स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १२७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
या सा कर्णोत्पलानाम त्वयास्माकं प्रकीर्तिता ॥
किञ्चिज्जलाश्रयं प्राप्य तपस्तपति संस्थिता ॥
तस्याः सर्वं समाचक्ष्व यथा तपसि सा स्थिता ॥ १ ॥
॥ सूत उवाच ॥ ॥
गौरीपादकृतस्थाना श्रद्धया परया युता ॥
तावत्तुष्टिं गता देवी गिरिजा शंकरप्रिया ॥ २ ॥
ततः प्रोवाच ते पुत्रि तुष्टाहं वांछितं वद ॥
येन यच्छाम्यसंदिग्धं यद्यपि स्यात्सुदुर्लभम् ॥ ३ ॥
॥ कर्णोत्पलोवाच ॥ ॥
मम पत्युः कृते देवि मम तातः सुदुःखितः ॥
राज्याद्भ्रष्टः सुखाच्चापि कुटुंबेन विवर्जितः ॥ ४ ।
ततश्चैव तपस्तेपे वैराग्यं परमं गतः ॥
अहं वार्द्धक्यमापन्ना कौमार्येऽपि च संस्थिता ॥ ५ ॥
तस्माद्भवतु मे भर्त्ता कश्चिद्रूपोत्कटः स्मृतः ॥
सर्वेषां देवमर्त्यानां त्वत्प्रसादात्सुरेश्वरि ॥६॥
तथा स्यात्परमं रूपं तारुण्यं त्वत्प्रसादतः ॥
यथास्य जायते सौख्यं तापसस्यापि मे पितुः ॥ ७ ॥
॥ देव्युवाच ॥ ॥
माघमासतृतीयायां शनैश्चरदिने शुभे ॥
नक्षत्रे वसुदैवत्ये रूपं ध्यात्वाथ यौवनम् ॥ ८ ॥
त्वया स्नानं प्रकर्तव्यं सुपुण्येऽत्र जलाशये ॥
ततो दिव्य वपुर्भूत्वा यौवनेन समन्विता।
भविष्यसि न संदेहः सत्यमेतन्मयोदितम् ॥ ९ ॥
अन्यापि या महाभागे नारी स्नानं करिष्यति॥
तस्मिन्नहनि साप्येवं रूपयुक्ता भविष्यति ॥ ६.१२७.१०. ॥
॥सूत उवाच॥ ॥
एवमुक्त्वाथ सा देवी गता चादर्शनं ततः ॥
सापि चान्वेषयामास तृतीयां शनिना सह ॥ ११ ॥
वसुदेवात्मकेनैव नक्षत्रेण प्रयत्नतः ॥
ध्यायमाना च तां देवीं सर्वकामप्रदायिनीम् ॥ १२ ॥
ततः कतिपयाहस्य जाता सा योगसंयुता ॥
तृतीया या यथोक्ता च तया देव्या पुरा द्विजाः ॥ १३ ॥
ततः सा रूपसौभाग्यं यौवनं वांछितं पतिम् ॥
ध्यायमाना जले तस्मिन्नर्द्धरात्रे विवेश च ॥ १४ ॥
ततो दिव्यवपुर्भूत्वा यौवनेन समन्विता ॥
निष्क्रांता सलिलात्तस्माज्जनविस्मयकारिणी ॥ १५ ॥
एतस्मिन्नंतरे प्राप्तो गौरीवाक्यप्रबोधितः ॥
तदर्थं भगवान्कामः पत्न्यर्थं प्रीतिसंयुतः ॥
अब्रवीच्च महाभागे कामोहं स्वयमागतः ॥ १६ ॥
पार्वत्यादेशिता भार्या तस्मान्मे भव मा चिरम् ॥ ॥ १७ ॥
यस्मात्प्रीत्या समायातस्तवांतिकमहं शुभे ॥
तस्मात्प्रीतिरिति ख्याता मम भार्या भविष्यसि ॥ १८ ॥
॥ कर्णोत्पलोवाच ॥ ॥
यद्येवं स्मर मत्तातं तं गत्वा प्रार्थय स्वयम् ॥
स्वच्छंदा स्याद्यतः कन्या न कथंचित्प्रवर्तिता ॥ १९ ॥
य एष दृश्यते रम्यः प्रासादो नाति दूरतः ॥
अस्यांते तिष्ठतेऽस्माकं तातस्तपसि संस्थितः ॥ ६.१२७.२० ॥
अत्राहं पूर्वतो गत्वा तस्य तिष्ठामि चांतिके ॥
भवानागत्य पश्चाच्च प्रार्थयिष्यति मां ततः ॥ २१ ॥
बाढमित्येव कामोक्ते गता सा तत्समीपतः ॥
प्रणिपत्य ततः प्राह दिष्ट्या तात मया पुनः ॥ २२ ॥
संप्राप्तं यौवनं कांतं समाराध्य हरप्रियाम् ॥
तस्मात्कुरु विवाहं मे हृत्स्थं सुखमवाप्नुहि ॥ २३ ॥
मदर्थे प्रेषितो भर्त्ता तया देव्याऽतिसुन्दरः ॥
पुष्प चापः स्वयं प्राप्तः सोऽपि तात तवांतिकम् ॥ २४ ॥
अथ तां स समालोक्य स्वां सुतां यौवनान्विताम् ॥
हर्षेण महता युक्तां कांतयुक्तां विशेषतः ॥
अब्रवीदद्य मे पुत्रि संजातं तपसः फलम् ॥ २५ ॥
जीवितस्य च कल्याणि यत्वं प्राप्ता नवं वयः ॥
भर्तारं च तथाभीष्टं देव्या दत्तं मनोभवम् ॥ २६ ॥
एतस्मिन्नंतरे कामस्तस्यांतिकमुपाद्रवत् ॥
अब्रवीद्देहि मे भूप स्वां कन्यां चारुहासिनीम् ॥ २७ ॥
अस्या अर्थेऽहमादिष्टः स्वयं गौर्या नृपोत्तम ॥
कामदेव इति ख्यातस्त्रैलोक्यं येन मोहितम् ॥ २८ ॥
ततस्तामर्पयामास तां कन्यां स महीपतिः ॥
कृत्वाग्निं साक्षिणं वाक्याद्ब्राह्मणानां द्विजोत्तमाः ॥ २९ ॥
सा चास्य चाभवत्प्रीतिस्थानं यस्मात्सुलोचना ॥
रतेरनंतरा तस्मात्प्रीतिनामाऽभवच्छुभा ॥ ६.१२७.३० ॥
एवं तया तपस्तप्तं तस्मात्तत्र जलाशये ॥
तन्नाम्ना ख्यातिमायातं समस्तेऽत्र महीतले ॥ ३१ ॥
सकलं माघमासं च या स्त्री स्नानं समाचरेत् ॥
पुमान्वा प्रातरुत्थाय स प्रयागफलं लभेत् ॥ ३२ ॥
रूपवाञ्जायते दक्षः सदा जन्मनि जन्मनि ॥
न वियोगमवाप्नोति कदात्रिद्बांधवैः सह ॥ ३३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कर्णोत्पलातीर्थमाहात्म्यवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥ १२७ ॥ ॥