स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ११७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
भट्टिकाख्या पुरा प्रोक्ता या त्वया सूतनन्दन ॥
कस्मात्तस्याः शरीरान्ताद्दंष्ट्रा नागसमुद्भवाः ॥ १ ॥
विशीर्णाः किं प्रभावश्च तपसः सूतनन्दन ॥
किं वा मंत्रप्रभावश्च एतन्नः कौतुकं परम् ॥ २ ॥
यन्मानुषशरीरेऽपि विशीर्णास्ता विषोल्बणाः ॥
नागानां तु विशेषेण तस्मात्सर्वं प्रकीर्तय ॥ ३ ॥
। सूत उवाच ॥ ॥
सा पुरा ब्राह्मणी बाल्ये वर्तमाना पितुर्गृहे ॥
वैधव्येन समायुक्ता जाता कर्मविपाकतः ॥ ४ ॥
ततो बाल्येऽपि शुश्राव शास्त्राणि विविधानि च ॥
देवयात्रां प्रचक्रेऽथ तीर्थे स्नाति समाहिता ॥ ५ ॥
तत्र केदारदेवं च गत्वा नित्यं समाहिता ॥
प्रातरुत्थाय गीतं च भक्त्या चक्रे तदग्रतः ॥ ६ ॥
ततस्तद्गीतलौल्येन पातालात्समुपेत्य च ॥
तक्षको वासुकिश्चैव द्विज रूपधरावुभौ ॥ ७ ॥
साऽपि तत्र महद्गीतं तानैः सर्वैरलंकृतम्॥
मूर्च्छनाभिः समोपेतं सप्तस्वरविराजितम् ॥ ८ ॥
यतिभिश्च तथा ग्रामैर्वर्णग्रामैः पृथ ग्विधैः॥
ततं च विततं चैव घनं सुषिरमेव च ॥ ९ ॥
तालकालक्रियामानवर्धमानादिकं च यत् ॥
अविदग्धापि सा तेषां गीतांगानां द्विजांगना ॥
केवलं कंठसंशुद्ध्या ताभ्यां तोषं समादधे ॥६.११७.१०॥॥
ततस्तद्गीतलोभेन सर्वे तत्पुरवासिनः ॥
प्रातरुत्थाय केदारं समागच्छंति कौतुकात् ॥॥॥
कस्य चित्त्वथ कालस्य नागौ तौ स्वपुरं प्रति ॥
निन्युर्बलात्समुद्यम्य सर्वलोकस्य पश्यतः॥ १२ ॥
नागरूपं समाधाय रौद्रं जनविभीषणम् ॥
भोगाग्र्येण च संवेष्ट्य पातालतलमभ्ययुः ॥ १३ ॥
अथ तां स्वगृहं नीत्वा प्रोचतुः कामपीडितौ ॥
भवावाभ्यां विशालाक्षि भार्या धर्मपरायणा ॥
एतदर्थं समानीता त्वं पाताले महीतलात् ॥ १४ ॥
॥ भट्टिकोवाच ॥ ॥
यत्त्वं तक्षक मां शांतामनपेक्षां रतोत्सवे ॥
आनैषीरपहृत्याशु ब्राह्मणान्वय संभवाम् ॥ १५ ॥
मानुषं रूपमास्थाय पुरा मां त्वं समाश्रितः ॥
कामोपहृतचित्तात्मा तस्मान्मर्त्यो भविष्यसि ॥ १६ ॥
यदि मां त्वं दुराचार धर्षयिष्यसि वीर्यतः ॥
शतधा तव मूर्धाऽयं सद्य एव भविष्यति ॥ १७ ॥
तं श्रुत्वा सुमहाशापं तस्याः स भयविह्वलः ॥
ततः प्रसादयामास कृतांजलिपुटः स्थितः ॥ १८ ॥
मया त्वं कामसक्तेन समानीता सुमोहतः ॥
तस्मात्कुरु प्रसादं मे शापस्यांतो यथा भवेत् ॥ १९ ॥
॥ सूत उवाच ॥ ॥
एवं प्रसादिता तेन तक्षकेण द्विजात्मजा ॥
ततः प्रोवाच तं नागं बाष्पव्याकुललोचना ॥ ६.११७.२० ॥
यदि मां मर्त्यलोके त्वं भूयो न यसि तक्षक ॥
तत्र शापस्य पर्यंतं करिष्यामि न संशयः ॥ २१ ॥
एतस्मिन्नंतरे ज्ञात्वा मानुषीं स्वगृहागताम् ॥
तक्षकेण समानीतां कामोपहतचे तसा ॥ २२ ॥
ततस्तस्य कलत्राणि महेर्ष्यासंश्रितानि च ॥
तस्या नाशार्थमाजग्मुः कोपरक्तेक्षणानि च ॥ २३
अथ तासां परिज्ञाय तक्षकः स विचेष्टितम् ॥
वाञ्छञ्छापस्य पर्यंतं तत्पार्श्वाद्भयसंयुतः ॥२४॥
वज्रां नामास्मरद्विद्यां तस्या गात्रं ततस्तया ॥
योजयामास रक्षार्थं प्राप्ता चाथ भुजंगमी ॥ २५ ॥
अदशत्तां ततः क्रुद्धा ब्राह्मणस्य सुतां सतीम्॥
सपत्नीं मन्यमानोच्चैः शीर्णदंष्ट्रा व्यजायत ॥ २६ ॥
अथ तामपि सा क्रुद्धा शशाप द्विजसंभवा ॥
दृष्ट्वा सापत्न्यजैर्भावैर्वर्तमानां सहेर्ष्यया ॥ २७ ॥
यस्मात्त्वं दोषहीनां मां सदोषामिव मन्यसे ॥
तस्माद्भव द्रुतं पापे मानुषी दुःखभागिनी ॥ २८ ॥
अथ तां संगृहीत्वा स तक्षको नागसत्तमः ॥
केदारायतने तस्मिन्नर्धरात्रे मुमोच ह ॥ २९ ॥
ततः प्रोवाच तां देवीं कृतां जलिपुटः स्थितः ॥
शापांतं कुरु मे साध्वि स्वगृहं येन याम्यहम् ॥ ६.११७.३० ॥
॥ भट्टिकोवाच ॥ ॥
सौराष्ट्रविषये राजा त्वं भविष्यसि पन्नग ॥
भूमौ रैवतको नाम भोगानां भाजनं सदा ॥ ३१ ॥
ततश्चैव तनुं त्यक्त्वा क्षेत्रेष्वाश्रममध्यतः ॥
संप्राप्स्यसि निजं स्थानं तत्क्षेत्रस्य प्रभावतः ॥ ॥ ३२ ॥
॥ तक्षक उवाच ॥ ॥
एषा मम प्रिया कांता त्वया शापेन योजिता ॥
या सा भवतु मे भार्या मानुषत्वेऽपि वर्तिते ॥ ३३ ॥
एत त्कुरु प्रसादं मे दीनस्य परियाचतः ॥
माऽस्या भवतु चान्येन पुरुषेण समागमः ॥ ३४ ॥
॥ भट्टिकोवाच ॥ ॥
आनर्ताधिपतेरेषा भवित्री दुहिता शुभा॥
ततः पाणिग्रहं प्राप्य भार्या तव भविष्यति॥३५॥
क्षेमंकरीति विख्याता रूपयौवनशालिनी ॥
त्वया सार्धं बहून्भोगान्भुक्त्वाऽथ पृथिवीतले॥
परलोके पुनस्त्वां वै चानुयास्यति शोभना ॥ ३६॥
॥ सूत उवाच ॥ ॥
एवं च स तया प्रोक्तः क्षम्यतामिति सादरम् ॥
प्रणिपत्य जगामाऽथ निजं स्थानं प्रहर्षितः ॥३७॥
साऽपि प्राप्ते निशाशेषे केदारस्य पुरः स्थिता ॥
पुनश्चक्रे च तद्गीतं श्रुतिसौख्यकरं परम्॥३८॥
अथ तस्य समायाताः केदारस्य दिदृक्षवः॥
पुनः केदारभक्त्याढ्या ब्राह्मणाः शतशः परम् ॥३९॥
ते तां दृष्ट्वा समायातां भट्टिंकां तां द्विजोद्भवाम् ॥
विस्मयेन समायुक्ताः पप्रच्छुस्तदनंत रम्॥६.११७.४०॥।
कोऽसौ ब्राह्मणरूपेण नागः प्राप्तः सुशोभने ॥
तेन त्वं कुत्र नीतासि किमर्थं च वदस्व नः॥४॥।
कस्मात्पुनः प्रमुक्ताऽसि सर्वं वद यथातथम्॥
अत्र नः कौतुकं जातं सुमहत्तव कारणात्॥४२॥
॥ सूत उवाच ॥ ॥
ततः सा कथयामास सर्वं तक्षकसंभवम् ॥
वृत्तांतं नागसंभूतं शापानुग्रहजं तथा ॥ ४३ ॥
एतस्मिन्नंतरे प्राप्तं सर्वं तस्याः कुटुम्बकम् ॥
रोरूयमाणं दुःखार्तं श्रुत्वा तां तत्र चागताम् ॥ ४४ ॥
अथ सा जननी तस्या वाष्प पर्याकुलेक्षणा ॥
सस्वजे तां तथा चान्याः सख्यः स्निग्धेन चेतसा ॥ ४५ ॥
ततो निन्युर्गृहं स्वं च शृण्वंतश्च मुहुर्मुहुः ॥
नागलोकोद्भवां वार्तां विस्य याविष्टचेतसः ॥ ४६ ॥
अथ तत्र पुरे पौराः सर्वे प्रोचुः परस्परम् ॥
अयुक्तं कृतमेतेन ब्राह्मणेन दुरात्मना ॥ ४७ ॥
यदानीता सुतरुणी परहर्म्योषिता तया? ॥
अन्येषामपि विप्राणां संति नार्यो ह्यनेकशः ॥ ४८ ॥
तरुण्यो रूपवत्यश्च वैधव्येन समन्विताः ॥
तासामपि च सर्वासामेष न्यायो भविष्यति ॥
योनिसंकरजो नूनं तस्मान्निर्वास्यतामिति ॥ ४९ ॥
एकीभूय ततः सर्वे ब्राह्मणं तं द्विजोत्तमाः ॥
सामपूर्वमिदं वाक्यं प्रोचुः शास्त्र समुद्भवम् ॥ ६.११७.५० ॥
एषा तव सुता विप्र तरुणी रूपसंयुता ॥
सानुरागेण नागेण पाताले च समाहृता ॥ ५१ ॥
तद्वक्ष्यति प्रमुक्ताहं निर्दोषा तेन रागिणा ॥
न श्रद्धां याति लोकोऽयं शुद्धैषा समुदाहृता ५२ ॥
तस्माच्छुद्धिं द्विजेद्राणां प्रयच्छतु द्विजोत्तम ॥
येनान्येषामपि प्राज्ञ विनश्यंति न योषितः ॥ ५३ ॥
बाढमित्येव स प्रोक्त्वा ततस्तां विजने सुताम् ॥
पप्रच्छ यदि ते दोषः कश्चिदस्ति प्रकीर्तय॥ ५४ ॥
नो चेत्प्रयच्छ संशुद्धिं ब्राह्मणानां प्रतुष्टये ॥ ५५ ॥
॥ भट्टिकोवाच ॥ ॥
युक्तमुक्तं त्वया तात तथान्यैरपि च द्विजैः ॥
युक्ता स्याद्योषितः शुद्धिर्द्वारातिक्रमणादपि॥ ॥ ॥ ५६ ॥
किं पुनः परदेशं च गताया रागिणा सह ॥
तस्मादहं न संदेहः प्रातः स्नाता हुताशनम् ॥ ५७ ॥
प्रविश्य सर्वविप्राणां शुद्धिं दास्याम्य संशयम् ॥
अहमत्र च पानं च यच्चान्यदपि किंचन ॥
प्राशयिष्यामि संप्राप्य शुद्धिं चैव हुताशनात् ॥ ५८ ॥
एवमुक्तस्तया सोऽथ हर्षेण महतान्वितः ॥
प्रातरुत्थाय दारूणि पुरबाह्ये न्ययोजयत् ॥ ५९ ॥
भट्टिकाऽपि ततः स्नात्वा शुक्लांबरधरा शुचिः ॥
सर्वैः परिजनैः सार्धं तथा निज कुटुंबकैः ॥ ६.११७.६० ॥
प्रसन्नवदना हृष्टा विष्णुध्यानपरायणा ॥
जगाम तत्र यत्रास्ते सुमहान्दारुपर्वतः ॥ ६१ ॥
ततो वह्निं समाधाय स्वयं तत्र द्विजोत्तमाः॥
प्रदक्षिणात्रयं कृत्वा प्राह चैव कृतांजलिः ॥ ६२ ।
यदि मेऽस्ति क्वचिद्दोषः कामजोऽल्पोऽपि गात्रके ॥
कृतो वाऽपि बलात्तेन तक्षकेण दुरात्मना ॥ ६३ ॥
अन्येनापि च केनापि भविष्यत्यथवा परः ॥
तस्मात्प्रदहतु क्षिप्रं समिद्धोऽयं हुताशनः ॥ ६४
एवमुक्त्वाऽथ सा साध्वी प्रविष्टा निजहर्म्यवत् ॥
सुसमिद्धो हुतो वह्निर्जातो जलमयः क्षणात् ॥ ६५ ॥
सा च पश्यति चात्मानं जलमध्यगतां शुभा ।८०
पपाताऽथ महावृष्टिः कुसुमानां नभस्तलात् ॥ ६६ ॥
देवदूतो विमानस्थ इदं वाक्यमुवाच ह ॥
शुद्धासि त्वं महाभागे चारित्रै र्निजगात्रजैः ॥ ६७ ॥
न त्वया सदृशी चान्या काचिन्नारी भविष्यति ॥
तिस्रः कोट्योर्धकोटी च यानि लोमानि मानुषे ॥
प्रभवंति महाभागे सर्वगात्रेषु सर्वदा ॥ ६८ ।
तेषां मध्ये न ते साध्वि पापमेकमपि क्वचित् ।
तस्माच्छीघ्रं ग्रहं गच्छ निजं बांधवसंयुता ॥ ६९ ॥
कुरु कृत्यानि पुण्यानि समाराधय केशवम् ॥
एतच्चैव चितेः स्थानं त्वदीयं जलपूरितम् ॥ ६.११७.७० ॥
तव नाम्ना सुविख्यातं तीर्थं लोके भविष्यति ॥
येऽत्र स्नानं करिष्यंति शयने बोधने हरेः ॥ ७१ ॥
ते यास्यंति परां सिद्धिं दुष्प्राप्या याऽमरैरपि ॥
उक्त्वैवं विरता वाणी देवदूतसमुद्भवा ॥ ७२ ॥
भट्टिका तु ततो हृष्टा प्रणम्य जनकं निजम् ॥
नाहं गृहं गमिष्यामि किं करिष्याम्यहं गृहे ॥ ७३ ॥
अत्रैवाराधयिष्यामि निजतीर्थे सदाऽच्यु तम् ॥
तथा तपः करिष्यामि भिक्षान्नकृतभोजना ॥ ७४ ॥
तस्मात्तात गृहं गच्छ स्थिताऽहं चाग्र संश्रये ॥ ७५ ॥
ततः स जनकस्तस्यास्ते वाऽपि पुरवासिनः ॥
संप्रहृष्टा गृहं जग्मुः शंसतस्तां पृथक्पृथक् ॥ ७६ ॥
तया त्रैविक्रमी तत्र प्रतिमा प्राग्विनिर्मिता ॥
पश्चान्माहेश्वरं लिंगं कृत्वा प्रासादमुत्तमम् ॥ ७७ ॥
ततः परं तपश्चक्रे भिक्षान्नकृतभोजना ॥
शस्यमाना जनैः सर्वैश्चमत्कारपुरोद्भवैः ॥ ७८ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥
यथा तस्या दृढं कायमभेद्यं संस्थितं सदा ॥ ७९ ॥
सर्पाणां च तथाऽन्येषां शस्त्रादीनामपि द्विजाः ॥
यश्चैतत्पठते नित्यं भट्टिकाख्यानमुत्तमम् ॥
नापवादो भवेत्तस्य कुकृतो द्विजसत्तमाः ॥ ६.११७.८० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये भट्टिकातीर्थोत्पत्तिमाहात्म्यकथनंनाम सप्तदशोत्तरशततमोऽध्यायः ॥ ॥ ११७ ॥ ॥ छ ॥