स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०९४

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥। ।
तथान्या लोहयष्टिस्तु तस्मिन्क्षेत्रेऽतिशोभना ॥
मुक्ता परशुरामेण भंक्त्वा निजकुठारकम् ॥ १ ॥
तां दृष्ट्वा मानवः सम्यगुपवासपरायणः ॥
मुच्यते हि स्वकात्पापात्तत्क्षणाद्विजसत्तमाः ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
कुतः परशुरामेण भंक्त्वा निजकुठारकम् ॥
निर्मिता लोहयष्टिः सा तत्रोत्सृष्टा च सा कुतः ॥३ ॥
॥ सूत उवाच ॥ ॥
यदा रामो ह्रदं कृत्वा तर्पयित्वा निजान्पितॄन् ॥
गतामर्षो द्विजेन्द्राणां दत्त्वा यज्ञे वसुन्धराम् ॥४॥
ततः संप्रस्थितो हृष्टो धृत्वा मनसि सागरम् ॥
स्नानार्थं तं समादाय कुठारं भास्करप्रभम् ॥५॥
तदा स मुनिभिः प्रोक्तः सर्वैस्तत्क्षेत्रवासिभिः ॥
वांछद्भिस्तु हितं तस्य सदा शमपरायणैः ॥ ६ ॥
रामराम महाभाग यद्धारयसि पाणिना॥
शस्त्रं पूर्णे प्रतिज्ञोऽपि तन्न युक्तं भवेत्तव ॥ ७ ॥
अनेन करसंस्थेन तव कोपः कथंचन ॥
न यास्यति शरीरस्थस्तस्मादेनं परित्यज ॥ ९ ॥
तेषां तद्वचनं श्रुत्वा ततो रामः कृतांजलिः ॥
प्रोवाच विनयोपेतः प्रहसंस्तान्द्विजोत्तमान् ॥ ९ ॥
कुठारश्चैव विप्रेंद्रा रुद्रतेजोद्भवेन च ॥
लोहेन निर्मितः पूर्वमक्षयो विश्वकर्मणा ॥६.९४.॥॥
तदहं संपरित्यज्य कथमेनं द्विजोत्तमाः ॥९ ।
क्षत्त्रधर्मपरोऽप्येवं प्रगच्छामि दिगंतरम् ॥ १॥।
यदि चैनं मया मुक्तं कुठारं च द्विजोत्तमाः ॥
ग्रहीष्यति परः कश्चिन्मम वध्यो भविष्यति॥१२॥
नापराधमिमं शक्तः सोढ़ुं चाहं कथंचन ॥
अपि ब्राह्मणमुख्यस्य जनस्यान्यस्य का कथा ॥ १३ ॥
तथापि नास्ति ते शांतिर्मुक्तेऽप्यस्मिन्द्विजोत्तमाः ॥
गृहीतेऽपि च युष्माभिस्तस्माद्रक्ष्यः प्रयत्नतः ॥ १४ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यद्येवं त्वं महाभाग रक्षार्थं संप्रयच्छसि ॥
अस्माकं तत्र भंक्त्वाशु पिंडं कृत्वा समर्पय ॥ १५ ॥
येन रक्षामहे सर्वे परमं यवमाश्रिताः ॥
न च गृह्णाति वा कश्चिद्गते कालांतरेऽपि च ॥ १६ ॥
तेषां तद्वचनं श्रुत्वा रामः शस्त्रभृतां वरः ॥
चक्रे लोहमयीं यष्टिं तं भंक्त्वा स कुठारकम् ॥ १७ ॥
ततः स ब्राह्मणेंद्राणामर्पयामास सादरम् ॥
रक्षार्थं भार्गवश्रेष्ठो विनयावनतः स्थितः ॥ १८ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
लोहयष्टिमिमां राम त्वत्कुठारसमुद्भवाम् ॥
वयं संरक्षयिष्यामः पूजयिष्याम एव हि ॥ १९ ॥
यथा शक्तिमयी कीर्तिः स्कन्दस्यात्र प्रतिष्ठिता ॥
लोहयष्टिमयी तद्वत्तव राम भविष्यति ॥ ६.९४.२० ॥
भ्रष्टराज्यस्तु यो राजा एनामाराधयिष्यति ॥
स्वं राज्यमचिरात्प्राप्य स प्रतापी भविष्यति ॥ २१ ॥
विद्याकृते द्विजो वा यः सदैनां पूजयिष्यति ॥
स विद्यां परमां प्राप्य सर्वज्ञत्वं प्रपत्स्यते ॥ २२ ॥
अपुत्रो वा नरो योऽथ नारी वा पूजयिष्यति ॥
एतां यष्टिं त्वदीयां च पुत्रवान्स भविष्यति ॥ २३ ॥
उपवासपरो भूत्वा यश्चैनां पूजयिष्यति ॥
आश्विनस्यासिते पक्षे चतुर्दश्यां विशेषतः ॥ २४ ॥
स प्राप्स्यति सदा कामानभीष्टान्मनसि स्थितान्॥ ॥ २४ ॥
एवं श्रुत्वा ततो रामस्तेषामेव द्विजन्मनाम् ॥
प्रणम्य प्रययौ तूर्णं समुद्रसदनं प्रति ॥ २५ ॥
तेऽपि विप्रास्ततस्तस्याश्चक्रुः प्रासादमुत्तमम् ॥
तत्र संस्थाय तां चक्रुस्ततः पूजासमाहिताः ॥ २६ ॥
प्राप्नुवंति च तत्पार्श्वात्कामानेव हृदि स्थितान् ॥
सुस्तोकेनाऽपि कालेन दुर्लभास्त्रिदशैरपि ॥ ६.९४.२७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये लोहयष्टिमाहात्म्यवर्णनं नाम चतुर्णवतितमोऽध्यायः ॥ ९४ ॥