स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १३१

विकिस्रोतः तः
Jump to navigation Jump to search

॥ देव उवाच ॥ ॥
एषा रात्रिः समादिष्टा दानवानां सुरेश्वरि ॥
पिशाचानां च भूतानां राक्षसानां विशेषतः ॥ १ ॥
यत्किंचित्क्रियते कर्म तत्र स्नानादिकं शुभम्॥
तत्सर्वं जायते तेषां पुरा दत्तं स्वयंभुवा ॥ २ ॥
मर्यादा तैः समं येन देवानां च यदा कृता ॥
अर्हाणां यज्ञभागस्य काश्यपानामथाग्रजाम्॥ ३ ॥
तदर्थं दशसाहस्रा दानवा युद्ध दुर्मदाः ॥
कुंतप्रासकरा भानुं रुंधन्त्युद्गतकार्मुकाः ॥४॥
तमुद्दिश्य सहस्रांशुं यज्जलं परिक्षिप्यते।
सावित्रेण च मन्त्रेण तेषां तज्जायते फलम् ॥५॥
ते हतास्तेन तोयेन वज्रतुल्येन तत्क्षणात् ॥
प्रमुंचंति सहस्रांशुं नित्यमेव सुरेश्वरि ॥ ६ ॥
एतस्मात्कारणात्तोयमस्त्ररूपं क्षिपाम्यहम् ॥
संध्या कालं समुद्दिश्य भानुं संध्यां न पार्वति ॥ ७ ॥
यद्यदाचरति श्रेष्ठस्तत्तदुत्तरतः स्थितः ॥
उदयार्थं रविं यान्तं निरुन्धन्ति च दारुणाः ॥ ८ ॥
तेऽपि संध्याजलैर्देवि निहता ब्राह्मणोत्तमैः ॥
मया च तं विमुञ्चंति मूर्च्छिता निपतन्ति च ॥ ९ ॥
एतस्मात्कारणाद्देवि सन्ध्ययोरुभयोरपि ॥
अहं चान्ये च विप्रा ये ते नमंति दिवाकरम्॥ ६.१३१.१० ॥
तस्मात्त्वं गृहमागच्छ त्यक्त्वेर्ष्यां पर्वतात्मजे ॥
प्रशस्यां त्वां परित्यक्त्वा नान्यास्ति हृदये मम ॥ ११ ॥
॥ देव्युवाच ॥ ॥
निष्कामो वा सकामो वा संध्यां स्त्रीसंज्ञितामिमाम् ॥
यत्त्वं नमसि देवेश तन्मे दुःखं प्रजायते ॥ १२ ॥
तस्माद्गङ्गापरित्यागं सन्ध्यायाश्च विशेषतः ॥
यावन्न कुरुषे देव तावत्तुष्टिर्न मे भवेत् ॥ १३ ॥
एवमुक्त्वाऽथ सा देवी विशेषव्रतमास्थिता॥
अवमन्य महादेवं प्रार्थयानमपि स्वयम्॥ १४ ॥
ततः स चिन्तयामास किमेतत्कारणं स्थितम्॥
विरक्ताऽपि ममोत्कण्ठां येनैषा प्रकरोति न ॥ १९ ॥
न च साम्ना व्रजेत्तुष्टिं कथंचिदपि पार्वती ॥
मृषेर्ष्यांधारिणी देवी नैतत्स्वल्पं हि कारणम् ॥ १६ ॥
ततो मन्त्रप्रभावं तं विज्ञाय परमेश्वरः ॥
ध्यानं धृत्वा सुसूक्ष्मेण ज्ञानेनाथ स्वयं ततः ॥ १७ ॥
तमेव मन्त्रं मन्त्रेण न्यासेन च विशेषतः ॥
सम्यगाराधयामास संपूज्यात्मानमात्मना ॥ १८ ॥
यथा देव्यात्मभूतानि पृथक्कृत्वा च पंच च ॥
पूजितानि तथा देवः सर्वेषामंतरे गतः ॥ १९ ॥
तान्येव पूजयामास पृथक्कृत्वा समाधितः ॥
नियोज्य च पुनर्बाह्ये ततः पूजां समाचरत् ॥६.१३१.२॥।
तस्मान्नास्ति परः कश्चित्पूज्यपूज्यः स एव च ॥
ऐश्वर्यात्सर्वदेवानामीशानस्तेन निर्मितः ॥ २१ ॥
एवं यावत्स ईशानः समाराधयति प्रभुः ॥
तावद्देवी समायाता मन्त्राकृष्टा च यत्र सः ॥ २२ ॥
ततः प्रोवाच तं देवं प्रणिपत्यकृतांजलिः ॥
ज्ञातं मया विभो सर्वं न मां त्यज तव प्रियाम् ॥ २३ ॥
तस्मादागच्छ गच्छावो यत्र त्वं वाञ्छसि प्रभो ॥
क्षम्यतां देव मे सर्वं न कृतं यद्वचस्तव ॥ २४ ॥
ततस्तुष्टो महादेवस्तामालिङ्ग्य शुचिस्मिताम् ॥
इदमूचे विहस्योच्चैर्मेघगम्भीरया गिरा ॥ २५ ॥
यैषा त्वयाऽऽत्मभूतोत्था निर्मिता परमा तनुः ॥
एतां या कामिनी काचित्पूजयिष्यति भक्तितः ॥
अनेनैव विधानेन तस्या भर्ता भविष्यति ॥ २६ ॥
तृतीयायां विशेषेण यावत्संवत्सरं शुभे ॥
सा लभिष्यति सत्कान्तं पुत्रदं सर्वकामदम् ॥ २७ ॥
तथैतां मामकीं मूर्तिमीशानाख्यां च ये नराः ॥
तेषां दुष्टापि या कान्ता सौम्या चैव भविष्यति ॥ २८ ॥
ये पुनः कन्यकाहेतोः पूजयिष्यंति भक्तितः ॥
यां कन्यां मनसि स्थाप्य तां लभिष्यन्त्यसंशयम् ॥२९॥
निष्कामाश्चापि ये मर्त्या पूजयिष्यंति सर्वदा ॥
ते यास्यंति परां सिद्धिं जरामरणवर्जिताम् ॥ ६.१३१.३० ॥
एवमुक्त्वा महादेवो वृषमारोप्य तां प्रियाम् ॥
स्वयमारुह्य पश्चाच्च कैलासं पर्वतं गतः ॥ ३१ ॥
॥ नारद उवाच । ॥
तस्मात्तव सुतेयं या तामाराधयतु द्रुतम् ॥
पञ्चपिण्डमया गौरीं यावत्संवत्सरं शुभाम् ॥ ३२ ॥
तृतीयायां विशेषेण ततः प्राप्स्यति सत्पतिम् ॥
मुखप्रेक्षमतिप्रीतं रूपादिभिर्गुणैर्युतम् ॥ ३३ ॥
॥ शांडिल्युवाच ॥ ॥
एवमुक्त्वा मुनिश्रेष्ठो नारदः प्रययौ ततः ॥
तीर्थयात्रां प्रति प्रीत्या मम मात्रा विसर्जितः ॥ ३४ ॥
मयापि च तदादेशात्कौमार्येपि च संस्थया ॥
पूजया वत्सरं यावत्पूजिता पतिकाम्यया ॥ ३५ ॥
तृतीयायां विशेषेण मार्गमासादितः शुभे ॥
नैवेद्यैर्विविधैर्दानैर्गंधमाल्यानुलेपनैः ॥ ३६ ॥
तत्प्रभावादयं प्राप्तो जैमिनिर्नाम सद्द्विजः ॥
कात्यायनि यथा दृष्टस्त्वया किं कीर्तितैः परैः ॥ ३७
तस्मात्त्वमपि कल्याणि पूजयैनां समाहिता ॥
संप्राप्स्यसि सुसौभाग्यं मैत्रेय्या सदृशं शुभे ॥ ३८ ॥
त्वया न पूजिता चेयं कौमार्ये वर्तमानया ॥
यावत्संवत्सरं गौरी तृतीयायां न चाधिकम् ॥ ३९ ॥
सापत्न्यं तेन संजातं सौभाग्येपि निरर्गले ॥
यथोक्तविधिना देवी सत्यमेतन्मयोदितम् ॥ ६.१३१.४० ॥
॥ सूत उवाच ॥ ॥
श्रुत्वा कात्यायनी सर्वं शांडिल्या यत्प्रकीर्तितम् ॥
ततः प्रणम्य तां पृष्ट्वा स्वमेव भवनं ययौ ॥ ४१ ॥
मार्गशीर्षेऽथ संप्राप्ते तृतीयादिवसे सिते ॥
तां देवीं पूजयामास वर्षं यावकृतक्षणा ॥ ४२ ॥
गौरिणीर्भोजयामास मृष्टान्नैर्भोजनै रसैः ॥
तैलक्षारपरित्यक्तैर्गन्धैः कुंकुमपूर्वकैः ॥ ४३ ॥
ततस्तु वत्सरे पूर्णे याज्ञवल्क्यस्तदन्तिकम् ॥
गत्वा प्रोवाच किं कष्टं त्वं करोषि शुचिस्मिते ॥ ४४ ॥
मया कांतेन रक्तेन कामदेन सदैव तु ॥
तस्मादागच्छ गच्छाव स्वमेव भवनं शुभे ॥ ४५ ॥
एवमुक्त्वा तु तां हृष्टां गृहीत्वा दक्षिणे करे ॥
जगाम भवनं पश्चात्पुलकांकितगात्रजाम् ॥ ४६॥
ततः परं तया सार्धं वर्तते हर्षिताननः ॥
मैत्रेय्या सहितो यद्वदविशेषेण सर्वदा ॥ ४७ ॥
ततः संजनयामास तस्यां पुत्रं गुणान्वितम् ॥
कात्यायनाभिधानं च यज्ञ विद्याविचक्षणम्॥ ४८ ॥
पुत्रो वररुचिर्यस्य बभूव गुणसागरः॥
सर्वज्ञः सर्वकृत्येषु वेदवेदांगपारगः ॥४९॥
स्थापितोऽत्र शुभे क्षेत्रे येन विद्यार्थिनां कृते ॥
समाराध्य विशेषेण चतुर्थ्यां शुक्लवासरे ॥ ६.१३१.५० ॥
महागणपतिर्भक्त्या सर्वविद्याप्रदायकः ॥
यस्तस्य पुरतो विप्राः शांतिपाठविधानतः ॥ ॥ ५१ ॥
गृह्णाति पुष्पमालां यः पठेच्छक्त्या द्विजोत्तमाः ॥
वेदांतकृत्स विप्रः स्यात्सदा जन्मनिजन्मनि ॥ ५२ ॥
अशक्त्या चाथ पाठस्य यो गृह्णाति धनेन च ॥
स विशेषाद्भवेद्विप्रो वेदवेदांगपारगः ॥ ५३॥
विदुषां स गृहे जन्म याज्ञिकानां सदा लभेत्॥
न कदाचित्तु मूर्खार्णां निन्दितानां कथञ्चन ॥ ५४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य ईशानोत्पत्तिपंचपिंडिकागौरीमाहात्म्य वररुचिस्थापितगणपतिमाहात्म्यवर्णनं नामैकत्रिंशदुत्तरशततमोऽध्यायः ॥ १३१ ॥