स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १५९

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
पुष्पोऽपि तां समादाय माहिकाख्यां वरांगनाम् ॥
स तदा प्रययौ हृष्टो मणिभद्रस्य मंदिरम् ॥ १ ॥
शंखतूर्यनिनादेन सर्वैस्तैः स्वजनैर्वृतः ॥
न कस्य तत्र संभूतो विकल्पस्तत्समुद्भवः ॥ २ ॥
भास्करस्य प्रसादेन तथैवान्यस्य कर्हिचित् ॥
सोऽपि मंदिरमासाद्य यथात्मपितृसंभवम् ॥ ३ ॥
उपविश्य ततो मध्ये बन्धून्सर्वान्समाह्वयत् ॥
अद्य तावद्दिने मह्यं तुलाग्रं कमला श्रिता ॥ ४ ॥
चलितापि पुनश्चास्याः सुपत्न्या वाक्यतः स्थिता ॥
कियंतं चैव कालं मे कार्पण्यं महदास्थितम् ॥ ५ ॥
ज्ञातमद्य चला लक्ष्मीस्तेन त्यक्तं सुदूरतः ॥
तस्माद्बंधुजनैः सार्धं देवैर्विप्रैश्च कृत्स्नशः ॥
संविभक्तां करिष्यामि सत्येनात्मानमालभे ॥ ६ ॥
एवमुक्त्वा ततः सर्वान्समाहूय पृथक्पृथक् ॥
स नामभिर्ददौ वस्त्रं भूषणानि यथार्हतः ॥ ७ ॥
ततो वेदविदो विप्रान्समाहूय स नामभिः ॥
एकैकस्य ददौ वित्तं सवस्त्रं श्रद्धयान्वितः ॥ ८ ॥
ततस्तु नर्तकेभ्यश्च दीनांधेभ्यो विशेषतः ॥
ददौ भोज्यं समि ष्टान्नं सवस्त्रं च द्विजोत्तमाः ॥ ९ ॥
ततस्तु स्वयमेवान्नं बुभुजे भार्यया सह ॥
विसृज्य तान्समायातान्स्वजनान्ब्राह्मणैः सह ॥ ६.१५९.१० ॥
एवं तेन तदा प्राप्तं वित्तं च परसंभवम् ॥
बुभुजे स्वेच्छया नित्यं तदा भार्यासमन्वितः ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्पविभवप्राप्तिवर्णनंनामैकोनषष्ट्युत्तरशततमोऽध्यायः ॥ १५९ ॥