स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १७०

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
तथान्यदपि संजातमाश्चर्यं यदभूद्द्विजाः ॥
विश्वामित्रेण सा शक्तिर्वसिष्ठाय विसर्जिता ॥ १ ॥
वधार्थं तस्य विप्रर्षेर्वसिष्ठेन च धीमता ॥
स्तंभिताऽथर्वणैर्मन्त्रैः प्रस्वेदः समजायत॥२॥
स्वेदात्समभवत्तोयं शीतलं तदजायत॥
पादाभ्यां निर्गतं तोयमत्र दृश्यमजायत ॥३॥
विदार्य भूमिं संजाता जलधारा सुशीतला ॥
निर्मलं पावनं स्वच्छं गंगांभ इव निःसृतम् ॥ ४ ॥ गं
गा प्रत्यक्षतां याता तीर्थैः सर्वैः समन्विता॥
पूरितं वारिणा कुण्डं निर्मलं शीतलं शिवम् ॥ ५ ॥
तस्यां या कुरुते स्नानं नारी वंध्या द्विजोत्तमाः ॥
सद्यः पुत्रवती सा स्याद्रौद्रे कलियुगे द्विजाः ॥ ६ ॥
अन्योऽपि कुरुते स्नानं सर्वतीर्थफलं लभेत् ॥७॥
स्नात्वा तत्र तु यो देवीं पश्येच्च विधिना नरः ॥
धनं धान्यं तथा पुत्रान्राज्योत्थं च सुखं लभेत् ॥ ॥८॥
या नारी दुर्भगा वन्ध्या साऽपि पुत्रवती भवेत् ॥
चैत्रे मासि सिताष्टम्यां भक्तियोगसमन्विता ॥
महानिशायां तत्रैव नैवेद्यबलिपिंडिकाम्॥९॥
प्रसन्नया कुमार्या तु स्वयं चाऽथ करोति या ॥
गृह्णाति या च वै नारी पिंडिकां बलिसंयुताम् ॥ ६.१७०.१० ॥
शतवर्षा तु या नारी पिंडिकां भक्षयेद्द्विजाः ॥
साऽपि पुत्रवती च स्याद्यदि वृद्धतमा भवेत् ॥ ११ ॥
किं पुनर्यौवनोपेता सौभाग्येन समन्विता ॥
पुत्रसौख्यवती नारी देव्या वै दर्शनेन च ॥ ॥ १२ ॥
सर्वेषां नागराणां तु भावजा देवता स्मृता ॥
सा सार्धाष्टद्विपंचाशद्गोत्राणां कुलदेवता ॥ १३ ॥
एतस्मात्कारणाद्यात्रा नागरैः सुकृता भवेत् ॥
न विना नागरैर्यात्रां तुष्टिं याति सुरेश्वरी ॥ १४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटके श्वरक्षेत्रमाहात्म्ये धारातीर्थोत्पत्तिमाहात्म्यवर्णनंनाम सप्तत्युत्तरशततमोऽध्यायः १७० ॥ ॥