स्कन्दपुराणम्/खण्डः ६(नागरखण्डः)/अध्यायः १०३

विकिस्रोतः तः
Jump to navigation Jump to search


॥ ॥ ऋषय ऊचुः ॥
आश्चर्यं सूतपुत्रैतद्यत्त्वया परिकीर्तितम् ॥
यत्स्थापितानि लिंगानि राक्षसैरपि वानरैः ॥ १ ॥
तस्माद्विस्तरतो ब्रूहि यत्रयत्र यथायथा ॥
तैः स्थापितानि लिंगानि येषु स्थानेषु सूतज ॥ २ ॥
॥ सूत उवाच ॥ ॥'
सुग्रीवः संभ्रमित्वाथ क्षेत्रं सर्वमशेषतः ॥
बालमंडनकं प्राप्य तत्र स्नात्वा समाहितः ॥ ३ ।
मुखलिंगं ततस्तत्र स्थापयामास शूलिनः ॥।
तथान्यैर्वानरैः सर्वैमुखलिंगानि शूलिनः ॥
स्वसंज्ञार्थं द्विजश्रेष्ठाः स्थापितानि यथेच्छया ॥ ४ ॥
यस्तेषां मुखलिंगानां करोति घृतकंबलम्॥।
मकरस्थेन सूर्येण शिवलोकं स गच्छति ॥ ५ ॥
ततः पश्चिमदिग्भागे तस्य क्षेत्रस्य राक्षसैः ॥
संस्थापितानि लिङ्गानि चतुर्वक्त्राणि च द्विजाः ॥_ ॥ ६ ॥
रामेण पूर्वदिग्भागे प्रासादानां च पंचकम् ॥
स्थापितं भक्तियुक्तेन सर्वपातकनाशनम् ॥ ७ ॥
तथादक्षिणदिग्भागे कूपिका तेन निर्मिता॥।
आनर्त्तीयतडागस्य समीपे पापनाशनी ॥ ८ ॥
यस्तस्यां कुरुते श्राद्धं संप्राप्ते दक्षिणायने ॥
सोऽश्वमेधफलं प्राप्य पितृलोके महीयते ॥ ९ ॥।
यस्तत्र दीपकं दद्यात्कार्तिके मासि च द्विजाः ॥
न स पश्यति रौद्रांस्तान्नरकानेकविंशतिम् ॥
न चांधो जायते क्वापि यत्रयत्र प्रजायते ॥ 6.103.१० ॥॥ ॥
॥ ऋषय ऊचुः ॥ ॥
आनर्त्तीयतडागं तत्केन तत्र विनिर्मितम् ॥
किंप्रभावं च कार्त्स्न्येन सूतपुत्र प्रकीर्तय ॥ ११ ॥
॥ सूत उवाच ॥ ॥।
आनर्त्तीयतडागस्य महिमा द्विजसत्तमाः ॥
एकवक्त्रेण नो शक्यो वक्तुं वर्षशतैरपि ॥ १२ ॥
आश्विनस्य सिते पक्षे चतुर्दश्यां समाहितः ॥
स्नात्वा देवान्पितॄंश्चैव तर्पयेद्विधिपूर्वकम् ॥ १३ ॥
ततो दीपोत्सवदिने श्राद्धं कृत्वा समाहितः ॥
दामोदरं यमं पूज्य दीपं दद्यात्स्वभक्तितः ॥ ॥ १४ ॥
संपूज्यो धर्मराजस्तु गन्धपुष्पानुलेपनैः ॥
माषास्तिलाश्च दातव्या गोविंदः प्रीयतामिति ॥ १५ ॥
तिलमाषप्रदानेन द्विजानां तर्पणेन च ॥
यमेन सहितो देवः प्रीयते पुरुषोत्तमः ॥ १६ ॥
य एवं कुरुते विप्रास्तीर्थ आनर्त संज्ञिते ॥
सोऽश्वमेधफलं प्राप्यब्रह्मलोके महीयते ॥ १७ ॥।
यस्मिन्दिने समायातो रामस्तत्र प्रहर्षितः ॥
तस्मिन्द्विजोत्तमैः सर्वैः प्रोक्तः सोऽभ्येत्य सादरम् ॥ १८ ॥
अत्रागस्त्यो मुनिश्रेष्ठस्तिष्ठते रघुनंदन ॥
तं गत्वा पश्य विप्रेन्द्र मित्रावरुणसंभवम् ॥ १९ ॥
अथ तेषां वचः श्रुत्वा रामो राजीवलोचनः ॥
वानरै राक्षसैः सार्धं प्रहृष्टः सत्वरं ययौ ॥ 6.103.२०
अष्टांगप्रणिपातेन तं प्रणम्य रघूत्तमः ॥
परिष्यक्तो दृढं तेन सानन्देन महात्मना ॥ २१ ॥
नातिदूरे ततस्तस्य विनयेन समन्वितः ॥
उपविष्टो धरापृष्ठे कृतांजलिपुटः स्थितः ॥ २२ ॥
ततः पृष्टस्तु मुनिना कथयामास विस्तरात् ॥
वृत्तांतं सर्वमात्मीयं स्वर्गस्य गमनं प्रति ॥ २३ ॥
यथा सीता परित्यक्ता यथा सौमित्रिणा कृतः ॥
परित्यागः स्वकीयस्य संत्यक्तेन महात्मना ॥ ॥ २४ ॥
तथा सुग्रीवमासाद्य तथैव च विभीषणम् ॥
संभाष्य चागमस्त्वत्र ततः पुष्पकसंस्थितिः ॥२५ ॥
ततोऽगस्त्यः कथाश्चित्राश्चक्रे तस्य पुरस्तदा ॥
राजर्षीणां पुराणानां दृष्टांतैर्बहुभिर्मुनिः ॥ २६ ॥
ततः कथावसाने च चलचित्तं रघूत्तमम् ॥
विलोक्य प्रददौ तस्मै रत्नाभरणमुत्तमम् ॥ २७ ॥
यन्न देवेषु यक्षेषु सिद्धविद्याधरेषु च ॥
नागेषु राक्षसेन्द्रेषु मानुषेषु च का कथा ॥ २८ ॥
यस्येन्द्रायुधसंघाश्च निष्क्रामंति सहस्रशः ॥
रात्रौ तमिस्रपक्षेऽपि लक्ष्यतेऽर्कोपमत्विषः ॥ २९ ॥
तद्रामस्तु गृहीत्वाऽथ विस्मयोत्फुल्ललोचनः ॥
पप्रच्छ कौतुकाविष्टः कुतस्त्वेतन्मुने तव ॥ ॥ 6.103.३० ॥
अत्यद्भुतकरं रत्नैर्निर्मितं तिमिरापहम् ॥
कण्ठाभरणमाख्याहि नेदमस्ति जगत्त्रये ॥ ३१ ॥
॥ अगस्तिरुवाच ॥ ॥
यत्पश्यसि रघुश्रेष्ठ तडागमिदमुत्तमम् ॥
ममाश्रमसमीपस्थं तद्देवदेवनिर्मितम् ॥ ३२ ॥
तस्य तीरे मया दृष्टं यदाश्चर्यमनुत्तमम् ॥
तत्तेऽहं संप्रवक्ष्यामि शृणुष्व रघु नन्दन ॥ ३३ ॥
कदाचिद्राघवश्रेष्ठ निशीथेऽहं समुत्थितः ॥
पश्यामि व्योममार्गेण प्रद्योतं भास्करोपमम् ॥ ३४ ॥
यावत्तावद्विमानं तदप्सरोगणराजितम् ॥
तस्य मध्यगतश्चैकः पुरुषस्तरुणस्तथा ॥
अन्धस्तत्र समारूढः स्तूयते किन्नरैर्नृपः ॥ ३५ ॥
रत्नाभरणमेतच्च बिभ्रत्कण्ठे सुनिर्मलम् ॥
द्वादशार्कप्रतीकाशं कामदेव इवापरः ॥ ३६ ॥
अथोत्तीर्य विमानाग्र्यात्स्कंधलग्नो रघूद्वह ॥
एकस्य देवदूतस्य सलिलांतमुपागतः ॥ ३७ ॥
ततश्च सलिलात्तस्मादाकृष्य च कलेवरम् ॥
मृतकस्य ततो दंतैर्भक्षयामास सत्वरम् ॥ ३८ ॥
यथायथा महामांसं स भक्षयति राघव ॥
तथातथा पुनः कायं तद्रूपं तत्प्रजायते ॥ ३९ ॥
ततस्तृप्तिं चिरात्प्राप्य शुचिर्भूत्वा प्रहर्षितः ॥
निष्कम्य सलिलाद्यावद्विमानमधिरोहति ॥ 6.103.४० ॥
तावन्मया द्रुतं गत्वा स पृष्टः कौतुकान्नृपः ॥
सेव्यमानोऽपि गन्धर्वैः समंताद्बुद्धितत्परैः ॥ ४१ ॥
भोभो वैमानिकश्रेष्ठ मुहूर्तं प्रतिपालय ॥
अगस्तिर्नाम विप्रोऽहं मित्रावरुणसंभवः ॥ ४२ ।
तच्छ्रुत्वा सम्मुखो भूत्वा प्रणाममकरोत्ततः ॥
तैश्च वैमानिकैः सार्धं सर्वैस्तैः किन्नरादिभिः ॥ ४३ ॥
सोऽयं राजा मया पृष्टः कृतानतिः पुरः स्थितः ॥
कस्त्वमीदृग्वपुः श्रीमान्विमानवरमाश्रितः ॥
सेव्यमानोऽप्सरोभिश्च गन्धर्वैः किन्नरैस्तथा ॥ ॥ ४४ ॥
अत्राऽऽगत्य तडागांते महामांसप्रभक्षणम् ॥
कृतवानसि वैकल्यं कस्मात्ते दृष्टिसंभवम् ॥ ४५ ॥
॥ वैमानिक उवाच ॥ ॥
साधु साधु मुनिश्रेष्ठ यत्त्वं प्राप्तो ममान्तिकम् ॥
अवश्यं सानुकूलो मे विधिर्यत्त्वं समागतः ॥ ४६ ॥
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ॥
कालेन फलते तीर्थं सद्यः साधुसमागमः ॥ ४७ ॥
तस्मात्सर्वं तवाख्यानं कथयामि महामुने ।
येन मे गर्हितं भोज्यं विभवश्च तथेदृशः ॥ ४८ ॥
अहमासं पुरा राजा श्वेतोनाम महामुने ॥
आनर्ताधिपतिः पापः सर्वलोकनिपीडकः ॥ ४९ ॥
न किंचित्प्राङ्मया दत्तं न हुतं जातवेदसि ॥
न च रक्षा कृता लोके न त्राताः शरणागताः ॥ 6.103.५० ॥
दृष्ट्वादृष्ट्वा मया रत्नं यत्किंचिद्धरणीतले ॥ ।
तद्वै बलाद्धृतं सर्वं सर्वेषामिह देहिनाम् ॥ ५१ ॥
ततः कालेन दीर्घेण जराग्रस्तस्य मे बलात् ॥
हृतं राज्यं स्वपुत्रेण मां निर्वास्य विगर्हितम् ॥ ॥ ५२ ॥
ततोऽहं जरया ग्रस्तो वैराग्यं परमं गतः॥
समायातोऽत्र विप्रेंद्र भ्रममाण इतस्ततः ॥ ५३ ॥
ततः क्षुत्क्षामकण्ठोऽहं स्नात्वाऽत्र सलिले शुभे॥
मृतश्च संनिविष्टोहं क्षुधया परिपीडितः॥ ५४॥
प्राविश्याऽत्र जले पुण्ये पंचत्वं समुपागतः ॥
ततश्च तत्क्षणादेव विमानं समुपस्थितम् ॥ । ॥ ५५ ॥
मामन्येन शरीरेण समादाय च किंकराः ॥
तत्रारोप्य ततः प्राप्ता ब्रह्मणः सदनं प्रति ॥ ५६ ॥
दिव्यमाल्यावरधरंदिव्यगन्धानुलेपनम् ॥
दिव्याभरणसंजुष्टं स्तूयमानं च किन्नरैः ॥ ५७ ॥
ततो ब्रह्मसभामध्ये ह्यहं तैर्देवकिंकरैः ॥
तादृग्रूपो विचक्षुश्च धारितो ब्रह्मणः पुरः ॥ ५८ ॥
सर्वैः सभागतैर्दृष्टा विस्मितास्यैः परस्परम् ॥
अन्यैश्च निन्दमानैश्च धिक्छब्दस्य प्रजल्पकैः ॥ ५९ ॥
॥ किंकरा ऊचुः ॥ ॥
एष देवश्चतुर्वक्त्रः सभेयं तस्य सम्भवा ॥
सर्वैर्देवगणैर्जुष्टा प्रणामः क्रियतामिति ॥ 6.103.६० ॥
ततोऽहं प्रणिपत्योच्चैस्तं देवं देवसंयुतम् ॥
उपविष्टः सभामध्ये व्रीडयाऽवनतः स्थितः ॥ ६१ ॥
यथायथा कथास्तत्र प्रजायन्ते सभातले ॥
देवद्विजनरेन्द्राणां धर्माख्यानानि कुंभज ॥ ६२ ॥
तथातथा ममातीव क्षुद्वृद्धिं संप्रगच्छति ॥
जाने किं भक्षयाम्याशु दृषदः काष्ठमेव वा ॥ ६३ ॥
ततो मया प्रणम्योच्चैर्विज्ञप्तः प्रपितामहः ॥
प्राणिपत्य मुनिश्रेष्ठ लज्जां त्यक्त्वा सुदूरतः ॥६४॥
क्षुधा मां बाधते अतीव सांप्रतं प्रपितामह ॥
तथा पश्यामि नो किंचित्तादृग्भोज्यं प्रयच्छ मे ॥६५॥
क्षुत्पिपासादयो दोषा न विद्यंतेऽत्र ते किल ॥
स्वर्गे स्थितस्य यच्चैतत्तत्किमेवंविधं मम॥६६॥
॥ पितामह उवाच ॥ ॥
त्वया नान्नं क्वचिद्दत्तं कस्यचित्पृथिवीतले ।
तेनात्रापि बुभुक्षा ते वृद्धिं गच्छति दुर्मते ॥ ६७ ॥
तथा हृतानि रत्नानि यानि दृष्टिगतानि ते ॥
चक्षुर्हीनस्ततो जातो मम लोके गतोऽपि च ॥ ६८ ॥
यस्त्वं पातकयुक्तोऽपि संप्राप्तो मम मंदिरम्॥
तद्वक्ष्याम्यखिलं तेऽहं शृणुष्वैकमनाः स्थितः॥ ६९ ॥
यस्मिञ्जले त्वया मुक्ताः प्राणाः पापा त्मनापिच ॥
श्वेतद्वीपपतिस्तत्र कलिकालभयातुरः ॥ 6.103.७० ॥
ततोऽस्य स्पर्शनात्सद्यो विमुक्तः सर्वपातकैः ॥
अन्नादानात्परा पीडा जायते क्षुत्समु द्भवा ॥७१॥
तथा रत्नापहारेण सञ्जाता चांधता तव ॥
नैवान्यत्कारणं किंचित्सत्यमेतन्मयोदितम् ॥७२ ॥
ततो मया विधिः प्रोक्तः पुनरेव द्विजोत्तम ॥
एषोऽपि ब्रह्मलोकस्ते नरकादतिरिच्यते ॥
तस्मात्तत्रैव मां देव प्रेषयस्व किमत्र वै ॥ ७३ ॥
॥ ब्रह्मोवाच ॥ ॥
तस्मात्तत्रैव गच्छ त्वं प्रेषि तोऽसि किमत्र वै ॥
नरके तव वासो न श्वेतद्वीपसमुद्भवम् ॥७४॥
माहात्म्यं नाशमायाति शास्त्रं स्यात्सत्यवर्जितम् ॥
तस्मात्त्वं नित्यमारूढो विमा ने त्रैवसुन्दरे ॥ ७५ ॥
गत्वा जलाशये तस्मिन्यत्र प्राणाः समुज्झिताः ॥
तमेव निजदेहं च भक्षयस्व यथेच्छया ॥ ७६ ॥
तद्भविष्यति मद्वाक्या दक्षयं जलमध्यगम्॥
तावत्कालं च दृष्टिस्ते भोज्यकाले भविष्यति ॥ ७७ ॥
ततोऽहं तस्य वाक्येन दीपोत्सवदिने सदा ॥
निशीथेऽत्र समा गत्य भक्षयामि निजां तनुम् ॥ ७८ ॥
ततस्तृप्तिं प्रगच्छामि यावद्दैवं दिनं स्थितम् ॥
मानुषं च तथा वर्षमीदृग्रूपो व्यवस्थितः ॥ ७९ ॥
नास्त्यसाध्यं मुनिश्रेष्ठ तव किंचिज्जगत्त्रये ॥
येनैकं चुलुकं कृत्वा निपीतः पयसांनिधिः ॥ 6.103.८० ॥
तस्मान्मुने दयां कृत्वा ममोपरि महत्तराम् ॥
अकृत्या द्रक्ष मामस्मात्सर्वलोकविगर्हितात् ॥ ८१ ॥
तथा दृष्टिप्रदानं मे कुरुष्व मुनिसत्तम ॥
निर्विण्णोऽस्म्यंधभावेन नान्या त्वत्तोऽस्ति मे गतिः ॥ ॥ ८२ ॥
तस्य तद्वचनं श्रुत्वा कृपया मम मानसम्॥
द्रवीभूतं तदा वाक्यमवोचं तं रघूत्तम ॥ ८३ ॥
त्वमन्ननिष्क्रयं देहि कण्ठस्थमिह भूषणम् ॥
येन नाशं प्रयात्येषा बुभुक्षा जठरोद्भवा ॥ ८४ ॥
तथाऽद्यप्रभृति प्राज्ञ रत्नदीपान्सुनिर्मलान् ॥
अत्रैव सरसस्तीरे देहि दामोदराय च ॥ ८५ ॥
द्ध?स येन संजायते दृष्टिः शाश्वती तव निर्मला ॥
मम वाक्यादसंदिग्धं सत्येनात्मानमालभे ॥ ८६ ॥
॥ राजोवाच ॥ ॥
ममोपरि दयां कृत्वा त्वमेव मुनिसत्तम ॥
गृहाण रत्नसंभूतं कण्ठाभरणमुत्तमम् ॥ ८७ ॥
ततो दयाभिभूतेन मया तस्य प्रतिग्रहः ॥
निःस्पृहेणापि संचीर्णो मुनिना रण्यवासिना।
ततः प्रक्षाल्य मे पादौ यावत्तेनान्ननिष्क्रये।
विभूषणमिदं दत्तं सद्भक्त्या भावितात्मने॥
ततस्तस्य प्रणष्टा सा बुभुक्षा तत्क्षणान्नृप ॥
संजाता परमा तृप्तिर्देवपीयूषसंभवा ॥ 6.103.९० ॥
तस्य नष्टं मृतं कायं तच्च जीर्णं पुरोद्भवम् ॥
यदासीदक्षयं नित्यं तस्मिंस्तोये व्यवस्थितम् ॥ ९१ ॥
ततः संस्थापितस्तेन तस्मिन्स्थाने सुभक्तितः ॥
दामोदरो रघुश्रेष्ठ कृत्वा प्रासादमुत्तमम् ९२ ॥
तस्याग्रे श्रद्धया युक्तो दीपं दयाद्यथायथा ॥
तथातथा भवेद्दृष्टिस्तस्य नित्यं सुनिर्मलाम् ॥ ९३ ॥
ततो मासात्समासाद्य दिव्यचक्षुर्महीपतिः ॥
स बभूव नृपश्रेष्ठः स्पृहणीयतमः सताम्॥ ९४ ॥
ततः प्रोवाच मां हृष्टः प्रणिपत्य कृतांजलिः ॥
हर्षगद्गदया वाचा प्रस्थितस्त्रिदिवं प्रति ॥ ९५ ॥
त्वत्प्रसादात्प्रणष्टा मे बुभुक्षाऽतिसुदारुणा ॥
तथा दृष्टिश्च संजाता दिव्या ब्राह्मणसत्तम ॥ ९६ ॥
अनुज्ञां देहि मे तस्माद्येन गच्छामि सांप्रतम् ॥
ब्रह्मलोकं मुनिश्रेष्ठ तीर्थस्यास्य प्रभावतः ॥ ९७ ॥
ततो मया विनिर्मुक्तः प्रणिपत्य मुहुर्मुहुः ॥
स जगाम प्रहृष्टात्मा ब्रह्मलोकं सनातनम् ॥ ९८ ॥
एवं मे भूषणमिदं जातं हस्तगतं पुरा ॥
तव योग्यमिदं ज्ञात्वा तुभ्यं तेन निवेदितम् ॥ ९९ ॥
ततः प्रभृति राजेंद्र समागत्यात्र मानवाः ॥
रत्नदीपान्प्रदायोच्चैः स्नात्वाऽत्र सलिले शुभे ॥
कार्तिके मासि निर्यांति देहांते त्रिदिवालयम् ॥ 6.103.१०० ॥
ये पुनः प्राणसंत्यागं प्रकुर्वंति समाहिताः ॥
पापात्मानोऽपि ते यांति ब्रह्मलोकं रघूत्तम ॥ १०१ ॥
ततो दृष्ट्वा सहस्राक्षः प्रभावं तज्जलोद्भवम् ॥
पांसुभिः पूरयामास समंताद्भयसंकुलम् ॥ १०२ ॥
तदद्य दिवसः प्राप्तो दीपोत्सवसमुद्भवः ॥
सुपुण्योऽत्र ममादेशात्त्वं कुरुष्व सुकूपिकाम् ॥ १०३ ॥
तस्यां स्नानं विधायाथ पितॄंस्तर्पय राघव ॥
देवस्यास्य पुरो देहि रत्नदीपमनुत्तमम् ॥॥४॥
येन संजायते सिद्धिर्ब्रह्मलोकसमुद्भवा ॥
अनेनैव शरीरेण सत्यमेतन्मयोदितम् ॥॥५॥
ततस्ते राघवादेशा त्सर्वे राक्षसवानराः ॥
तस्मिन्देशे विनिदधुः कूपिकां विमलोदकाम् ॥॥६॥
तत्र स्नात्वा पितॄंस्तर्प्य रत्नदीपं प्रदाय च ॥
समस्तं कार्तिकं यावदयोध्यां प्रस्थितास्ततः । १०७ ॥
ततो विभीषणं मुक्त्वा हनूमंतं च वानरम् ॥
ब्रह्मलोकं गताः सर्वे तत्तीर्थस्य प्रभावतः ॥ १०८ ॥
॥ सूत उवाच ॥ ॥
अद्यापि दीपदानं यः कुरुते तत्र सादरम् ॥
संप्राप्ते कार्तिके मासि स्नात्वा तत्र जले शुभे ॥
स सर्वपातकैर्मुक्तो ब्रह्मलोके महीयते ॥ १०९ ॥
एवं तत्र समुत्पन्नं तत्तडागं शुभावहम् ॥
आनर्त्तीयं तथा विष्णुकूपिका सा च शोभना ॥ 6.103.११० ॥
इति श्रीस्कांदे महापुराण एकाशीति साहरुयां संहि तायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये आनर्तकतीर्थकूपिकामाहात्म्यवर्णनंनाम त्र्यधिकशततमोऽध्यायः ॥ १०३ ॥ ॥ छ ॥ ॥ ॥