स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १४५

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
यत्त्वया कथितं सूत न मृता सा कुमारिका ॥
हता रौद्रप्रहारैश्च कौतुकं तन्महत्तरम् ॥ १ ॥
यतो भूयः प्रसंजाता योगिनी हरतुष्टिदा ॥
यत्त्वार्थं सर्वमाचक्ष्व कारणं च तदद्भुतम् ॥ २ ॥
॥ सूत उवाच ॥ ॥
सा प्रविष्टा समं तेन सुपुण्यममरेश्वरम् ॥
माघकृष्णचतुर्दश्यां न मृत्युर्यत्र विद्यते ॥ ३ ॥'
अपि चैवायुषः शेषे किमुताकालतो द्विजाः॥
तेन नो निधनं प्राप्ता हतापि सुदृढं तदा ॥ ४॥
॥ ऋषय ऊचुः ॥
अमरेश्वर इत्युक्तो यो देवो ह्यमरत्वदः ॥
केन संस्थापितो ह्यत्र किंप्रभावश्च कीर्तय ॥ ५ ॥
॥सूत उवाच ॥ ॥
अदितिश्च दितिश्चैव प्रजापतिसुते शुभे॥
कृते पुरातिरूपाढ्ये कश्यपेन महात्मना॥६॥
अदित्यां विबुधा जाता दितेश्चैव तु दैत्यपाः॥।
तेषां सापत्न्यभावेन महद्वैरमुपस्थितम्॥
अथ दैत्यैः सुरा ध्वस्ताः कृताश्चान्ये पराङ्मुखाः ॥
अन्ये तु भयसंत्रस्ता दिशो जग्मुः क्षतांगकाः ॥८॥
ततो दुःखसमायुक्ता देवमातात्र संस्थिता ॥
तपश्चक्रे दिवानक्तं शिवध्यानपरायणा ॥ ९ ॥
एवं तस्यास्तपःस्थाया गते युगचतुष्टये ॥
निर्भिद्य धरणीपृष्ठं शिवलिंगं समुत्थितम् ॥ ६.१४५.१० ॥
ततस्तस्मै कृतानन्दा स्तुत्वा स्तोत्रैः पृथग्विधैः ॥
अष्टांगप्रणिपातेन नमश्चक्रे समाहिता ॥ ११ ॥
एतस्मिन्नंतरे वाणी संजाता गगनांगणे ॥
शरीररहिता दिव्या मेघगम्भीरनिःस्वना ॥ १२ ॥
वरं प्रार्थय कल्याणि यस्ते हृदि व्यवस्थितः ॥
प्रसन्नोऽहं प्रदास्यामि तवाद्य शशिशेखरः ॥ १३ ॥
॥ अदितिरुवाच ॥ ॥
मम पुत्राः सुरश्रेष्ठ हन्यन्ते युधि दानवैः॥
तत्कुरुष्व गतायासानवध्यान्रणमूर्धनि ॥ १४ ॥
॥ श्रीभगवानुवाच ॥ ॥
एतल्लिंगं मदीयं ये स्पृष्ट्वा यास्यंति संयुगे ॥
अवध्यास्ते भविष्यन्ति यावत्संवत्सरं शुभे ॥ १५ ॥
अन्योऽपि मानवो योऽत्र चतुर्दश्यां समाहितः ॥
माघमासस्य कृष्णायां प्रकरिष्यति जागरम् ॥ ॥१६॥
सोऽपि संवत्सरं यावद्भविष्यति निरामयः ॥
अपि मृत्युदिने प्राप्ते योऽस्मिन्नायतने शुभे ॥ १७ ॥
आगमिष्यति तं मृत्युर्दूरात्परिहरिष्यति ॥
एवमुक्त्वाथ सा वाणी विरराम ततः परम् ॥ १८ ॥
अदितिश्चापि सन्तुष्टा हतशेषान्सुतांस्ततः ॥
समानीयाथ तल्लिंगं तेषामेव न्यदर्शयत् ॥
कथयामास तत्सर्वं माहात्म्यं यद्वरोदितम् ॥ १९ ॥
ततस्ते विबुधाः सर्वे तल्लिंगं प्रणिपत्य च ॥
प्रतिजग्मुस्तुष्टियुक्ताः शस्त्राण्यादाय तान्प्रति॥ ६.१४५.२० ॥
यत्र ते दानवा हृष्टाः स्थिताः शक्रपदे शुभे ॥
स्वर्गभोगसमायुक्ता नन्दनांतर्व्यवस्थिताः ॥ २१ ॥
अथ ते दानवा दृष्ट्वा संप्राप्तांस्त्रिदिवौकसः ॥
सहसा संगरार्थाय नानाशस्त्रधरान्बहून् ॥ २२ ॥
रथवर्यान्समारुह्य धृतशस्त्रास्त्रवर्मणः ॥
युद्धार्थं सम्मुखा जग्मुर्गर्जमाना घना इव ॥ २३ ॥
ततः समभवद्युद्धं देवानां दानवैः सह ॥
रोषप्रेरितचित्तानां मृत्युं कृत्वा निवर्तनम् ॥ २४ ॥
ततस्ते विबुधाः सर्वे हरलब्धवरास्तदा ॥
जघ्नुर्दैत्यानसंख्याताच्छितैः शस्त्रैरनेकधा ॥ २५ ॥
हतशेषाश्च ये तेषां ते त्यक्त्वा त्रिदशालयम् ॥
पलायनकृतोत्साहाः प्रविष्टा मकरालयम् ॥ २६ ॥
ततः शक्रः समापेदे स्वराज्यं दानवैर्हृतम् ॥
यदासीत्पूर्वकाले तत्समग्रं हतकण्टकम् ॥ २७ ॥
ततस्ते दानवाः शेषा ज्ञात्वा तल्लिंगसंभवम् ॥
माहात्म्यं वृषनाथस्य क्षेत्रस्यास्योद्भवस्य च ॥ २८ ॥
शुक्रेण कथितं सर्वं माघकृष्णे निशागमे ॥
चतुर्दश्यां शुचिर्भूत्वा यस्तल्लिंगं प्रपूजयेत् ॥
कालाघ्रातोऽपि न प्राणैः स पुमांस्त्यज्यते क्वचित् ॥२९॥
तस्माद्यूयं समासाद्य तल्लिंगं तद्दिने निशि ॥
पूजयध्वं महाभागा येन स्युर्मृत्युवर्जिताः ॥ ६.१४५.३० ॥
यावत्संवत्सरस्यातं सत्यमेतन्मयोदितम् ॥
यथा ते देवसंघाश्च तत्प्रभावादसंशयम् ॥ ३१ ॥
अथ तं दानवेन्द्राणां मंत्रं ज्ञात्वा सुरेश्वरः ॥
नारदाद्ब्राह्मणः पुत्राद्भयत्रस्तमनास्ततः ॥ ३२ ॥
मंत्रं चक्रे समं देवैस्तत्र देवस्य रक्षणे ॥
यथा स्यादुद्यमः सम्यक्तस्मिन्नहनि सर्वदा ॥ ३३ ॥
कोटयस्तु त्रयस्त्रिंशद्देवानां सायुधास्ततः ॥
रक्षार्थं तस्य लिंगस्य तस्मिन्क्षेत्रे व्यवस्थिताः ॥
माघकृष्णचतुर्दश्यां सुसंनद्धाः प्रहारिणः ॥ ३४ ॥
अथ ते दानवा दृष्ट्वा तान्देवांस्तत्र संस्थितान् ॥
भयसंत्रस्तमनसो दुद्रुवुः सर्वतो दिशम् ॥ ३५ ॥
अथ प्रभाते विमले प्रोद्गते रविमण्डले ॥
भूय एव सुराः सर्वे मंत्रं चक्रुः परस्परम् ॥ ३६ ॥
यद्येतत्क्षेत्रमुत्सृज्य गमिष्यामः सुरालयम् ॥
लिंगमेतत्समभ्येत्य पूजयिष्यंति दानवाः ॥ ३७ ॥
ततोऽवध्या भविष्यंति तेऽपि सर्वे यथा वयम् ॥
तस्मादत्रैव तिष्ठामस्त्रयस्त्रिंशत्प्रनायकाः ॥ ३८ ॥
कोटीनामेव सर्वेषां शेषा गच्छन्तु तत्र च ॥
सहस्राक्षेण संयुक्ताः स्वर्गे स्वपररक्षकाः ॥ ३९ ॥
ततोऽष्टौ वसवस्तत्र द्वादशार्कास्तथैव च ॥
एकादशापरे रुद्रा नासत्यौ द्वौ च सुन्दरौ ॥६.१४५.४॥।
एते तल्लिंगरक्षार्थं तस्मिन्क्षेत्रे व्यवस्थिताः॥
शेषाः शक्रसमायुक्ताः प्रजग्मुस्त्रिदशालयम् ॥ ४१ ॥
॥ सूत उवाच ॥ ॥
एवं प्रभावं लिंगं तु देवदेवस्य शूलिनः ॥
भवद्भिः परिपृष्टं यददित्या स्थापितं पुरा ॥ ४२ ॥
यस्मान्न विद्यते मृत्युस्तेन दृष्टेन देहिनाम् ॥
अमराख्यं ततो लिंगं विख्यातं भुवनत्रये ॥ ४३ ॥
यस्मिन्देशेऽपि सा कन्या हता तेन द्विजन्मना ॥
जाबालिना सुक्रुद्धेन तस्य देवस्य मंदिरे ॥ ॥ ४४ ॥
आसीत्तत्र दिने कृष्णा माघमास चतुर्दशी ॥
तेन नो निधनं प्राप्ता सुहताऽपि तपस्विनी ॥ ४५ ॥
एतद्वः सर्वमाख्यातं तस्य लिंगस्य सम्भवम् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥ ४६ ॥
यश्चैतत्पठते भक्त्या तस्य लिंगस्य संनिधौ ॥
अपमृत्युभयं तस्य कथंचिन्नैव जायते ॥ ४७ ॥
तस्याग्रेऽस्ति शुभं कुण्डं पूरितं स्वच्छवारिणा ।
अदित्या निर्मितं देव्या स्नानार्थं चात्मनः कृते ॥ ४८ ॥
स्नानं कृत्वा नरस्तस्मिन्यस्तल्लिंगं प्रपश्यति ॥
करोति जागरं रात्रौ तस्मिन्नेव दिनेदिने ॥
सोऽद्यापि वत्सरं यावन्नापमृत्युमवाप्नुयात् ॥ ४९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽमरकेश्वरक्षेत्रमाहात्म्यवर्णनंनाम पंचचत्वारिंशदधिकशततमो ऽध्यायः ॥ १४५ ॥ ॥ छ ॥