स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ११८

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
यत्त्वया सूतज प्रोक्तं तक्षकः संभविष्यति ॥
सौराष्ट्रविषये राजा रैवताख्यो महाबलः ॥ १ ॥
तथा तस्य प्रिया भार्यो नाम्ना क्षेमंकरीति या ॥
आनर्ताधिपतेर्हर्म्ये संभविष्यति भामिनी ॥ २ ॥
ताभ्यां सर्वं समाचक्ष्व वृत्तांतं सूतनंदन ॥
अत्र नः कौतुकं जातं विचित्रं जल्पतस्तव ॥ ३ ॥
केदारश्च श्रुतोऽस्माभिः सूतपुत्र हिमाचले ॥
स कथं तत्र संजातः सर्वं विस्तरतो वद ॥ ४॥ ॥
॥ सूत उवाच ॥ ॥
अत्र वः कीर्तयिष्यामि सर्वं ब्राह्मणसत्तमाः ॥
यथा मया श्रुतं पूर्वं निजतातमुखाद्द्विजाः ॥ ६ ॥
पूर्वं तच्छापदोषेण तक्षको धरणीतले ॥
सौराष्ट्राधिपतेर्हर्म्ये रैवताख्यो बभूव ह ॥ ६ ॥
आनर्त्ताधिपतेश्चापि संजाता तनया गृहे ॥
तस्याश्चापि सुविख्यातं नाम जातं धरातले ॥ ७ ॥
क्षेमंकरीति विप्रेन्द्राः कर्मणा प्रकटीकृतम् ॥
आनर्ताधिपतिः पूर्वमासीद्राजा प्रभंजनः ॥ ८ ॥
तस्य वैरं समुत्पन्नं बहुभिः सह भूमिपैः ॥
ततो निर्वास्यते देशो नीयते पशवो बलात् ॥
शत्रुभिर्जायते युद्धं दिवा नक्तं द्विजोत्तमाः॥९॥
ततः कतिपयाहस्य तस्य भार्या प्रियंवदा ॥
ऋतुस्नाता दधाराथ गर्भं पुण्यं निजोदरे॥६.११८.१०॥॥
यतः प्रभृति तस्याः स गर्भोऽभूदुदराश्रयः॥
ततः प्रभृति राष्ट्रस्य क्षेमं जातं तथा पुरे॥॥॥
एके संख्ये जिता स्तेन शत्रवोऽपि सुदुर्जयाः ॥
निहताश्च तथैवान्ये मित्रभावं समाश्रिताः ॥ १२॥
ततो जज्ञे शुभा कन्या तस्याः पद्मायतेक्षणा॥
अंधकारेऽपि यद्रात्र्यां द्योतितं सूतिकागृहम्॥।३॥
अथाऽसौ पार्थिवश्चक्रे सुतवत्सुमहोत्सवम्॥
तस्यास्तोषसमायुक्तो गीतवाद्यादिनिस्वनैः ॥।४॥
दिने त्रयोदशे प्राप्ते नाम तस्या यथोचितम्॥
विहितं भूभुजा तेन विप्राणां पुरतो द्विजाः ॥।५॥
यस्मात्क्षेमं समुत्पन्नं गर्भवासेऽपि संस्थया ॥
अनया क्षेमंकरीनाम तस्मादेषाभवे द्द्विजाः ॥।६॥
एवं सुविहिता ख्याता वृद्धिं याति दिनेदिने ॥
शुक्लपक्षे कला चेन्दोर्यथैव गगनांगणे॥।७॥
ततस्तां यौवनोपेतां रैवताय महीपतिः ॥
ददौ सौराष्ट्रनाथाय काले वैवाहिके शुभे ॥ १८ ॥
अथ ताभ्यां सुता जाता रेवतीनाम विश्रुता ॥
भट्टिकाशापदोषेण शेषपत्नी यशस्विनी ॥।९॥
या तूढा रामरूपेण नागराजेन धीमता ॥
पुत्रपौत्रवती जाता सौभाग्यमदगर्विता ॥ ६.११८.२० ॥
न च ताभ्यां सुतो जातः कथंचिदपि वंशजः ॥
वयसोंऽतेऽपि विप्रेंद्रास्ततो दुःखं व्यजायत ॥ २१ ॥
अथ तौ मंत्रिवर्गस्य राज्यं सर्वमशेषतः ॥
अर्पयित्वा तु पुत्रार्थं तपोऽर्थमिह चागतौ ॥ ॥ २२ ॥
ततः स्वमाश्रमं गत्वा स्थितौ तत्र समाहितौ ॥
देवीं कात्यायनीं स्थाप्य तदाराधनतत्परौ ॥ २३ ॥
यया विनिहतो रौद्रो महिषाख्यो महासुरः ॥
कौमारव्रतधारिण्या तस्मिन्विन्ध्ये महाचले ॥ २४ ॥
ततस्ताभ्यां ददौ तुष्टा सा पुत्रं वंशवर्धनम् ॥
नाम्ना क्षेमजितं ख्यातं परपक्षक्षया वहम् ॥ २५ ॥
ततः स्वं राज्यमासाद्य भूयोऽपि स महीपतिः ॥.
स्वपुत्रं वर्धयामास हर्षेण महतान्वितः ॥ २६ ॥
यदा स यौवनोपेतः सञ्जातः क्षेमजित्सुतः ॥
तं च राज्ये नियोज्याऽथ स्वस्थानं स पुनर्ययौ ॥ २७ ॥
हाटकेश्वरजं क्षेत्रं तदेतद्द्विजसत्तमाः ॥
भार्यया सहितस्त्यक्त्वा शेषमन्यं परिच्छदम् ॥ २८ ॥
तत्र संस्थापयामास लिंगं देवस्य शूलिनः ॥
प्रासादं च मनोहारि ततश्चक्रे समाहितः॥ २९
रैवतेश्वरमित्युक्तं सर्वपातक नाशनम् ॥
दर्शनादेव सर्वेषां देहिनां द्विजसत्तमाः ॥ ६.११८.३० ॥
या पूर्वं स्थापिता दुर्गा तस्मिन्क्षेत्रे महीभुजा ॥
तस्याः क्षेमंकरी चक्रे प्रासादं श्रद्ध यान्विता ॥ ३१ ॥
सापि क्षेमंकरीनाम ततः प्रभृति कीर्त्यते ॥
कात्यायन्यपि या प्रोक्ता महिषासुरमर्दिनी ॥ ३२ ॥
यस्तां चैत्रसिते पक्षे संप श्येदष्टमीदिने ॥
तस्याभीष्टा भवेत्सिद्धिः सर्वदैव द्विजोत्तमाः ॥ ३३ ॥
एतद्वः सर्वमाख्यातं रैवतेश्वरवर्णनम् ॥
क्षेमंकर्याः प्रभावं च सर्वपातकनाशनम् ॥ ३४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये क्षेमंकरीरैवतेश्वरोत्पत्तितीर्थ माहात्म्यवर्णननामाष्टादशोत्तरशततमोऽध्यायः ॥ ११८ ॥ ॥