स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १७४

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
तथान्यदपि वो वच्मि लिंगं यत्तत्र संस्थितम् ॥
स्थापितं पिप्पलादेन कंसारेश्वरमित्यहो ॥ १ ॥
यस्मिन्दृष्टे तु लोकानां पापं याति दिनोद्भवम् ॥
नते षाण्मासिकं चैव पूजिते वर्षसंभवम्॥ ॥
॥ ऋषय ऊचुः ॥ ॥
पिप्पलादेन यल्लिंगं स्थापितं सूतनन्दन ॥
कंसारेश्वरमित्युक्तं कस्मात्तच्च ब्रवीहि नः ॥ ३ ॥
क एष पिप्पलादस्तु कस्य पुत्रो वदस्व नः ॥
किमर्थं स्थापितं लिंगं क्षेत्रे तत्र महात्मना ॥ ४ ॥
॥ सूत उवाच ॥ ॥
प्रश्नभारो महानेष भवद्भिः समुदाहृतः ॥
तथापि कथयिष्यामि नमस्कृत्वा स्वयंभुवम् ॥ ५ ॥
याज्ञवल्क्यस्यभगिनी कंसारीति च विश्रुता ॥
कुमारब्रह्मचर्येण तप स्तेपे सुदारुणम्॥ ६ ॥
याज्ञवल्क्याश्रमे पुण्ये बांधवेन समन्विता ॥
कस्यचित्त्वथ कालस्य याज्ञवल्क्यस्य भो द्विजाः ॥७॥
चस्कन्द रेतः स्वप्नांते दृष्ट्वा कांचिद्वराप्सराम्॥
तारुण्यभावसंस्थस्य तपोयुक्तस्य सद्द्विजाः ॥ ८ ॥
रेतसा तस्य महता परिधानं परिप्लुतम् ॥
तच्च तेन परित्यक्तं प्रभाते समुपस्थिते ॥ ९ ॥
कंसारिकाऽथ जग्राह स्नानार्थं वसनं च तत् ॥
अमोघरेतसा क्लिन्नमजानन्ती द्विजोत्तमाः ॥ ६.१७४.१० ॥
कुर्वन्त्या यजनं तस्या जलं वीर्यसमन्वितम् ॥
प्रविष्टं भगमध्ये तु ऋतुकाल उपस्थिते ॥ ११ ॥
ततो गर्भः समभवत्तस्यास्तूदरमध्यगः ॥
वृद्धिं चाप्यगमन्नित्यं शुक्लपक्षे यथोडुराट् ॥ १२ ॥
साऽपि तं गर्भमादाय स्वोदरस्थं तपस्विनी ॥
दुःखेन महता युक्ता लज्जयाऽथ तदाऽऽवृता ॥ १३ ॥
चिन्तयामास सुचिरं विस्मयेन समन्विता ॥
गोपायन्ती तदाऽऽत्मानं दर्शनं याति नो नृणाम् ॥ १४ ॥
व्रतचर्यामिषं कृत्वा सदा रहसि संस्थिता ॥
संप्राप्ते दशमे मासि निशीथे समुपस्थिते ॥
तस्याः कुमारको जातो वालार्कसदृशद्युतिः ॥ १५ ॥
अथ सा तं समा दाय सूक्ष्मवस्त्रेण वेष्टितम् ॥
कृत्वा जगाम चारण्यं मनुष्यपरिवर्जितम् ॥
अश्रुपूर्णेक्षणा दीना रुदन्ती गुप्तमेव च ॥ १६ ॥
ततो गत्वा च साऽश्वत्थं विजने सुमहत्तरम् ॥
तस्याधस्ताद्विमुच्याथ वाक्यमेतदुवाच ह ॥ १७ ॥
अश्वत्थ विष्णुरूपोऽसि त्वं देवेषु प्रतिष्ठितः ॥
तस्माद्रक्षस्व मे पुत्रं सर्वतस्त्वं वनस्पते ॥ १८ ॥
एष ते शरणं प्राप्तो मम पुत्रस्तु बालकः ॥
पापाया निर्दयायाश्च तस्माद्रक्षां समाचर ॥ १९ ॥
एवमुक्त्वा रुदित्वा च सुचिरं सा तपस्विनी ॥
जगाम स्वाश्रमं पश्चाद्वाष्पव्याकुललोचना ॥ ६.१७४.२० ॥
यावद्रोदिति सा माता तस्याधस्ताद्वनस्पतेः ॥
तावदाकाशजा वाणी संजाता मेघनिःस्वना ॥ २१ ॥
मा त्वं शोकं कुरुष्वास्य बालकस्य कृते शुभे ॥
एष शापादुतथ्यस्य ज्येष्ठभ्रातुर्बृहस्पतिः ॥
अवतीर्णो धरापृष्ठे योग्यतां समवाप्स्यति ॥ २२ ॥
एष चाथर्वणं वेदं शतकल्पं सुविस्तरम् ॥
शतभेदं च नवधा पंचकल्पं करिष्यति ॥ २३ ॥
पिप्पलस्य तरोरेष रसं संभक्षयिष्यति ॥
पिप्पलाद इति ख्यातस्ततो लोके भविष्यति ॥ २४ ॥
या त्वं विस्मयमापन्ना पुरुषेण विना शिशुः॥
संजातोऽयं मम प्रांशुस्ततस्तत्कारणं शृणु ॥ २५ ॥
स्नानवस्त्रं च ते भ्रातू रेतसा यत्परिप्लुतम् ॥
तत्त्वया ऋतुकाले तु परिधानं कृतं शुभे ॥ २६ ॥
स्नानकाले तु तोयानि रेतोदकमथास्पृशन् ॥
अमोघरेतसा तेन पुत्रोऽयं तव संस्थितः ॥ २७ ॥
एवं ज्ञात्वा महाभागे यद्युक्तं तत्समाचर ॥ २८ ॥ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा देवलोकस्यवज्रपातोपमं वचः ॥
हाहाकारपरा भूत्वा निपपात धरातले ॥ २९ ॥
छिन्नवृक्षलता यद्वत्पतिता सा तपस्विनी ॥ ६.१७४.३० ॥
चिरायन्त्यां तु तस्यां स याज्ञवल्क्यो महामुनिः ॥
शून्यं तमाश्रमं दृष्ट्वा पप्रच्छान्यान्मुनीश्वरान् ॥ ३१ ॥
क्व च मे भगिनी याता कंसारी सुतपस्विनी ॥
तया विनाऽद्य मे सर्वं शून्यमाश्रममंडलम् ॥ ३२ ॥
आचख्यौ तापसः कश्चिद्भगिनी ते यवीयसी ॥
निश्चेष्टा पतिता भूमावश्वत्थस्य समीपतः ॥ ३३ ॥
मया दृष्टा मुनिश्रेष्ठ तां त्वं भावय मा चिरम् ॥
अथासौ त्वरया युक्तः संभ्रांतस्तु प्रधावितः ॥ ॥ ३४ ॥
यत्र सा कथिता तेन तापसेन तपस्विनी ॥
वीक्षते यावत्तत्रस्था श्वसमाना व्यवस्थिता ॥३५॥
अथ तोयेन शीतेन सेचयित्वा मुहुर्मुहुः॥
दत्त्वा भूयोऽपि वातं च यावच्चक्रे सचेतनाम् ॥
तावत्कात्यायनी प्राप्ता मैत्रेयी च ससंभ्रमम् ॥ ३६ ॥
किमिदं किमिदं जातं ननांदर्वद मा चिरम् ॥ ३७ ॥
किं वा सर्पेण दष्टासि सन्निपातेन दूषिता ।१
किं वा भूतगृहीताऽसि माहेंद्रेण ज्वरेण वा ॥ ३८ ॥
अथ सा चेतनां लब्ध्वा याज्ञ वल्क्यं पुरः स्थितम् ॥
भार्यया सहितं दृष्ट्वा व्रीडयाऽसून्मुमोच ह ॥ ३९ ॥
अथ तां च मृतां दृष्ट्वा रुदित्वा च चिरं द्विजाः ॥
याज्ञवल्क्यः सभार्यस्तु दत्त्वा वह्निं च शोकधृक् [।
जगाम स्वाश्रमं पश्चाद्दत्त्वा च सलिलाञ्जलिम् ॥ ६.१७४.४० ॥
सोऽपि बालोऽथ ववृधे पिप्पलास्वादपुष्टिधृक् ॥
अश्वत्थस्य तले तस्य वृद्धिं याति शनैःशनैः ॥ ४१ ॥
कस्यचित्त्वथ कालस्य नारदो मुनिसत्तमः ॥
तीर्थयात्राप्रसंगेन तेन मार्गेण चागतः ॥ ४२ ॥
स दृष्ट्वा बालकं तत्र द्वादशार्कसमप्रभम् ॥
एकाकिनं वने शून्ये पिप्पलास्वादतत्परम् ॥
पप्रच्छ विस्मयाविष्ट एकाकी को भवानिह ॥ ४३ ॥
वने शून्ये महारौद्रे सिंहव्याघ्रसमाकुले ॥
क्व ते माता पिता चैव किमर्थं चेह तिष्ठसि ॥ ४४ ॥
निवससि कथं चैव सर्वं मे विस्तराद्वद ॥ ४५ ॥
॥ पिप्पलाद उवाच ॥ ॥ ॥
नाहं जानामि पितरं मातरं न च बांधवम् ॥
नापि त्वां कोऽत्र चा यातो मम पार्श्वे तु सांप्रतम् ॥ ४६ ॥
॥ सूत उवाच ॥ [।
तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा मुनीश्वरः ॥
ततस्तं प्रहसन्प्राह ज्ञात्वा दिव्येन चक्षुषा ॥ ४७ ॥
।। नारद उवाच ॥ ।।
मया ज्ञातोऽसि वत्स त्वं याज्ञवल्क्यस्य रेतसा ॥
दैवयोगात्समुत्पन्नो भगिन्या उदरे ह्यृतौ ॥ ४८ ॥
उतथ्यशापदोषेण देवाचार्यो बृहस्पतिः ॥
देवकार्यस्य सिद्ध्यर्थं तस्मात्तच्छृणु कारणम् ॥ ४९ ॥
अथर्ववेदो यश्चैष शतशाखो विनिर्मितः ॥
शत कल्पश्च गूढार्थो भूपानां कार्यसिद्धये ॥६.१७४.५॥।
नवशाखः पंचकल्पस्त्वया कार्यः सुखावहः ॥५१॥
तव मात्रा महाभाग रेतसा च परिप्लुतम् ॥
यद्वस्त्रं याज्ञवल्क्यस्य परिधानं कृतं च यत् ॥५२॥
भगिन्या सुतपस्विन्या स्नानार्थं न च काम्यया ॥
तद्रेतो जलमिश्रं तु भगमध्ये विनिर्गतम् ॥५३॥
अमोघं तेन संभूतस्त्वमत्र जगतीतले ॥
माता वै मृत्युमापन्ना ज्ञात्वैवं लज्जया तया ॥ ५४ ॥
चमत्कारपुरे तुभ्यं मातुलो जनकस्तथा ॥
संतिष्ठते महाभाग तत्पार्श्वे त्वमितो वज ॥ ५५ ॥
सांप्रतं व्रतकालस्ते वर्षं चैवाष्टमं स्थितम् ॥
तच्छ्रुत्वा वचनं तस्य लज्जयाऽधोमुखः स्थितः ॥ ५६ ॥
ततश्चिरेण दीनं स वाक्यमेतदुवाच तम् ॥
किं मया पापमाख्याहि पूर्वदेहांतरे कृतम् ॥ ५७
येनेदं गर्हितं जन्म वियोगो मातृसंभवः॥
परित्यक्ष्यामि जीवं स्वं दुःखेनानेन सन्मुने ॥५८॥
॥ नारद उवाच ॥ ॥
न त्वया दुष्कृतं किंचित्पूर्वदेहांतरे कृतम् ॥
परं येन सुसंजातं तवेदं व्यसनं शृणु ॥ ५९ ॥
जन्मस्थेन भवाञ्जातः शनिना नाऽत्र संशयः ॥
तेनावस्थामिमां प्राप्तो नान्यदस्ति हि कारणम् ॥ ६.१७४.६० ॥
तच्छ्रुत्वा वचनं तस्य कोपसंरक्तलोचनः ॥
ऊर्ध्वमालोकयामास समुद्दिश्य शनैश्चरम् ॥ ६१ ॥
तस्य दृष्टिनिपातेन न्यपतत्स तु तत्क्षणात् ॥
विमानात्स्वाद्रवेः पुत्रो ययातिरिव नाहुषः ॥६२ ।१
अधोवक्त्रो द्विजश्रेष्ठाः पितुरादेशमाश्रितः ॥
बालभावेऽपि तेनैव दग्धौ पादौ तदा रवेः ॥६३॥
अथ तं नारदः प्राह पतमानमधोमुखम् ॥
बाल्यभावादनेन त्वं पातितोऽसि शनैश्चर ॥ ६४ ॥
तस्मान्मा वीक्षयस्वैनं भविष्यति प्रकोपभाक् ॥
मा पतस्व तथा भूमौ बलान्मद्वाक्यसंभवात् ॥ ६५ ॥
स्तंभयित्वा तथाप्येवं गगनस्थं शनैश्चरम् ॥
ततः प्रोवाच तं बालं पिप्पलादं मुनीश्वरः ॥ ॥६६॥
मा कोपं कुरु बाल त्वमेष सूर्यसुतो ग्रहः।
देवानामपि पीडां च कुरुतेऽष्टमराशिगः ॥ ६७ ॥
जन्मस्थस्तु विशेषेण द्वितीयस्तु तथापरः ॥
यद्येष कुपितस्त्वां तु वीक्षयिष्यति कर्हिचित् ॥ ६८ ॥
करिष्यति न संदेहो भस्मराशिं ममाग्रतः ॥
अनेन वीक्षितौ पादौ जातमात्रेण सूर्यकौ ॥ ॥ ६९ ॥
आयातस्य तु तुष्टस्य पुत्रदर्शनवाञ्छया ॥
अन्तर्धानीकृते वस्त्रे ज्ञात्वा तं रौद्रचक्षुषम् ॥ ६.१७४.७० ॥
ततो दग्धावुभौ चापि तिष्ठतश्चर्म वेष्टितौ ॥
दृश्येतेऽद्यापि मूर्त्तौ तौ घटितायां धरातले ॥ ७१ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा वचनं तस्य नारदस्य स बालकः ॥
भयेन महता युक्तस्ततः पप्रच्छ तं मुनिम् ॥ ७२ ॥
कथं यास्यति मे तुष्टिं वदैष मम सन्मुने ॥
अज्ञानात्पातितो व्योम्नः शक्तिं चास्याविजानता ॥ ७३ ॥ ॥
॥ नारद उवाच ॥ ॥
ग्रहा गावो नरेंद्राश्च ब्राह्मणाश्च विशेषतः ॥
पूजिताः प्रतिपूज्यंते निर्दहंत्यपमानिताः ॥ ७४ ॥
तस्मात्कुरु स्तुतिं चास्य स्वशक्त्या भास्करेः प्रभो॥
प्रसादं गच्छते येन कोपं त्यजति पातजम् ॥ ७५ ॥
ततः कृतांजलिर्भूत्वा स्तुतिं चक्रे स बालकः ॥
भयेन महता युक्तस्ततः संपृच्छ्य तं मुनिम् ॥ ७६ ॥
पिप्पलादो द्विजश्रेष्ठाः प्रणिपत्य मुहुर्मुहुः ॥
नमस्ते क्रोधसंस्थाय पिंगलाय नमोऽस्तु ते ॥ ७७ ॥
नमस्ते वसुरूपाय कृष्णाय च नमोऽस्तु ते ॥
नमस्ते रौद्रदेहाय नमस्ते चांतकाय च ॥ ७८ ॥
नमस्ते यमसंज्ञाय नमस्ते सौरये विभो ॥
नमस्ते मन्दसंज्ञाय शनैश्चर नमोऽsस्तु ते ॥ ७९ ॥
प्रसादं कुरु देवेश दीनस्य प्रणतस्य च ॥६.१७४.८॥।
॥ शनैश्चर उवाच ॥ ॥
परितुष्टोऽस्मि ते वत्स स्तोत्रेणानेन सांप्रतम्॥
वरं वरय भद्रं ते येन यच्छामि सांप्रतम् ॥ ८१ ॥
पिप्पलाद उवाच ॥ ॥
अद्यप्रभृति नो पीडा बालानां सूर्यनन्दन ॥
त्वया कार्या महाभाग स्वकीया च कथंचन ॥ ८२ ॥
यावद्वर्षाष्टमं जातं मम वाक्येन सूर्यज ॥
स्तोत्रेणानेन योऽत्र त्वां स्तूयात्प्रातः समुत्थितः ॥ ॥ ८३ ॥
तस्य पीडा न कर्तव्या त्वया भास्करनन्दन ॥
तव वारे च संजाते तैलाभ्यंगं करोति यः ॥ ८४ ॥
दिनाष्टकं न कर्तव्या तस्य पीडा कथंचन ॥
यस्त्वां लोहमयं कृत्वा तैलमध्ये ह्यधोमुखम्॥ ८५ ॥
धारयेत्तेन तैलेन ततः स्नानं समाचरेत् ॥
तस्य पीडा न कर्तव्या देयो लाभो महीभुजः ॥९६ ॥
अध्यर्द्धाष्टमिकायोगे तावके संस्थिते नरः ॥
तववारे तु संप्राप्ते यस्तिलाँल्लोहसंयुतान् ॥ ९७ ॥
स्वशक्त्या राति नो तस्य पीडा कार्या त्वया विभो ॥
कृष्णां गां यस्तु विप्राय तवोद्देशेन यच्छति ॥ ८८ ॥
अध्यर्द्धाष्टमजा पीडा नाऽस्य कार्या त्वया विभो ॥
शमी समिद्भिर्यो होमं तवोद्देशेन यच्छति ॥ ९९ ॥
तथा कृष्णतिलैश्चैव कृष्णपुष्पानुलेपनैः ॥
पूजां करोति यस्तुभ्यं धूपं वै गुग्गुलं दहेत् ॥
कृष्णवस्त्रेण संवेष्ट्य त्याज्या तस्य व्यथा त्वया ॥ ६.१७४.९० ॥
॥ सूत उवाच ॥ ॥
एवमुक्तः शनिस्तेन बाढमित्येव जल्प्य च ॥
नारदं समनुज्ञाप्य जगाम निजसं श्रयम्॥ ९१ ॥
नारदोऽपि तमादाय वालकं कृपयान्वितः ॥
चमत्कारपुरं गत्वा याज्ञवल्क्याय चार्पयत् ॥ ९२ ॥
कथयामास वृत्तांतं तस्य संभूति संभवम्॥
यद्दृष्टं ज्ञानदीपेन तस्मै सर्वं न्यवेदयत्॥९३॥
एष ते वीर्यसंभूतो बालको भगिनीसुतः ॥
मयाऽश्वत्थतले लब्धः काननेऽश्वत्थसंनिधौ ॥ ९४ ॥
व्रतबंध कुरुष्वास्य सांप्रतं चाष्टवार्षिकः ॥
नात्र दोषोस्ति विप्रेंद्र न भगिन्यास्तथा तव ॥
तस्माद्गृहाण पुत्रं स्वं भागिनेयं विशेषतः ॥ ॥ ९५ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा स देवर्षिस्ततश्चादर्शनं गतः ॥
याज्ञवल्क्योऽपि तच्छ्रुत्वा विषादं परमं गतः ॥ ९६ ॥
पापं तच्चिंतयन्नेव न शांतिमधिगच्छति ॥
आत्मानं गर्हयन्नित्यं दिवानक्तं च शोचति ॥ ९७ ॥
तं च पुत्रं परिज्ञाय तैस्तैश्चिह्नैर्निजैः स्थितैः ॥
ततस्तु पोषयित्वा तं व्रतेन समयोजयत् ॥ ९९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्या संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये पिप्पलादोत्पत्तिव र्णनंनाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥ १७४ ॥