स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १४२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति पुण्यं गणपतित्रयम् ॥
स्वर्गदं मर्त्यदं पुण्यं तथान्यन्नरकापहम्॥१॥
हंतृ वै सर्वविघ्नानां पूजितं सुरदानवैः॥
सर्वकामप्रदं चैव विद्याकीर्तिविवर्धनम् ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
त्रिविधाः पुरुषाः सूत जायंतेत्र महीतले ॥
उत्तमा मध्यमाश्चान्ये तथा चान्येऽधमाः स्थिताः ॥ ३ ॥
उत्तमाः प्रार्थयंति स्म मोक्षमेव हि केवलम् ॥
गता यत्र निवर्तंते न कथंचिद्धरातले ॥ ४ ॥
मध्यमाः स्वर्गमार्गं च दिव्यान्भोगान्मनोरमान् ॥
अप्सरोभिः समं क्रीडां यज्ञाद्यैः कर्मभिः कृताम् ॥ ॥ ५ ॥
अधमा मर्त्यलोकेत्र रमंते विषयात्मकाः ॥
विषकीटकवत्तत्र रतिं कृत्वा गरीयसीम् ॥ ६ ।
स्वर्गमोक्षौ परित्यज्य तत्कस्मान्मर्त्य इष्यते ॥
येनासौ प्रार्थ्यते मर्त्यैर्मर्त्यदो गणनायकः ॥ ७ ॥
केन संस्थापितास्ते च तस्मिन्क्षेत्रे गजाननाः ॥
कस्मिन्काले च द्रष्टव्याः सर्वं विस्तरतो वद ॥ ८ ॥
॥ सूत उवाच ॥ ॥
पूर्वं तप्त्वा तपस्तीव्रं मर्त्यलोके द्विजोत्तमाः ॥
ततो गच्छंति संहृष्टाः स्वेच्छया त्रिदिवं प्रति ॥
मोक्षमार्गं तथैवान्ये ध्यानाविष्कृतमानसाः ॥ ९ ॥
ततः स्वर्गे समाकीर्णे कदाचिन्मनुजोत्तमैः ॥
देवेषु क्षिप्यमाणेषु समंतात्तत्प्रभावतः ॥ ६.१४२.१० ॥
गत्वा स्वयं सहस्राक्षः सर्वैर्देवगणैः सह ॥
प्रोवाच शंकरं गौर्या सार्धमेकासनस्थितम् ॥ ११ ॥
॥ इन्द्र उवाच ॥ ॥
तपःप्रभावसंसिद्धैर्मानवैः परमेश्वर ॥
अस्माकं व्याप्यते सर्वं महिमानं गृहादिकम्॥ १२ ॥
तस्मात्कृत्वा प्रसादं नः कंचिच्चिंतय सांप्रतम् ॥
उपायं येन तिष्ठामः सौख्येनात्र शिवालये ॥ १३ ॥
अथ श्रुत्वा विरूपाक्षस्तेषां तद्वचनं द्विजाः ॥
पार्वत्याः पार्श्वसंस्थाया मुखचन्द्रं समैक्षयत् ॥ १४ ॥
निजगात्रं ततो देवी सुसंमर्द्य मुहुर्मुहुः ॥
मलमाहृत्य तं कृत्स्नं चक्रे नागमुखं ततः १९ ॥
चतुर्हस्तं महाकायं लंबोदरसमन्वितम् ॥
सुकौतुककरं तेषां सर्वेषां च दिवौकसाम् ॥ १६ ॥
ततः स विनयादाह देवीं शिखरवासिनीम् ॥
यदर्थमंब सृष्टोऽहं तत्कार्यं वद मा चिरम् ॥ १७ ।
त्रैलोक्ये त्वत्प्रसादेन नासाध्यं विद्यते मम ॥ ॥ १८ ॥
॥ श्रीदेव्युवाच ॥ ॥
मर्त्यलोके नरा ये च स्वर्गमोक्षपराः सदा ॥
तेषां विघ्नं त्वया कार्यं शुभकृत्येषु चैव हि ॥ १९ ॥
सरितां पतयस्त्रिंशच्छंकवः सप्तसप्ततिः ॥
महासरोजषष्टिश्च निखर्वाणां च विंशतिः ॥ ६.१४२.२० ॥
अर्बुदायुतसंयुक्ताः कोट्यो नवतिपञ्च च ॥
लक्षाश्च पंचपंचाशत्सहस्राः पंचविंशतिः॥
शतानि नवषष्टिश्च गणाश्चान्येऽत्र संस्थिताः॥२१॥
येषां नदी स्मृतः पूर्वो महाकालस्तथा परः॥
ते सर्वे वशगास्तुभ्यं प्रभवंतु गणोत्तमाः॥२२॥
आधिपत्यं मया दत्तं तव वत्स कुरुष्व तत् ॥
सर्वेषां गणवृंदानामाधिपत्ये व्यवस्थितः ॥२३॥
एवमुक्त्वाथ सा देवी समानीयौषधीभृतान् ॥
हेमकुंभान्सुतीर्थांभः परिपूर्णान्महोदयान्॥ २४ ॥
तस्याभिषेचनं चक्रे स्वयमेव सुरेश्वरी ॥
गीतवाद्यविनोदेन नृत्यमंगलजैः स्वनैः ॥ २५ ॥
त्रयस्त्रिंशत्स्मृताः कोटयो देवानां याः स्थिता दिवि ॥
ताः सर्वास्तत्र चागत्य तस्य चक्रुश्च मंगलम् ॥ २६ ॥
अथ तस्य ददौ तुष्टो भगवान्वृषभध्वजः ॥
कुठारं निशितं हस्ते सदा वै श्रेष्ठमायुधम् ॥ २७ ॥
पात्रं मोदकसंपूर्णमक्षयं चैव पार्वती ॥
भोजनार्थे महाभागा मातृस्नेहपरायणा ॥ २८ ॥
मूषकं कार्तिकेयस्तु वाहनार्थं प्रहर्षितः ॥
भ्रातरं मन्यमानस्तु बन्धुस्नेहेन संयुतः ॥ २९ ॥
ज्ञानं दिव्यं ददौ ब्रह्मा तस्मै हृष्टेन चेतसा ॥
अतीतानागतं चैव वर्तमानं च यद्भवेत्॥६.१४२.३॥।
प्रज्ञां विष्णुः सहस्राक्षः सौभाग्यं चोत्तमं महत्॥
सौभाग्यं कामदेवस्तु कुबेरो विभवादिकम्॥३१॥
प्रतापं भगवान्सूर्यः कांतिमग्र्यां निशाकरः॥३२॥
तथान्ये विबुधाः सर्वे ददुरिष्टानि भूरिशः॥
आत्मीयानि प्रतुष्ट्यर्थं देव्या देवस्य च प्रभोः॥३३॥
एवं लब्धवरः सोऽथ गणनाथो द्विजोत्तमाः ॥
देवकृत्यपरो नित्यं चक्रे विघ्नानि भूतले ॥ ३४ ॥
धर्मार्थं यतमानानां मोक्षाय सुकृताय च ॥
ततो भूमितलेऽभ्येत्य गणेशस्तत्र यः स्मृतः ॥ ३५ ॥
वैमानिकैः समभ्येत्य स्थापितस्तत्र स द्विजाः ॥
येन स्वर्गार्थिनो लोकाः पूजां तस्य प्रचक्रिरे ॥
प्रथमं सर्वकृत्येषु विघ्ननाशाय तत्पराः ॥ ३६ ॥
एतस्मिन्नेव काले च चमत्कारपुरोद्भवैः ॥
ब्राह्मणैर्ब्रह्मविज्ञानतत्परैर्मोक्षहेतुभिः ॥
ईशानः स्थापितस्तत्र मोक्षदो य उदाहृतः ॥ ३७ ॥
स्वर्गं वाञ्छद्भिरेवान्यैः स्वर्गद्वारप्रदस्तथा ॥
हेरंबः स्थापितस्तत्र सत्यनामा यथोदितः ॥ ३८ ॥
तथान्यैर्मर्त्यदो नाम गणैशस्तत्र यः स्थितः॥
येन स्वर्गाच्च्युता यांति न कदा नरकादिकम्॥
तिर्यक्त्वं वा कृमित्वं वा स्थावरत्वमथापि वा ॥ ३९ ॥
एतस्मात्कारणात्तत्र क्षेत्रे पुण्ये द्विजोत्तमाः ॥
हेरम्बो मर्त्यदो जातः स्वर्गिणां मर्त्यदः सदा ॥ ६.१४२.४० ॥
एतद्वः सर्वमाख्यातं पुण्यं हेरंबसंभवम् ॥
आख्यानं सर्वविघ्नानि यन्निहन्ति श्रुतं नृणाम् ॥ ४१ ॥
एतन्माघचतुर्थां? यः शुक्लायां पूजयेन्नरः ॥
न तस्य वत्सरं यावद्विघ्नं सञ्जायते क्वचित् ॥ ४२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गणपतित्रयमाहात्म्यवर्णनंनाम द्विचत्वारिंशदुत्तरशत तमोऽध्यायः ॥ १४२ ॥ ॥ छ ॥