स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १४३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
तथान्योऽपि च तत्रास्ति देवश्चित्रेश्वरो द्विजाः ॥
चित्रपीठस्य मध्यस्थश्चित्रसौख्यप्रदो नृणाम् ॥ १ ॥
यं दृष्ट्वा पूजयित्वा च स्नापयित्वाथवा नरः ॥
मुच्यते परदारोत्थैः पातकैश्चोपपातकैः ॥ २ ॥
धर्षयित्वा गुरोः पत्नीं कन्यां वा निजवंशजाम् ॥
नीचां वा व्रतयुक्तां वा कामासक्तेन चेतसा ॥ ३ ॥
चैत्रशुक्लचतुर्दश्यां यस्तं पूजयते नरः ॥
स तत्पापं निहत्याशु स्वर्गलोकं ततो व्रजेत् ॥ ४ ॥
तथा चित्रांगदस्तत्र जाबालिसहितो नृपः ॥
कुमार्या सहितः सार्द्धं नग्नया तत्समुत्थया ॥
सन्तिष्ठते तदग्रे तु शप्तो जाबालिना पुरा ॥ ५ ॥
त्रयाणामपि यस्तेषां तस्मिन्नहनि निर्वपेत् ॥
स इष्टां लभते नारीं सिद्धिं च मनसि स्थिताम् ॥ ६ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्माज्जाबालिना शप्तः पूर्वं चित्रांगदो युवा ॥
सा च तत्तनया कस्मात्कुमारी वस्त्रवर्जिता ॥ ७ ॥
अद्यापि तिष्ठते तत्र विरुद्धं रूपमाश्रिता ॥
जनहास्य करं नित्यं तस्मात्सूत वदस्व नः ॥ ८ ॥
॥ सूत उवाच ॥ ॥
आर्सोत्पूर्वं मुनिर्नाम्ना जाबालिरिति विश्रुतः ॥
कौमारब्रह्मचर्येण येन चीर्णं तपः सदा ॥ ९ ॥
हाटकेश्वरजं क्षेत्रं समासाद्य स सद्द्विजाः ॥
बाल्येऽपि वयसि प्राप्ते समारेभे महत्तपः ॥ ६.१४३.१० ॥
कृच्छ्रचांद्रायणादीनि पाराकाणि शनैःशनैः ॥
कुर्वता तेन ते देवाः संनीता भयगोचरम् ॥ ११ ॥
ततः शक्रादयो देवाः संत्रस्ता मेरुमूर्धनि ॥
मिलित्वा चक्रिरे मंत्रं तस्य विघ्नकृते मिथः ॥१२॥
यद्यस्य तपसो वृद्धिरेवं यास्यति नित्यशः ॥
च्यावयिष्यति तन्नूनं स्वर्गराज्याच्छतक्रतुम् ॥१३॥
तस्माद्गच्छतु रंभाख्या तत्पार्श्वे ऽप्सरसां वरा ॥
ब्रह्मचर्यविघाताय तस्यर्षेर्भावितात्मनः ॥ १४ ॥
ब्रह्मचर्यं तपोमूलं यतः संकीर्तितं द्विजैः ॥
तस्याभावात्परिक्लेशः केवलं न फलं व्रते ॥ १५ ॥
एवं ते निश्चयं कृत्वा समाहूय ततः परम् ॥
रंभामूचुर्महेंद्रेण सर्वे देवास्तदादरात् ॥ १६ ॥
गच्छ शीघ्रं महाभागे जाबालिर्यत्र तिष्ठति ॥
हाटकेश्वरजे क्षेत्रे तपोविघ्नाय तस्य वै ॥ १७ ॥
ते ते भावाः प्रयोक्तव्याः कथास्तास्ता मनोहराः ॥
वर्धयंती तथा चित्ते तस्य कामं निरर्गलम् ॥ १८ ॥ ॥
॥ रंभोवाच ॥ ॥
स मुनिर्न विजानाति कामधर्मं सुरेश्वर ॥
अरसज्ञं कथं देव करिष्यामि स्मरान्वितम्॥ १९ ॥
॥ इन्द्र उवाच ॥ ॥
एष यास्यति मद्वाक्याद्वसंतस्तस्य सन्निधौ ॥
अस्य संदर्शनादेव भविष्यति स सस्मरः ॥ ६.१४३.२० ॥
तस्माद्गच्छ द्रुतं तत्र सहानेन वरानने ॥
संसिद्धिर्जायते येन देवकृत्यं भवेद्द्रुतम् ॥ २१ ॥
अथ सा तं प्रणम्योच्चैः प्रस्थिता धरणीतलम्॥
वसंतेन समायुक्ता जाबालिर्यत्र तिष्ठति ॥ २२ ॥
अथाकस्मादशोकस्य संजातः पुष्पसंचयः ॥
तिलकस्य च चूतस्य मंजर्यः समुपस्थिताः ॥ २३ ॥
शिशिरे च सरोजानि विकासं प्रापुरेव हि ॥
ववौ च सुरभिर्वायुर्दाक्षिणात्यः सुकामदः ॥ २४ ॥
एतस्मिन्नंतरे प्राप्ता रंभा तत्र वराप्सराः ॥
सलिलाशयतीरस्थो जाबालिर्यत्र तिष्ठति ॥। ॥ २५ ॥
अक्षमालाधृतकरो जपन्मंत्रमनेकधा ॥
अभीष्टं श्रद्धया युक्तो विधाय पितृतर्पणम् ॥ २६ ॥
अथ संपश्यतस्तस्य मुक्त्वा वस्त्रपरिग्रहम् ॥१
स्नानार्थं तज्जलं साऽथ प्रविवेश वराप्सराः ॥ २७ ॥
विवस्त्रां तां समालोक्य सोऽपि यौवनशालिनीम्॥
याम्यानिलेन च स्पृष्टः कामस्य वशगो ऽभवत् ॥ २८ ॥
ततस्तस्याभवत्कंपस्तत्क्षणादेव सन्मुने ॥
अक्षमाला कराग्राच्च पपात धरणीतले ॥ २९ ॥
पुलकः सर्वगात्रेषु संजज्ञेऽतीव दारुणः ॥
अश्रुपाताः पतंति स्म कोष्णाः प्लावितभूतलाः ॥ ३० ॥
अथ तं क्षुभितं ज्ञात्वा चित्तज्ञा सा वराप्सराः ॥
निर्गत्य सलिलात्तस्माच्चक्रे वस्त्रपरिग्रहम्॥ ॥ ३१ ॥
ततस्तस्यांतिके गत्वा प्रणिपत्य कृतादरा ॥
प्रोवाच मधुरं वाक्यं वर्द्धंती तस्य तन्मतम् ॥ ३२ ॥
आश्रमे सकलं ब्रह्मन्कच्चित्ते कुशलं मुने ॥
स्वाध्याये तपसि प्राज्ञ शिष्येषु मृगपक्षिषु ॥ ३_३ ॥
॥ मुनिरुवाच॥ ॥ ९॥
कुशलं मे वरारोहे सर्वत्रैवाधुना स्थितम्॥
विशेषेणात्र संप्राप्ता सर्वलक्षणलक्षिता॥३४॥
का त्वं वद महाभागे मम मन्मथवर्धनी॥
किं देवी वासुरी वा किं पन्नगी किं तु मानुषी॥३५॥
निवेदय शरीरे मे किं न पश्यसि वेपथुम्॥
निरर्गलश्च रोमांचो बाष्पपूरश्च नेत्रजः॥३६॥
रंभोवाच॥
किं ते गात्रस्वभावोऽयम् किं वान्यो व्याधिसंभवः ॥
कच्चिदेव न ते स्वास्थ्यं प्रपश्यामि शरीरजम् ॥ ३७ ॥
॥ मुनिरुवाच ॥ ॥
न मे गात्रस्वभावो न व्याधिभिश्च सुलोचने ॥
शृणुष्व कारणं कृत्स्नं येनेदृक्संस्थितं वपुः ॥ ३८ ॥
यावती वर्तते वेला तव दर्शनसंभवा ॥
तावत्कालमिदं रूपं मम गात्रसमुद्भवम् ॥ ३०. ॥
तदहं मन्मथाविष्टो दर्शनात्तव शोभने ॥
ब्रह्मचर्यपरोपीत्थं महाव्रतधरोऽपि च ॥ ६.१४३.४० ॥
॥ रंभोवाच । ॥
यद्येवं ब्राह्मणश्रेष्ठ मां भजस्व यथासुखम् ॥
नात्र कश्चिद्भवेद्दोषः पण्यनारी यतोऽस्म्यहम् ॥ ४१ ॥
साधारणा वयं विप्र यतः सृष्टाः स्वयंभुवा ॥
सर्वेषामेव लोकानां विशेषेण द्विजन्मनाम् ॥ ४२ ॥
अहं चापि समालोक्य त्वां मुने मन्मथोपमम् ।
हता कामशरैस्तीक्ष्णैर्न च गंतुं समुत्सहे ॥ ॥ ४३ ॥
मया दृष्टाः सुराः पूर्वं यक्षा विद्याधरास्तथा ॥
सिद्धाश्च किंनरा नागा गुह्यकाः किमु मानुषाः ॥ ४४ ॥
नेदृग्रूपं वपुस्तेषामेकस्यापि विलोकितम् ॥
मध्ये ब्राह्मणशार्दूल तस्माद्भक्तां भजस्व माम् ॥ ४५ ॥
यो नारीं कामसंतप्तां स्वयं प्राप्तां परित्यजेत् ॥
स मूर्खः पच्यते घोरे नरके शाश्वतीः समाः ॥ ४६ ॥
एवमुक्त्वा तया सोऽथ परिष्वक्तो महामुनिः ॥
अनिच्छन्नपि वाक्येन हृदयेन च सस्पृहः ॥ ४७ ॥
ततो लतानि कुंजे तं समानीय मुनीश्वरम् ।
कामशास्त्रोदितैर्भावै रराम कृत्रिमैर्मुनिम् ॥ ४८ ॥
एवं तया समं तत्र स्थितो यावद्दिनक्षयम् ॥
कामधर्मसमासक्तः संत्यक्ताशेषकर्मकः ॥ ४९ ॥
ततो निष्कामतां प्राप्तो लज्जया परिवारितः ॥
विससर्ज च तां रंभां शौचं चक्रे ततः परम् ॥ ६.१४३.५० ॥
सापि तेन विनिर्मुक्ता कृतकृत्या विलासिनी ।
प्रहृष्टा प्रययौ तत्र यत्र देवाः सवासवाः ॥ ५१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जाबालिक्षोभणोनाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४३ ॥