स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १४७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
तथान्योऽपि च तत्रास्ति देवः पुत्रप्रदो नृणाम् ॥
वटिकेश्वर नामा च सर्वपापहरो हरः ॥ १ ॥
यस्मिन्वटिकया पूर्वं तपस्तप्तं द्विजोत्तमाः ॥
प्राप्ता पुत्रं शुके याते वनं व्यासात्कपिंजलम् ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्यासौ वटिका तत्र कथं तप्तवती तपः ॥
कस्माद्गृहं परित्यक्त्वा शुकोऽपि वनमाश्रितः ॥ ३ ॥
कथं कपिजलं पुत्रं व्यासाल्लेभे शुचिस्मिता ॥ ४ ॥
।। सूत उवाच ॥ ॥
आसीद्व्यासस्य विप्रेंद्राः कलत्रार्थं मतिः क्वचित् ।
निष्कामस्य प्रशांतस्य सर्वज्ञस्य महात्मनः ॥ ५ ॥
ततः क्षयमनुप्राप्ते वंशे कुरुसमुद्भवे ॥
विचित्रवीर्यमासाद्य पार्थिवं द्विजसत्तमाः ॥ ६ ॥
सत्यवत्याः समादेशात्तस्य क्षेत्रे ततः परम् ॥
स पुत्राञ्जनयामास त्रीञ्छूरान्पांडुपूर्वकान् ॥ ७ ॥
वानप्रस्थव्रते तिष्ठन्सकृन्मैथुनतत्परः ॥
क्षेत्रजैस्तनयैर्वंशे कुरोस्तस्मादुपस्थिते ॥ ८ ॥
ततः स चिंतयामास भार्यामद्य करोम्यहम् ॥
गार्हस्थ्येनाथ धर्मेण साधयामि शुभां गतिम् ॥ ९ ॥
ततः स प्रार्थयामास जाबालिं तु सुतां शुभाम् ॥
वटिकाख्यां शुभां कन्यां स ददौ तस्य सत्वरम् ॥ ६.१४७.१० ॥
ततस्तया समेतः स वनवासं समाश्रितः ॥
वानप्रस्थाश्रमे तिष्ठन्कृतमैथुनतत्परः ॥ ११ ॥
ततो गर्भवती जज्ञे पिंजला तस्य पार्श्वतः ॥
ऋतौ मोहनमासाद्य व्यासात्सत्यवतीसुतात् ॥ १२ ॥
अथ याति परां वृद्धिं स गर्भस्तत्र संस्थितः ॥
उदरे व्यासभार्यायाः शुक्लपक्षे यथा शशी ॥ १३ ॥
एवं संगच्छतस्तस्य वृद्धिं गर्भस्य नित्यशः ॥
द्वादशाब्दा अतिक्रांता न जन्म समवाप्नुयात् ॥ १४ ॥
यत्किंचिच्छृणुते तत्र गर्भस्थोऽहि वचः क्वचित् ॥
तत्सर्वं हृदिसंस्थं च चक्रे प्रज्ञासमन्वितः ॥ १५ ॥
वेदाः सांगाः समाधीता गर्भवासेऽपि तेन च ॥
स्मृतयश्च पुराणानि मोक्षशास्त्राणि कृत्स्नशः ॥ १६ ॥
तत्रस्थोऽपि दिवा नक्तं स्वाध्यायं प्रकरोति सः ॥
न च जन्मोत्थजां बुद्धिं कथंचिदपि चिंतयेत् ॥ १७ ॥
सापि माता परा पीडां नित्यं याति तथाकुला ॥
यथायथा स संयाति वृद्धिं जठरमाश्रितः ॥ १८ ॥
ततश्च विस्मयाविष्टो व्यासो वचनमब्रवीत् ॥
कस्त्वं मद्गृहिणीकुक्षौ प्रविष्टो गर्भरूपधृक् ॥ १९ ॥
न निष्क्रामसि कस्मात्त्वं किमेतां सूदयिष्यसि ॥ ॥
॥ गर्भ उवाच ॥ ॥
राक्षसोऽहं पिशाचोहं देवोऽहं मानुषस्तथा ॥६.१४७.२॥।
गजोऽहं तुरगश्चापि कुक्कुटश्छाग एव च ॥
योनीनां चतुराशीतिसहस्राणि च संख्यया ॥ २१ ॥
भ्रांतोऽहं तेषु सर्वेषु तत्कोऽहं प्रब्रवीमि किम् ॥
सांप्रतं मानुषो भूत्वा जठरं समुपाश्रितः ॥ २२ ॥
मानुषं न करिष्यामि निष्कामं च कथंचन ॥
निर्विष्टो भ्रममाणोऽत्र संसारे दारुणे ततः ॥२३ ॥
अत्रस्थो भवनिर्मुक्तो योगाभ्यासरतः सदा ॥
मोक्षमार्गं प्रयास्यामि स्थानान्मोक्षमसंशयम्॥ २४ ॥
तावज्ज्ञानं च वैराग्यं पूर्वजातिस्मृतिर्यथा ॥
यावद्गर्भस्थितो जन्तुः सर्वोऽपि द्विजसत्तम ॥ २५ ॥
यदा गर्भाद्विनिष्क्रांतः स्पृश्यते विष्णुमायया ॥
तदा नाशं व्रजत्याशु सत्यमेतदसंशयम् ॥ २६ ॥
तस्मान्नाहं द्विजश्रेष्ठ निष्क्रमिष्ये कथंचन ॥
गर्भादस्मात्प्रयास्यामि स्थानान्मोक्षमसंशयम् ॥ २७ ॥
॥ व्यास उवाच ॥ ॥
न भविष्यति ते माया वैष्णवी सा कथंचन ॥
सुघोरान्नरकादस्मान्निष्क्रमस्व विगर्हितात् ॥ २८ ॥
गर्भवासात्ततो योगं समाश्रित्य शिवं व्रज ॥
तस्माद्दर्शय मे वक्त्रं स्वकीयं येन मे भवेत् ॥
आनृण्यं पितृलोकस्य तव वक्त्रस्य दर्शनात् ॥ २९ ॥
॥ गर्भ उवाच ॥ ॥
वासुदेवं प्रतिभुवं यदि मे त्वं प्रयच्छसि ॥
इदानीं यत्स्वयं तन्मे जन्म स्यान्नान्यथा द्विज ॥ ६.१४७.३० ॥
॥ सूत उवाच ॥ ॥
ततो व्यासो द्रुतं गत्वा द्वारकां प्रति दुःखितः ॥
कथयामास वृत्तांतं विस्तराच्चक्रपाणिने ॥ ३१ ॥
तेनैव सहितः पश्चात्स्वगृहं पुनरागतः ॥
व्यासः प्रतिभुवं तस्मै दातुं विष्णुं निरंजनम् ॥ ३२ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
प्रतिभूरस्मि नाशाय मायायास्तव निर्गमे ॥
मद्वाक्यान्निष्क्रमं कृत्वा गच्छ मोक्षमनुत्तमम् ॥ ३३ ॥
ततो द्रुतं विनिष्क्रांतो विष्णुवाक्येन स द्विजाः ॥
द्वादशाब्दप्रमाणस्तु यौवनस्य समीपगः ॥ ३४ ॥
ततः प्रणम्य दैत्यारिं व्यासं च जननीं तथा ॥
प्रस्थितो वनवासाय तत्क्षणाद्व्यासनंदनः ॥ ३५ ॥
अथ तं स मुनिः प्राह तिष्ठ पुत्रात्ममंदिरे ॥
संस्काराञ्जातकाद्यांश्च येन ते प्रकरोम्यहम् ॥ ३६ ॥
॥ शिशुरुवाच ॥ ॥
संस्काराः शतशो जाता मम जन्मनिजन्मनि ॥
भवार्णवे परिक्षिप्तो यैरहं बन्धनात्मकैः ॥ ३७ ॥
॥ श्रीभगवानुवाच ॥ ॥
शुकवज्जल्पते यस्मात्तवायं पुत्रको मुने ॥
तस्माच्छुकोऽयं नाम्नास्तु योगविद्याविचक्षणः ॥ ३८ ॥
नायं स्थास्यति हर्म्ये स्वे मोहमायाविवर्जितः ॥
तस्माद्गच्छतु मा स्नेहं त्वं कुरुष्वास्य संभवम् ॥ ३९ ॥
अहं गृहं प्रयास्यामि त्वं मुक्तः पैतृकादृणात्॥
दर्शनादेव पुत्रस्य सत्यमेतन्मयोदितम् ॥ ६.१४७.४० ॥
एवमुक्त्वा हृषीकेशो व्यासमामंत्र्य सत्वरम्॥
विहगाधिपमारूढः प्रययौ द्वारकां प्रति ॥ ४१ ॥
ततो गते हृषीकेशे व्यासः पुत्रमुवाच ह ॥
प्रस्थितं वनवासाय निःस्पृहं स्वगृहं प्रति ॥ ४२ ॥
॥ व्यास उवाच॥ ॥
गृहस्थधर्मरिक्तानां पितृवाक्यं प्रणश्यति ॥
पितृवाक्यं तु यो मोहान्नैव सम्यक्समाचरेत्॥
स याति नरकं तस्मान्मद्वाक्यात्पुत्र मा व्रज ॥ ४३ ॥
॥ शुक उवाच ॥ ॥
यथाद्याहं त्वया जातो मया त्वं चान्यजन्मनि ॥
संजातोऽसि मुनिश्रेष्ठ तथाहमपि ते पिता ॥ ४४ ॥
तस्माद्वाक्यं त्वया कार्यं यद्येषा धर्मसंस्थितिः ॥
नाहं निषेधनीयस्तु व्रजमानस्तपोवनम् ॥ ४५ ॥
॥ व्यास उवाच ॥ ॥
ब्राह्मणस्य गृहे जन्म पुण्यैः संप्राप्यते नृभिः ॥
संस्कारान्यत्र संप्राप्य वेदोक्तान्मुनिराप्यते ॥ ४६ ॥
॥ शुक उवाच ॥ ॥
संस्कारैराप्यते मुक्तिर्यदि कर्म शुभं विना ॥
पाखंडिनोऽपि यास्यंति तन्मुक्तिं व्रतधारिणः ॥ ४७ ॥
॥ व्यास उवाच ॥ ॥
ब्रह्मचारी भवेत्पूर्वं गृहस्थश्च ततः परम् ॥
वानप्रस्थो यतिश्चैव ततो मोक्षमवाप्नुयात् ॥ ४८ ॥
॥ शुक उवाच ॥ ॥
ब्रह्मचर्येण चेन्मोक्षस्तत्षण्ढानां सदा भवेत् ॥
गृहस्थाश्रमिणां चेत्स्यात्तत्सर्वं मुच्यते जगत् ॥ ४९ ॥
अथवा वनरक्तानां तन्मृगाणां प्रजायते ॥ ६.१४७.५० ॥
अथवा यतिधर्माणां यदि मोक्षो भवेन्नृणाम् ॥
दरिद्राणां च सर्वेषां तन्मुक्तिः प्रथमा भवेत् ॥ ५१ ॥
॥ व्यास उवाच ॥ ॥
गृहस्थधर्मरक्तानां नृणां सन्मार्गगामिनाम् ॥
इह लोकः परश्चैव मनुना संप्रकीर्तितः ॥ ५२ ॥
॥ श्रीशुक उवाच ॥ ॥
गृहगुप्तौ सुगुप्तानां बंधानां बंधुबंधनैः ॥
मोहरागसमावेशात्सन्मार्ग गमनं कुतः ॥ ५३ ॥
॥ व्यास उवाच ॥ ।
कष्टं वने निवसतोऽत्र सदा नरस्य नो केवलं निजतनुप्रभवं भवेच्च ।
दैवं च पित्र्यमखिलं न विभाति कृत्यं तस्माद्गृहे निवसतात्महितं प्रचिन्त्यम् ॥ ५४ ॥
॥ श्रीशुकदेव उवाच ॥ ॥
भावेन भावितमहातपसां मुनीनां तिष्ठन्ति तावदखिलानि तपःफलानि ॥
यत्ते निकाशशरणाः पुरुषा न जातु पश्यंत्यसज्जनमुखानि सुखं तदेव ॥ ५५ ॥
॥ व्यास उवाच ॥ ॥
गृहं परिग्रहः पुंसां गृहस्थाश्रमधर्मिणाम् ॥
इहलोके परे चैव सुखं यच्छति शाश्वतम् ॥ ५६ ॥
॥ श्रीशुक उवाच ॥ ॥
शीतं हुताशादपि दैवयोगात्सञ्जायते चन्द्रमसोऽपि तापः ॥
परिग्रहात्सौख्यसमुद्भवोऽत्र भूतोऽभवद्भावि न मर्त्यलोके ॥ ५७ ॥
॥ व्यास उवाच ॥ ॥
सुपुण्यैर्लभ्यते कृच्छ्रान्मानुष्यं भुवि दुर्लभम् ॥
तस्मिँल्लब्धे न किं लब्धं यदि स्याद्गृहधर्मवित् ॥ ५८ ॥
॥ श्रीशुकदेव उवाच ॥ ॥
यदि स्याज्ज्ञानसंयुक्तो जन्मकालेत्र मानवः ॥
निजावस्थां समालोक्य तज्ज्ञानं हि विलीयते ॥ ५९ ॥
॥ व्यास उवाच ॥ ॥
मुदितस्यापि पुत्रस्य गर्दभस्यार्भकस्य च ॥
भस्मलोलस्य लोकस्य शब्दोऽपि रटतो मुदे ॥ ६.१४७.६० ॥
॥ श्रीशुक उवाच ॥ ॥
रसता सर्पता धूलि लोके त्वशुचिना चिरम् ॥
मुनेऽत्र शिशुना लोकस्तुष्टिं याति स बालिशः ॥ ६१ ॥
॥ व्यास उवाच ॥ ॥
पुंनामास्ति महारौद्रो नरको यममन्दिरे ॥
पुत्रहीनो व्रजेत्तत्र तेन पुत्रः प्रशस्यते ॥ ६२ ॥
॥ श्रीशुक उवाच ॥ ॥
यदि स्यात्पुत्रतः स्वर्गः सर्वेषां स्यान्महामुने ॥
शूकराणां शुनां चैव शलभानां विशेषतः ॥ ॥ ६३ ॥
॥ व्यास उवाच ॥ ॥
पितॄणामनृणो मर्त्यो जायते पुत्रदर्शनात् ॥
पौत्रस्यापि च देवानां प्रपौत्रस्य दिवाश्रयः ॥ ६४ ॥ ॥
शुक उवाच ॥ ॥
चिरायुर्ज्जायते गृध्रः संततिं पश्यते निजाम् ॥
क्रमेण संततं किं न स मोक्षं प्रतिपद्यते ॥ ६५ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा परित्यज्य पितरं स वनं गतः ॥
मातरं च सुदुःखार्तां प्रलपन्तीमनेकधा ॥ ६६ ॥
तं दृष्ट्वा दुःखितो व्यासो निराशः पुत्रदर्शने ॥
पुत्रशोकाभिसंतप्तो भार्यया सहितोऽभवत् ॥ ६७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये व्यासशुकसंवादवर्णनंनाम सप्तचत्वारिंशदुत्तरशततमोध्यायः ॥ १४७ ॥ छ ॥