स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १२६

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
एवं तस्य तपस्थस्य पुत्र्या सह द्विजोत्तमाः ॥
आजग्मुर्ब्राह्मणाः सर्वे चमत्कारपुरोद्भवाः ॥ १ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
सन्देहेषु च सर्वेषु विवादेषु विशेषतः ॥
अभावात्पार्थिवेन्द्रस्य संजातश्च पराभवः ॥ २ ॥
ततश्च द्विजवर्यैः स संन्यस्तः पृथिवीपतिः ॥
पृष्टश्च प्रार्थितश्चैव निजराज्यस्य रक्षणे ॥
अन्यस्मिन्दिवसे प्राह कृतांजलिपुटः स्थितः ॥ ३ ॥
॥ राजोवाच ॥ ।
अनर्होऽहं द्विजश्रेष्ठाः संदेहं हर्तुमेव वः ॥
रक्षां कर्तुं विशेषेण त्यक्तशस्त्रोऽस्मि चाधुना ॥ ४ ॥.
॥ ब्राह्मणा ऊचुः ॥ ॥
सर्वे वयं महाराज भूपस्याप्यधिका यतः ॥
अहंकारेण दर्पेण निजं स्थानं समाश्रिताः ॥ ५ ॥
न कस्यचिन्महाराज कदापि च कथंचन ॥
वर्तनायाश्च सन्देहः स्थानकृत्येऽपि संस्थितः ॥ ६ ॥
असंख्याता कृता वृत्तिः पुराऽस्माकं महात्मना ॥
ततः सा वृद्धिमानीता तत्परैः पार्थिवोत्तमैः ॥ ७ ॥
त्वया चैव विशेषेण यावद्राजा बृहद्बलः ॥
आनर्तविषये राजा यो यः स्यात्स प्रयच्छति ॥ ८ ॥
सर्वां वृत्तिं गृहस्थानां यथायोग्यं प्रयत्नतः ॥
तवाग्रे किं वयं ब्रूमस्त्वं वेत्सि सकलं यतः ॥ ९ ॥
यथा वृत्तिः पुरा दत्ता यथा संरक्षिता त्वया ॥
तस्माच्चिन्तय राजेन्द्र स्थानं वर्तनसंभवम् ॥
उपायं येन मर्यादा वृत्तिस्तस्मात्सुखेन तु ॥ ६.१२६.१० ॥
ततः स सुचिरं ध्यात्वा गर्तातीर्थसमुद्भवान् ॥
आकार्योपमन्युवंशस्य संभवान्वेदपारगान् ॥ ११ ॥
प्रणिपातं प्रकृत्वाथ ततः प्रोवाच सादरम् ॥
मदीयस्थान संस्थानां ब्राह्मणानां विशेषतः ॥ १२ ॥
सर्वकृत्यानि कार्याणि भृत्यवद्विनयान्वितैः ॥
नित्यं रक्षा विधातव्या युष्मदीयं वचोखिलम् ॥ १३ ॥
एते संपालयिष्यन्ति मर्यादाकारमुत्तमम् ॥
सन्देहेषु च सर्वेषु विवादेषु विशेषतः ॥ १४ ॥
राजकार्येषु चान्येषु एते दास्यन्ति निर्णयम् ॥
युष्मदीयं वचः श्रुत्वा शुभं वा यदि वाऽशुभम् ॥ १५ ॥
एते पाल्याः प्रसादेन पुष्टिं नेयाश्च शक्तितः॥
ईर्ष्यां सर्वां परित्यज्य मदीयस्थानवृद्धये ॥ १६ ॥
बाढमित्येव तैः प्रोक्तः स राजा ब्राह्मणोत्तमान् ॥
चमत्कापुरोद्भूतान्भूयः प्रोवाच सादरम् ॥ १७ ॥
युष्माकं वर्तनार्थाय सर्वकृत्येषु सर्वदा ॥
एते विप्रा मया दत्ता गर्तातीर्थसमुद्भवाः ॥ १८ ॥
एतेषां वचनात्सर्वं युष्मदीयं प्रजायताम् ॥
प्रतिष्ठा जायते नूनं चातुश्चरणसूचिता ॥ १९ ॥
नान्यथा ब्राह्मणश्रेष्ठाः स्वल्पं वा यदि वा बहु ॥
प्रोक्तं लक्षमितैरन्यैर्युष्मदीयपुरोद्भवैः ॥ ६.१२६.२० ॥
॥ सूत उवाच ॥
ततस्ते ब्राह्मणा हृष्टास्तानादाय द्विजोत्तमान् ॥
तेषां मतेन चक्रुश्च सर्वकृत्यानि सर्वदा ॥ २१ ॥
ततस्तत्र पुरे जाता मर्यादा धर्मवर्द्धिनी ॥
सर्वकृत्येषु सर्वेषां तथा वृद्धिः पुरस्य च ॥ २२ ॥
तेऽपि तेषां प्रसादेन गर्त्तातीर्थभवा द्विजाः ॥
परां विभूतिमास्थाय मोदन्ते सुखसंयुताः ॥ २३ ॥
कस्यचित्त्वथ कालस्य स राजा तत्पुरोत्तमम् ॥
समभ्येत्य द्विजान्सर्वांस्ततः प्रोवाच सादरम् ॥२४॥
युष्मदीयप्रसादेन क्षेत्रेऽत्र सुमहत्तपः ॥
कृतं स्वर्गं प्रयास्यामि सांप्रतं तु द्विजोत्तमाः ॥ २५ ॥
नास्माकमन्वये कश्चित्सांप्रतं वर्तते नृपः ॥
तस्याहं लिंगमेतद्वै दर्शयामि द्विजोत्तमाः ॥२६॥
पूजार्थं चापि वृत्त्यर्थं भोगार्थं च विशेषतः ॥
तस्माद्युष्माभिरेवास्य पूजा कार्या प्रयत्नतः ॥
रथयात्रा विशेषेण दयां कृत्वा ममोपरि ॥ २७ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
सप्त विंशतिलिंगानि यथेष्टानि महीतले ॥
चमत्कारसुतानां च पूज्यंते सर्वदैव तु ॥ २८ ॥
अष्टाविंशतिमं तद्वदेतल्लिंगं तवोद्भवम् ॥
सर्वदा पूजयिष्यामो निश्चिन्तो भव पार्थिव ॥ २९ ॥
अस्य यात्रां करिष्यामः कार्तिके मासि सर्वदा ॥
बलिपूजोपहारांश्च गीतवाद्यानि शक्तितः ॥ ६.१२६.३० ॥
एवमुक्तः स तैर्हृष्टो गत्वात्मीयं तदाश्रमम् ॥
स्नापयित्वाथ तल्लिंगं पूजां चक्रे प्रभक्तितः ॥ ३१ ॥
॥ सूत उवाच ॥ ॥
एवं समर्पितं लिंगं तेन तद्धरसंभवम् ॥
सर्वेषां ब्राह्मणेंद्राणां वंशोच्छेदे स्थिते द्विजाः ॥ ३२ ॥
सकलं कार्तिकं मर्त्यो यस्तच्छ्रद्धासमन्वितः ॥
स्नापयेत्पूजयेच्चापि स नूनं मुक्तिमाप्नुयात् ॥ ३३ ॥
सोमस्य दिवसे प्राप्ते वर्षं यावत्कृतक्षणः ॥
तस्य पूजां करोत्येवं स्नापयित्वा विधानतः ॥
सोऽपि मुक्तिं व्रजेन्मर्त्य एतत्तातान्मया श्रुतम् ॥ ३४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सत्यसंधेश्वरमाहात्म्यवर्णनंनाम षड्विंशत्यधिकशततमोऽध्यायः ॥ १२६ ॥ ॥ छ ॥