
धर्मं त्यजति नास्तिक्याज्ज्ञातिभेदमुपागतः ॥
स निग्राह्यः सर्वलोकैर्मनुधर्मपरायणैः ॥ १५ ॥
कुलधर्माञ्ज्ञातिधर्मान्देशधर्मान्महेश्वर ॥
ये त्यजंति च तेऽवश्यं कुलाच्च पतिता जनाः ॥ १६ ॥
अग्नित्यागो व्रतत्यागो वचनत्याग एव च ॥
धर्मत्यागो नैव कार्यः कुर्वन्पतित एव हि ॥ ॥ १७ ॥
न पिता न च ते माता न भ्राता स्वजनोऽपि च ॥
पश्यते तव वार्तां च अस्पृश्यस्त्वमदन्विषम् ॥ १८ ॥
अस्थिमालाचिताभस्म जटाधारी कुचैलवान् ॥
चपलो मुक्तमर्यादस्तस्थुं नार्हसि मेऽग्रतः ॥ १९ ॥
अब्रह्मण्योऽव्रती भिक्षुर्दुष्टात्मा कपटी सदा ॥
नार्हसि त्वं मम पुरः संभाषयितुमीश्वर ॥ ६.२५३.२० ॥
एवं सा रुदती देवी बाष्पव्याकुललोचना ॥
महादुःखयुतैवासीद्देवेशेऽनुनयत्यपि ॥ २१ ॥
पुनरेव प्रकुपिता हरं प्रोवाच भामिनी ॥
तवार्जवं न हृदये काठिन्यं वेद्मि नित्यदा ॥ २२ ॥
ब्राह्मणैस्त्वासुरैरुक्तं तन्मृषा प्रतिभाति मे ॥
यस्मान्मयि महादुष्टभाव एव कृतस्त्वया ॥ २३ ॥
ब्राह्मणा वंचिता यस्माद्ब्राह्मणैस्त्वं हनिष्यसे ॥
एवमुक्त्वा भगवती पुनराह न किञ्चन ॥ २४ ॥
ईशः प्रसन्नवदनामुपचारैरथाकरोत् ॥
शनैर्नीतिमयैर्वाक्यैर्हेतुमद्भिर्महेश्वरः ॥ २५ ॥
प्रसन्नलोचनां ज्ञात्वा किंचित्प्राह हरस्ततः ॥
कोपेन कलुषं वक्त्रं पूर्णचन्द्र समप्रभम् ॥ २६ ॥
कस्मात्त्वं कुरुषे भद्रे युक्तमेव वचो न ते ॥
सर्वभूतदया कार्या प्राणिनां हि हितेच्छया ॥ २७ ॥
यद्यपीष्टो हि यस्यार्थो न कार्यं परपीडनम् ॥
जगत्सर्वं सुतप्रायं तवास्ति वरवर्णिनि ॥ २८ ॥
जगत्पूज्या त्वमेवैका सर्वरूपधरानघे ॥
मया यदि कृतं कर्मावद्यं देव हिताय वै ॥ २९ ॥
तथाप्येवं तव सुतो भविष्यति न संशयः ॥
अथवा मम सर्वेभ्यः प्राणेभ्योऽपि गरीयसी ॥ ६.२५३.३० ॥
यदिच्छसि तथा कुर्यां तथा तव मनोरथान्॥
प्रसन्नवदना भूत्वा कथयस्व वरानने ॥ ३१ ॥
इत्युक्ता सा भगवती पुनराह महेश्वरम् ॥
चातुर्मास्ये च संप्राप्ते महाव्रत धरो यदि ॥ ३२ ॥
देवतानां च प्रत्यक्षं तांडवं नर्तसे यदि ॥
पारयित्वा व्रतं सम्यग्ब्रह्मचर्यं महेश्वर ॥ ३३ [।
मत्प्रीत्यै यदि देहार्थं वैष्णवं च प्रयच्छसि ॥
शापस्यानुग्रहं कुर्यां प्रसववदना सती ॥ ३४ ॥
नान्यथा मम चित्तं त्वां विश्वासमनुगच्छति ॥
तच्छ्रुत्वा भगवांस्तुष्टस्तथेति प्रत्युवाच ताम् ॥ ३५ ॥
सापि हृष्टा भगवती शापस्यानुग्रहे वृता ॥ ३६ ॥
इदं पुराणं मनुजः शृणोति श्रद्धायुक्तो भेदबुद्ध्या दृढत्वम् ॥
तस्या वश्यं जीवितं सर्वसिद्धं मर्त्याः सत्यात्तच्छ्रयत्वं प्रयांति ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये शंकरकृतपार्वत्यनुनयो नाम त्रिपंचाशदुत्तरद्विशततमोऽध्यायः ॥ ॥ २५३ ॥