स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १३७

विकिस्रोतः तः

॥ ऋषय ऊचुः ॥ ॥
केनासौ मुनिशार्दूलो मांडव्यः सुमहातपाः ॥
शूलायां स्थापितः केन कारणेन च नो वद ॥ १ ॥
॥ सूत उवाच ॥ ॥
स मांडव्यो मुनिः पूर्वं तीर्थयात्रां समाचरन् ॥
अस्मिन्क्षेत्रे समायातः श्रद्धया परया युतः ॥ २ ॥
विश्वामित्रीयमासाद्य सत्तीर्थं पावनं महत् ॥
पितॄणां तर्पणं चक्रे भास्करं प्रति स व्रती ॥ ३ ॥
जपन्विभ्राडिति श्रेष्ठं सूक्तं भास्करवल्लभम् ॥
एतस्मिन्नंतरे चौरो लोप्त्रमादाय कस्यचित् ॥ ४ ॥
कोपि तत्र समायातः पृष्ठे लग्नैर्जनैर्द्विजाः ॥
ततश्चौरोऽपि तं दृष्ट्वा मौनस्थं मुनिसत्तमम् ॥ ५ ॥
लोप्त्रं मुक्त्वा तदग्रेऽथ प्रविवेश गुहांतरे ॥
एतस्मिन्नंतरे प्राप्तास्ते जना लोप्त्रहेतवे ॥ ६ ॥
दृष्ट्वा लोप्त्रं तदग्रस्थं तमूचुर्मुनिपुंगवम् ॥
मार्गेणानेन चायातो लोप्त्रहस्तो मलिम्लुचः ॥
ब्रूहि शीघ्रं महाभाग केन मार्गेण निर्गतः ॥ ७ ॥
स च जानन्नपि प्राज्ञो गुहासंस्थं मलिम्लुचम् ॥
न किंचिदपि चोवाच मौनव्रत परायणः ॥ ८ ॥
असकृत्प्रोच्यमानोऽपि परचिंतासमन्वितः ॥
यदा प्रोवाच नो किंचित्स रक्षंश्चौरजीवितम् ॥ ९ ॥
ततस्तैर्मंत्रितं सर्वैरेष नूनं मलिम्लुचः ॥
संप्राप्तः पृष्ठतोऽस्माभिर्मुनिरूपो बभूव ह ॥ ६.१३७.१० ॥
अविचार्य ततः सर्वैराभीरैस्तैर्दुरात्मभिः॥
शूलीमारोपितः सद्यो नीत्वा किंचिद्वनांतरम् ॥ ११ ॥
एवं प्राप्ता तदा शूली मुनिना तेन दारुणा ॥
पूर्वकर्मविपाकेन दोषहीनेन धीमता ॥१२॥
इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मांडव्यशूलीप्राप्तिवृत्तान्तवर्णनंनाम सप्तत्रिंशदुत्तरशततमोक्ययायः ॥ १३७ ॥ ॥ ध ॥