स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १४४

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
सा गत्वा त्रिदिवं पश्चात्सहस्राक्षं सुरैर्युतम् ॥
प्रोवाच भगवन्दिष्ट्या क्षोभितोऽसौ महामुनिः ॥ १ ॥
तपस्तस्य हतं कृत्स्नं यत्कृच्छ्रेण समाचितम् ॥
तथा निस्तेजसत्वं च नीतस्त्वं सुखभाग्भव ॥ २ ॥
एवमुक्त्वाऽथ सा रंभा शंसिता निखिलैः सुरैः ॥
अमोघरेतसस्तस्य दध्रे गर्भं निजोदरे । ३ ।
जाबालिरपि कृत्वा च पश्चात्तापमनेकधा ॥
भूयस्तु तपसि स्थित्वा स्थितस्तत्रैव चाश्रमे ॥ ४ ॥
ततस्तु दशमे मासि संप्राप्ते सुषुवे शुभाम् ॥
कन्यां सरोजपत्राक्षीं दिव्यलक्षणलक्षिताम् ॥ ५ ॥
अथ तां मानुषोद्भूतां मत्वा तस्यैव चाश्रमम् ॥
गत्वा मुमोच प्रत्यक्षं तस्यर्षेश्चेदमब्रवीत् ॥ ६ ॥
तव वीर्यसमुद्भूतामेनां मज्जठरोषिताम् ॥
कन्यकां मुनिशार्दूल तस्मात्पालय सांप्रतम् ॥ ७ ॥
न स्वर्गे विद्यते वासो मानुषाणां कथंचन ॥
एतस्मात्कारणात्तुभ्यं मया ब्रह्मन्समर्पिता ॥ ८ ॥
एवमुक्त्वा ययौ रंभा सत्वरं त्रिदशालयम् ॥
जाबालिरपि तां दृष्ट्वा कन्यकां स्नेहमाविशत् ॥ ९ ॥
ततस्तां कन्यकां कृत्वा सुष्ठु गुप्ते लतागृहे ॥
रसैर्मिष्टफलोद्भूतैः पुपोष च दिवानिशम् ॥ ६.१४४.१० ॥
सापि कन्या परां वृद्धिं शनैर्याति दिनेदिने ।
शुक्लपक्षं समासाद्य यथा चन्द्रकला दिवि ॥ ११ ॥
यथायथाथ सा याति वृद्धिं कमललोचना ॥
तथातथास्य सुस्नेहो जाबालेरप्यवर्धत । १२ ।
सा शिशुत्वे मृगैः सार्द्धं पक्षिभिश्च सुशोभना ॥
क्रीडां चक्रे सुविश्रब्धैर्वर्धयंती मुनेर्मुदम् ॥ १३ ॥
ततो बाल्यं परित्यक्त्वा वल्कलावृतगात्रिका ॥
तस्यर्षेः सर्वकृत्येषु साहाय्यं प्रकरोति च ॥ १४ ॥
समित्कुशादि यत्किंचित्फलपुष्पसमन्वितम् ॥
वनात्तदानयामास तस्य प्रीतिमवर्धयत् ॥ ॥ १५ ॥
ततः कतिपयाहस्य फलार्थं सा मृगेक्षणा ॥
निदाघसमये दूरं स्वाश्रमात्प्रजगाम ह ॥ १६ ॥
एतस्मिन्नंतरे तत्र विमानवरमाश्रितः ॥
प्राप्तश्चित्रांगदोनाम गन्धर्वस्त्रिदिवौकसाम् ॥ १७ ॥
तेन सा विजने बाला पूर्णचन्द्रनिभानना ॥
दृष्टा चांद्रमसी लेखा पतितेव धरातले ॥ १८ ॥
ततः कामपरीतांगः सोवतीर्य धरातलम्॥
विमानान्मधुरैर्वाक्यैस्तामुवाच कृतांजलिः ॥ १९ ॥
का त्वं कमलगर्भाभा निर्जनेऽथ महावने ॥
भ्रमस्येकाकिनी बाले वनमध्ये सुलोचने ॥ ६.१४४.२० ॥
॥ कन्योवाच ॥ ॥
अहं फलवतीनाम जाबालेर्दुहिता मुने ॥
फलपुष्पार्थमायाता तदर्थमिह कानने ॥ २१ ॥
॥ चित्रांगद उवाच ॥ ॥
कुमारब्रह्मचारी स श्रूयते मुनिसत्तमः ॥
तत्कथं तस्य वामोरु त्वं जाता भार्यया विना ॥ २२ ॥
॥ कन्योवाच ॥ ॥
सत्यमेतन्महाभाग नास्ति दारपरिग्रहः ॥
तस्यर्षेः किं तु संजाता यथा तन्मेऽवधारय ॥ २३ ॥
रंभा नामाप्सरास्तेन पुरा दृष्टा सुरांगना ॥
ततः कामपरीतेन सेविता च यथासुखम्॥२४ ॥
ततस्तदुदराज्जाता देवलोके महत्तरे ॥
तयापि चेह तस्यर्षेर्भूय एव नियोजिता ॥ २५ ॥
एवं स मे पिता जातो जाबालिर्मुनिसत्तमः ॥
पोषिताऽहं ततस्तेन नानाफलसमुद्रवैः ॥ २६ ॥
ततः फलवती नाम कृतं तेन महात्मना ॥
ममानुरूपमेतद्धि यन्मां त्वं परिपृच्छसि ॥ २७ ॥
॥ चित्रांगद उवाच ॥ ॥
तव रूपं समालोक्य कामस्याहं वशं गतः ॥
तस्माद्भजस्व मां भीरु नो चेद्यास्यामि संक्षयम् ॥ २८ ॥
अहं चित्रांगदोनाम गन्धर्वस्त्रिदिवौकसाम् ॥
तीर्थयात्राकृते प्राप्तः क्षेत्रेऽस्मिञ्छ्रद्धयाऽन्वितः ॥ २९ ॥
॥ कन्योवाच ॥ ॥
कुमारधर्मिणी चाहमद्यापि वशगा पितुः ॥
कामधर्मं न जानामि चित्रांगद कथंचन ॥ ॥ ६.१४४.३० ॥
तस्मात्प्रार्थय मे तातं स मां तुभ्यं प्रदास्यति ॥
अनुरूपाय योग्याय तरुणाय मनस्विनीम् ॥३१ ॥
ममापि रुचितं चित्ते तव वाक्यमिदं शुभम् ॥
धन्याहं यदि ते कण्ठमालिंगामि यथेच्छया ॥ ३२ ॥
॥ चित्रांगद उवाच ॥ ॥
न शक्नोमि महाभागे तावत्कालं प्रतीक्षितुम् ॥
मां दहत्येष गात्रोत्थः सुमहान्कामपावकः ॥ ३३ ॥
तस्मात्कुरु प्रसादं मे रतिदानेन शोभने ॥
को जानाति हि तच्चित्तं कीदृग्रूपं भविष्यति ॥ ३४ ॥ ॥
॥ कन्योवाच ॥ ॥
एवं ते वर्तमानस्य मम तातः प्रकोपतः ॥
दहिष्यति न संदेहः शापं दत्त्वा सुदारुणम्॥ ३५ ॥
॥ चित्रांगद उवाच ॥ ॥
तव तातः स कालेन मां दहिष्यति मानदे ॥
कामानलः पुनः सद्य एष भस्म करिष्यति ॥३६॥
एवमुक्त्वाऽथ तां बालां वेपमानां त्रपावतीम् ॥
गृहीत्वा दक्षिणे पाणौ प्रविवेश सुरालयम् ॥ ३७ ॥
तत्र तां रमयामास तदा कामप्रपीडितः ॥
तत्कालजातरागांधां निर्लज्जत्वमुपागताम् ॥ ॥ ३८ ॥
एवं तस्याः समं तेन स्थिताया दिवसो गतः ॥
निमेषवन्मुनिश्रेष्ठास्ततश्चास्तं गतो रविः ॥ ३९ ॥
एतस्मिन्नंतरे विप्रो जाबालिर्दुःख संयुतः ॥
अनायातां सुतां ज्ञात्वा परिबभ्राम सर्वतः ॥ ६.१४४.४० ॥
अहो सा दुहिता मह्यं किमु व्यालैः प्रभक्षिता ॥
वृक्षं कंचित्समारूढा पतिता धरणी तले ॥ ४१ ॥
किं वा जलाशयं कंचित्प्राप्य गाधमजानती ॥
निमग्ना तत्र सा बाला संप्रविष्टा जलार्थिनी ॥ ४२ ॥
एवं स प्रलपन्विप्रो बभ्राम गहने वने ॥
कुशकण्टकविद्धांगः क्षुत्पिपासासमाकुलः ॥ ४३ ॥
यंयं शृणोति शब्दं स मृगपक्षिसमुद्भवम् ॥
रजन्यां तत्र निर्याति मत्वा फलवतीं च ताम् ॥ ४४ ॥
अथ क्रमात्समायातो हरहर्म्यं स सन्मुनिः ॥
यत्र चित्रांगदोपेता सा संतिष्ठति कन्यका ॥ ४५ ॥
निःशंका जल्पमाना च रागवाक्यान्यनेकशः ॥
अनर्हाणि कुमारीणां ब्रह्मजानां विशेषतः ॥ ४६ ॥
ततः स सुचिरं श्रुत्वा दूरस्थो विस्मयान्वितः ॥
कुमार्याश्चेष्टितं दृष्ट्वा कोपसंरक्तलोचनः ॥ ४७ ॥
अथ दुद्राव वेगेन गृह्य काष्ठसमुच्चयम् ॥
द्वाभ्यामेव विनाशाय भर्त्समानो मुहुर्मुहुः ॥ ४८ ॥
धिग्धिक्पापसमाचारे कौमार्यं दूषितं त्वया ॥
लांछनं च समानीतं मम लोकत्रयेऽपि च ॥ ४९ ॥
नितरां पतिमासाद्य कर्मणानेन चाधमे ॥
तस्मादनेन पापेन युक्तां त्वां नाशयाम्यहम् ॥ ६.१४४.५० ॥
एवमुक्त्वा प्रहारं स यावत्क्षिपति सन्मुनिः ॥
तावच्चित्रांगदो नष्टो व्योममार्गेण सत्वरम् ॥ ५१ ॥
विवस्त्रा सापि तत्रैव खिन्नांगी कामसेवया ॥
न शशाक क्वचिद्गंतुं समुत्थाय ततः क्षितौ ॥ ५२ ॥
ततः काष्ठप्रहारोघैर्हत्वा तां पतितां क्षितौ॥
मृतामिति परिज्ञाय स क्रोधपरिवारितः ॥ ५३ ॥
ततश्चित्रांगदस्यापि ददौ शापं सुदारुणम् ॥
स दृष्ट्वाऽऽकाशमार्गेण गच्छमानं भयातुरम् ॥ ५४ ॥
य एष कन्यकां मह्यं धर्षयित्वा समुत्पतेत् ॥
स पतत्वचिरात्पापश्छिन्नपक्ष इवांडजः ॥ ५५ ॥
कुष्ठव्याधिसमायुक्तश्चलितुं नैव च क्षमः ॥
एतस्मिन्नन्तरे भूमौ स पपात नभस्तलात् ॥ ५६ ॥
कुष्ठव्याधिसमायुक्तः स च चित्रांगदो युवा ॥
ततस्तं स मुनिः प्राह काष्ठोद्यतकरः क्रुधा ॥ ५७ ॥
कस्त्वं पापसमाचार येन मे धर्षिता बलात् ॥
कुमारी तन्नयाम्येष त्वामद्य यम शासनम् ॥ ५८ ॥
॥ चित्रांगद उवाच ॥ ॥
अहं चित्रांगदोनाम गन्धर्वस्त्रिदिवौकसाम् ॥
तीर्थयात्राप्रसंगेन क्षेत्रेऽस्मिन्समुपागतः ॥ ५९ ॥
ततस्तु कन्यकां दृष्ट्वा कामदेववशं गतः ॥ ६.१४४.६० ॥
ततः सेवितवानत्र लताहर्म्ये जनच्युते ॥
तस्मात्कुरु क्षमां मह्यं दीनस्य प्रणतस्य च ॥ ६१ ॥
यथा व्याधेर्भवेन्नाशो यथा स्याद्गगने गतिः ॥
भूयोऽपि त्वत्प्रसादेन स्वल्पः कोपो हि साधुषु ॥ ६२ ॥
॥ जाबालिरुवाच ॥ ॥
ईदृग्रूपधरस्त्वं हि मम वाक्याद्भविष्यसि ॥
एषापि मत्सुता पापा वस्त्रहीना सदेदृशी ॥ ६३ ॥
भविष्यति न संदेहो जीवयिष्यति चेत्क्वचित् ॥
यद्येषा धास्यति क्वापि वस्त्रं गात्रे निजे क्वचित् ॥ ६४ ॥
तन्नूनं च शिरोऽप्यस्याः फलिष्यति न संशयः ॥
एवमुक्त्वा विकोपश्च स जगाम निजाश्रमम् ॥ ६५ ॥
चित्रांगदोऽपि तत्रैव तया सार्धं तथा स्थितः ॥
कस्यचित्त्वथ कालस्य तत्र क्षेत्रे समाययौ ॥ ६६ ॥
चैत्रशुक्लचतुर्दश्यां भगवाञ्छशिशेखरः ॥
गन्तुं चित्रेश्वरे पीठे गणै रौद्रैः समावृतः ॥
योगिनीभिः प्रचण्डाभिः सार्धं प्राप्ते निशामुखे ॥ ६७ ॥
अथ प्राप्ते निशार्धे तु योगिन्यस्ताः सुदारुणाः ॥
महामांसं महामांसमित्यूचुर्भक्षणाय वै ॥६८॥
नृत्यमानाः पुरस्तस्य देवदेवस्य शूलिनः ॥
सस्पर्धा गणमुख्यैस्तैर्नर्तमानैः समंततः ॥६९ ॥
यस्तत्र समये तासां महामांसं प्रयच्छति ॥
मंत्रपूतं स संसिद्धिं समवाप्नोति वांछिताम् ॥ ६.१४४.७० ॥
मद्यं मांसं तथा चान्यन्नैवेद्यं वा फलादिकम् ॥
तस्य सिद्धिः समादिष्टा यथा स्वहृदये स्थिता ॥ ७१ ॥
एतस्मिन्नंतरे कन्या सा जाबालिसमुद्भवा ॥
स च चित्रांगदस्तत्र गत्वा प्रोवाच सादरम् ॥ ७२॥
अस्मदीयमिदं मांसं योगिन्यो हर्षसंयुताः ॥
भक्षयन्तु यथासौख्यं स्वयमेव प्रकल्पितम् ॥ ७३ ॥
अथ तं पुरुषं दृष्ट्वा कुष्ठव्याधिसमावृतम् ॥
विवस्त्रां कन्यकां तां च सर्वास्ता विस्मयान्विताः ॥ ७४ ॥
ते च सर्वे गणा रौद्राः स च देवस्त्रिलोचनः ॥
पप्रच्छ कौतुकाविष्टस्तत्र चित्रांगदं प्रभुः ॥ ७५ ॥
कस्त्वं धैर्यसमायुक्तो महत्सत्त्वे व्यवस्थितः ॥
यः प्रयच्छसि जीवं त्वं कीटस्यापि सुवल्लभम् ॥ ७६ ॥
केयं च वसनैंर्हीना त्वया सार्धं गतव्यथा ॥
प्रयच्छति निजं देहं यद्देयं नैव कस्यचित् ॥ ७७ ॥
॥ सूत उवाच ॥ ॥
ततः स कथयामास सर्वमात्मविचेष्टितम् ॥
यथा कन्यासमं संगः कृतः शापश्च सन्मुनेः ॥ ७८ ॥
ततश्चित्रांगदं दृष्ट्वा स गन्धर्वं दिवौकसाम् ॥
तथारूपं कृपाविष्टस्ततः प्रोवाच शंकरः ॥ ७९ ॥
मम संदर्शनं प्राप्य न मृत्युर्जायते क्वचित् ॥
न वृथा दर्शनं चैतत्तस्मात्प्रार्थय सादरम् ॥ ६.१४४.८० ॥
॥ चित्रांगद उवाच ॥. ॥
व्याधिनाऽहं सुनिर्विण्णस्तेन देवात्र चागतः ॥
येन व्याधिक्षयो भावी देहनाशेन शंकर ॥ ८१ ॥
तस्मात्कुरु क्षयं व्याधेर्यदि यच्छसि मे वरम् ॥
खेचरत्वं पुनर्देहि येन स्वर्गं व्रजाम्यहम् ॥ ८२ ॥
॥ श्रीशंकर उवाच ॥ ॥
त्वं स्थापयात्र मल्लिंगं पीठे गन्धर्वसत्तम ॥
ततश्चाराधय प्रीत्या यावद्वर्षमुपस्थितम् ॥ ८३ ॥
यथायथा सुपूजां त्वं मल्लिंगस्य करिष्यसि ॥
दिनेदिने तथा व्याधेस्तव नाशो भविष्यति ॥ ८४ ॥
ततस्तु खे गतिं प्राप्य पुनः स्वर्गं प्रयास्यसि ॥
मत्प्रसादान्न सन्देहः सत्यमेतन्मयोदितम् ॥ ८५ ॥
एषापि कन्यका यस्मात्प्रविष्टा पीठमध्यतः ॥
तस्मात्फलवतीनाम योगिनी सम्भविष्यति ॥ ८६ ॥
अनेनैव तु रूपेण नग्नत्वेन व्यवस्थिता ॥
मुख्यामवाप्स्यते पूजां वांछितं च प्रदास्यति ॥
पूजकानां स्थितं चित्ते शतसंख्यगुणं तदा ॥ ८७ ॥
एतां संपूजयेन्मर्त्यः पीठमेतत्ततः परम्॥
पूजयिष्यति तस्येष्टा सिद्धिरेवं भविष्यति ॥ ८८ ॥
एवमुक्त्वा ततः साऽथ हर्षेण महताऽन्विता ॥
योगिनीवृंदमध्यस्था नृत्यं चक्रे ततः परम् ॥ ८९
एवं बभूव सा तत्र योगिनी च वरांगना ॥
तथा चक्रे परं नृत्यं यथा तुष्टो महेश्वरः ॥ ६.१४४.९० ॥
ततः प्रोवाच तां हृष्टः सर्वयोगिनिसंनिधौ ॥
अनेन तव नृत्येन गीतेन च विशेषतः ॥ ९१ ॥
परितुष्टोस्मि ते वत्से तस्माच्छृणु वचो मम ॥
निशीथेऽद्य दिने प्राप्ते यस्ते पूजां करिष्यति ॥ ९२ ॥
सुरा मांसान्नसत्कारैर्मंत्रैरागमसंभवैः ॥
स भविष्यति तत्कालं शापानुग्रहशक्तिमान् ॥ ९३ ॥
बंधनं मोहनं चापि शत्रोरुच्चाटनं तथा ॥
करिष्यति न सन्देहो वशीकरणमेव च ॥ ९४ ॥
त्रिकोणं कुण्डमास्थाय दिशां पालान्प्रपूजयेत् ।
क्षेत्रपालं च सर्वास्ता देवता गमनोद्भवाः ॥ ९५ ॥
तथा चत्वरपूजां च प्रकृत्वा विधिपूर्वकम् ॥
पश्चात्त्वां पूजयित्वा च होमं यश्च करिष्यति ॥ ९६ ॥
शत्रुवामपदोत्थेन स्पृष्टेन रजसाऽथवा ॥
गुग्गुलेन सहस्रांतं स्तंभनं च करिष्यति ॥ ९७ ॥
यश्च शत्रुं हृदि स्थाप्य शत्रूद्वर्तनसंभवम् ॥
मलं धात्रीफलैः सार्धं मोहनं स करिष्यति ॥ ९८ ॥
यः शत्रोः स्नानजं तोयं गृहीत्वा चाथ कर्दमम् ॥
शिवनिर्माल्यसंयुक्तं जुह्वयिष्यति पावके ॥ ९९ ॥
तवाग्रे स नरो नूनं शत्रुमुच्चाटयिष्यति ॥
एषोपि तव संगेन तव चित्रांगदः प्रियः ॥
संप्राप्स्यति च सत्पूजामनुषंगात्त्वदुद्भवात् ॥ ६.१४४.१०० ॥
॥ फलवत्युवाच ॥ ॥
यदि देव प्रसन्नो मे तथान्यमपि सद्वरम्॥१०१॥
हृदिस्थं देहि मे सौख्यं येन संजायतेऽखिलम् ॥
पिता ममैष जाबालिर्निर्मुक्तो वसनैः सदा ॥ १०२ ॥
अहं यथा तथात्रैव संतिष्ठतु दिवानिशम् ।
येन संतापमायाति पश्यन्मम विरोधिनीम् ॥ १०३ ॥
क्रीडां ब्राह्मणवंशस्य मद्यमांससमुद्भवाम् ॥
मद्यगन्धं समाघ्राति मांसं पश्यति संस्कृतम् ॥
मां स्वच्छंदरतां नित्यं दुःखं याति दिनेदिने ॥ १०४ ॥
॥ श्रीभगवानुवाच ॥ ॥
एवं भविष्यति प्रोक्तं संजातं चाधुना शुभे ॥
अहं यास्यामि कैलासं त्वं तिष्ठात्र यथोदिता ॥ १०५ ॥
॥ सूत उवाच ॥ ॥
एवं स भगवान्प्रोक्त्वा गतश्चादर्शनं हरः ॥
योगिन्यश्चैव ताः सर्वाः स्वेस्वे स्थाने व्यवस्थिताः ॥ १०६ ॥
चित्रांगदोपि तत्रैव कृत्वा प्रासादमुत्तमम् ॥
लिंगं संस्थापयामास देवदेवस्य शूलिनः ॥ १०७ ॥
ततश्चाराधयामास दिवारात्रमतंद्रितः ॥ १०८ ॥
ततः संवत्सरस्यांते व्याधिमुक्तः सुरूपधृक् ॥
विमानवरमारूढो जगाम त्रिदशालयम् ॥
सोऽपि जाबालिनामाथ विवस्त्र समपद्यत ॥ १०९ ॥
जनहास्यकरो लोके स्थितस्तत्रैव सर्वदा ॥
पश्यमानो विकारांस्तान्दुःखितः स्वसुतोद्भवान् ॥ ६.१४४.११० ॥
ततश्च गर्हयामास स्त्रीणां जन्म महामुनिः ॥
तस्मिन्पीठे समासाद्य दुःखेन महताऽन्वितः ॥ १११ ॥
अहो पापात्मनां पुंसां संभविष्यंति योषितः ॥
यासामीदृक्समाचारो द्विजवंशोद्भवास्वपि ॥ ११२ ॥
सकृदेव मया संगः कृतो नार्या समन्वितः ॥
आजन्ममरणं यावत्पापं प्राप्तं यथेदृशम् ॥ ११३ ॥
ये पुनस्तासु संसक्ताः सदैव पुरुषाधमाः ॥
का तेषां जायते लोके गतिर्वेद्मि न चिंतयन् ॥ ११४ ॥
एवं तस्य ब्रुवाणस्य योगिन्यस्ताः क्रुधान्विताः ॥
तमूचुर्ब्राह्मणं तत्र घृणया परिवारितम्॥ ११५ ॥
॥ योगिन्य ऊचुः ॥
मा निंदां कुरु मूढात्मंस्त्वं स्त्रीणां योगमाश्रितः ॥
एतच्चराचरं विश्वं स्त्रीभिः संधार्यते यतः ॥ ११६ ॥
याभिः संजनितः शेषः कूर्मश्च तदनंतरम् ॥
याभ्यां संधार्यते पृथ्वी यस्यां विश्वं प्रतिष्ठितम् ॥ ११७ ॥
धन्येयं ते सुता मूढ या प्राप्ता योगमुत्तमम् ॥
प्राप्ता च परमं स्थानं स्तोकैरेवात्र वासरैः ॥ ११८॥।
त्वं पुनर्मूर्खतां प्राप्तश्छांदसं मार्गमास्थितः ॥
अविद्यया समायुक्तः संसारेऽत्र भ्रमिष्यसि ॥ ११९ ॥
॥ मुनिरुवाच ॥
स्त्रियो निंद्यतमाः सर्वाः सर्वावस्थासु दुःखदाः ॥
इहलोके परे चैव ताभ्यः सौख्यं न लभ्यते ॥ ६.१४४.१२० ॥
यदर्थं निहतः शुम्भो निशुम्भश्च महासुरः ॥
रावणो दण्डभूपश्च तथान्येऽपि सहस्रशः ॥ १२१ ॥
प्राप्य तादृग्द्विजं कांतं गौतमं स्त्रीस्वभावतः ॥
अहिल्या शक्रमासाद्य चकमे शीलवर्जिता ॥ १२२ ॥ ॥
॥ कन्योवाच ॥ ॥
यच्च निंदसि मूढात्मन्संति निंद्याश्च योषितः ॥
तद्वदस्व मया सार्धं येन त्वां बोधयाम्यहम् ॥ १२३ ॥
न तेऽस्ति हृदये बुद्धिर्न लज्जा न दया मुने ॥
किमंत्यजोऽपि तत्कर्म कुरुते यत्त्वया कृतम् ॥ १२४ ॥
अहं तावत्प्रहारेण त्वया व्यापादिताऽधम ॥
स्त्रीहत्योद्भवपापस्य न चिन्ता विधृता हृदि ॥ १२५ ॥
विशेषेण सुतायाश्च कोपाविष्टेन चेतसा ॥
गच्छंति पातकान्यत्र प्रायश्चित्तैः पृथग्विधैः ॥ ॥ १२६ ॥
स्त्रीवधोत्थं पुनर्याति यदि तत्त्वं प्रकीर्तय ॥
एतन्मे न च दुःखं स्याद्यद्धतास्मि द्विजाधम ॥ १२७ ॥
यच्छप्ता नग्नसद्भावं नीता तत्पातकं च ते ॥
कल्पांतेऽपि सुदुर्बुद्धे न संयास्यति कुत्रचित् ॥ १२८ ॥
तस्माद्भुंक्ष्व सुदुःखार्तः स्थितोऽत्रैव मया सह ॥
न भूयो निंदसि प्रायो न च व्यापादयिष्यसि ॥ १२९ ॥
अनिंद्या योषितः सर्वा नैता दुष्यंति कर्हिचित् ॥
मासिमासि रजो ह्यासां दुष्कृतान्यपकर्षति ॥ ६.१४४.१३० ॥
॥ मुनि रुवाच ॥ ॥
स्त्रियः पापसमाचारा नैताः शुध्यंति कर्हिचित् ॥
परकांते रतिर्यासामंत्यजत्वं प्रयच्छति ॥ १३१ ॥
॥ कन्योवाच ॥ ॥
मा मैवं वद मूढात्मन्नमेध्या इति योषितः ॥
अत्र श्लोकः पुरा गीतो मनुना तं निबोध मे ॥ १३२ ॥
ब्राह्मणाः पादतो मेध्या गावो मेध्यास्तु पृष्ठतः ॥
अजाश्वा मुखतो मेध्या स्त्रियो मेध्याश्च सर्वतः ॥ १३३ ॥
॥ मुनिरुवाच ॥ ॥
ब्राह्मणाः सर्वतो मेध्या गावो मेध्याश्च सर्वतः ॥
अजाश्वा मुखतो मेध्या न मेध्याश्च स्त्रियः क्वचित् ॥ १३४ ॥
॥ कन्योवाच ॥ ॥
तस्य चिंतामणिर्हस्ते तस्य कल्पद्रुमो गृहे ॥
कुबेरः किंकरस्तस्य यस्य स्यात्कामिनी गृहे ॥ १३५ ॥
॥ मुनिरुवाच ॥ ॥
तस्यापदोऽखिला दुःखं दुःखं तस्याखिलं गृहे ॥
नरकः सर्वतस्तस्य यस्य स्यात्कामिनीगृहे ॥ १३६ ॥
॥ कन्योवाच ॥ ॥
यानि कान्यत्र सौख्यानि भोगस्थानानि यानि च ॥
धर्मार्थकामजातानि तानि स्त्रीभ्यो भवंति हि ॥ १३७ ॥
॥ मुनिरुवाच ॥ ॥
यानि कानि सुदुःखानि क्लेशानि यानि देहिनाम् ॥

यानि कष्टान्यनिष्टानि स्त्रीभ्यस्तानि भवंति च ॥ १३८ ॥
॥ कन्योवाच ॥ ॥
धर्मार्थकाममोक्षान्स्त्री चतुरोऽपि चतसृभिः ॥
वह्निप्रदक्षिणाभिस्तान्विवाहेऽपि प्रदर्शयेत् ॥ १३९ ॥
॥ मुनिरुवाच ॥ ॥
संसारभ्रमणं नारी प्रथमेऽपि समागमे ॥
वह्निप्रदक्षिणान्यायव्याजेनैव प्रदर्शयेत् ॥ ६.१४४.१४० ॥ ॥
॥ कन्योवाच ॥ ॥
के नाम न विरज्यंति ज्ञानाढ्या अपि मानवाः ॥
कर्णांतलग्ननेत्रांतां दृष्ट्वा पीन पयोधराम् ॥ १४१ ॥
॥ मुनिरुवाच ॥ ॥
के नाम न विनश्यंति मूढज्ञाना नितंबिनीम् ॥
रम्यबुद्ध्योपसर्पंति ये ज्वालाः शलभा इव ॥ १४२ ॥
॥ कन्योवाच ॥ ॥
निर्मुखौ च कठोरौ च प्रोद्धतौ च मनोरमौ ॥
स्त्रीस्तनौ सेवते धन्यो मधुमांसे विशेषतः ॥१४३॥
॥ मुनिरुवाच ॥ ॥
आभोगिनौ मंडलिनौ तत्क्षणान्मुक्तकंचुकौ॥
वरमाशीविषौ स्पृष्टौ न तु पत्न्याः पयोधरौ ॥ १४४ ॥
॥ कन्योवाच ॥ ॥
न चासां रचनामात्रं केवलं रम्यमंगिभिः ।
परिष्वंगोऽपि रामाणां सौख्याय पुलकाय च ॥ १४५ ॥
॥ मुनिरुवाच ॥ ॥
न चासां रचनामात्रं रम्यं स्यात्पापदं दृशः ॥
वपुः स्पृष्टं विनाशाय स्त्रीणां प्रेत्य नरकाय च ॥ १४६ ॥
॥ कन्योवाच ॥ ॥
को नाम न सुखी लोके को नाम सुकृती न च ॥
स्पृहणीयतमः को न स्त्रीजनो यस्य रज्यते ॥ १४७ ॥ ॥
॥ मुनिरुवाच ॥ ॥
को न मुक्तिं व्रजेत्तत्र को न शस्यतरो भवेत् ॥
को न स्यात्क्षेमसंयुक्तः स्त्रीजने यो न रज्यते ॥ १४८ ॥
॥ कन्योवाच ॥ ॥
संसारांतः प्रसुप्तस्य कीटस्यापि प्ररोचते ॥
स्त्रीशरीरं नरस्यात्र किं पुनर्न विवेकिनः ॥ १४९ ॥
॥ मुनिरुवाच ॥ ॥
अमेध्यजा तस्य यथा तथा तद्रोचनं कृमेः ॥
तथा संसारसूतस्य स्त्रीशरीरं च कामिनः ॥ ६.१४४.१५० ॥
॥ कन्योवाच ॥ ॥
सौख्यस्थानं नृणां किंचिद्वेधसा ऽन्यदपश्यता ॥
शाश्वतं चिंतयित्वाथ स्त्रीरत्नमिदमाहृतम् ॥ १५१ ॥
॥ मुनिरुवाच ॥ ॥
बंधनं जगतः किंचिद्वेधसाऽन्यदपश्यता ॥
स्त्रीरूपेण ततः कोपि पाशोऽयं स्त्रीमयः कृतः ॥ १५२ ।
॥ सूत उवाच ॥ ॥
एवं स मुनिशार्दूलस्तयातीव समागमे ॥
निरुत्तरीकृतो यावत्ततः प्राह निजां सुताम् ॥ १५३ ॥
॥ मुनिरुवाच ॥ ॥
त्वया सह न संवादो मया कार्योऽधुना क्वचित् ॥
या त्वं बालापि मामेवं निषेधयसि सर्वतः॥१५४॥
तस्माद्धन्यतरं मन्ये अहमात्मानमद्य वै ॥
यस्य मे त्वं सुता ईदृगीदृक्छास्त्रविचक्षणा ॥ १५५ ॥
तस्मान्न मे महाभागे कोपः स्वल्पोऽपि विद्यते ॥
तस्माद्यथेच्छया क्रीडां कुरु योगिनिमध्यगा ॥ १५६ ॥
ततः सा लज्जिता दृष्ट्वा पितरं स्नेहवत्सलम् ।
प्रणिपत्य पुनःप्राह योगिनीमध्यसंस्थिता ॥ १५७ ॥
अज्ञानाद्यदि वा ज्ञानात्त्वं निषिद्धो मया प्रभो ॥
क्षंतव्यं सकलं मेऽद्य वालिकाया विशेषतः ॥ १५८॥
अत्र पीठे समागत्य प्रथमं ते द्विजोत्तमाः ॥
पूजां सर्वे करिष्यंति मानवा भक्तितत्पराः ॥
पश्चाच्च सर्वपीठस्य यास्यंति च परां गतिम्॥ १५९ ॥
एवं सा तत्र संजाता जाबालिमुनिसंभवा ॥
जाबालिश्च मुनिश्रेष्ठस्तथा चित्रांगदेश्वरः ॥ ६.१४४.१६० ॥
त्रयाणामपि यस्तेषां पूजां मर्त्यः समाचरेत्॥
दिवसेदिवसे तत्र स सिद्धिं समवाप्नुयात् ॥ १६१ ॥
नासाध्यं विद्यते किंचित्तावदत्र धरातले ॥
पूज्यते भूमिपालाद्यैर्भोगान्दिव्यांस्तथा लभेत् ॥ १६२ ॥
तस्मात्सर्वप्रयत्नेन स मुनिः सा च कन्यका ॥
पूजनीया विशेषेण स देवोऽथ महेश्वरः ॥ १६३ ॥
एतद्वः सर्वमाख्यातमाख्यानं सर्वकामदम् ॥
पठतां शृण्वतां चैव इहलोके परत्र च ॥ १६४
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चित्रांगदेश्वरफलवतीजाबाल्याख्यानवर्णनंनाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ १४४ ॥ ॥ छ ॥