स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०८९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
एवं तत्र स्थिते नित्यं तस्मिन्मातृगणे द्विजाः ॥
बालकानां क्षयो जज्ञे ब्राह्मणानां गृहेगृहे ॥ १ ॥
तरुणानां विशेषेण चमत्कारपुरोत्तरे ॥
छिद्रमन्वेषमाणास्ता भ्रमंत्यखिलदेवताः ॥ २ ॥
ततस्ते ब्राह्मणाः सर्वे ज्ञात्वा छिद्रसमुद्भवम् ॥
विघातं बालकानां च देवताभिर्विनिर्मितम् ॥ ३ ॥
अम्बावृद्धे समासाद्य पूजयित्वा प्रयत्नतः ॥
प्रोचुश्च दुःखसन्तप्ता विनयावनताः स्थिताः ॥ ४ ॥
रक्षार्थं सर्वविप्राणां चमत्कारेण भूभुजा ॥
भवद्भ्यां निर्मितः श्रेष्ठः प्रासादोऽयं मनोहरः ॥ ९ ॥
ह्रियंते बालका रात्रौ छिद्रं प्राप्य सहस्रशः ॥
युष्मदीयाभिरेताभिर्देवताभिः समन्ततः ॥ ६ ॥
प्रसादः क्रियतां तस्माद्ब्राह्मणानां महात्मनाम् ॥
नो चेत्पुरं परित्यज्य यास्यामोऽन्यत्र भूतले ॥ ७ ॥
तेषां तद्वचनं श्रुत्वा ततोंऽबा कृपयान्विता ॥
हत्वा पादप्रहारेण भूमिं चक्रे गुहां ततः ॥ ८ ॥
तस्यां स्वे पादुके न्यस्य ततः प्रोवाच देवताः ॥
सर्वास्ता नतसर्वांगीर्विनयेन समन्विताः ॥ ९ ॥
इमे मत्पादुके दिव्ये गुहामध्यगते सदा ॥
सर्वाभिः सेवनीये च न गन्तव्यं बहिः क्वचित् ॥ ६.८९.१० ॥
या काचिल्लौल्यमास्थाय निष्क्रमिष्यति मोहतः ॥
सा दिव्यभावनिर्मुक्ता शृगाली संभविष्यति ॥ ११ ॥
॥ देवता ऊचुः ॥ ॥
अत्र स्थाने महादेवि कोऽस्माकं प्रकरिष्यति ॥
पूजां को वात्र चाहारस्तस्माद्ब्रूहि सुरेश्वरि ॥ १२ ॥
॥ अम्बोवाच ॥ ॥
अत्रागत्य विनिर्मुक्ता योगिनो ध्यानचिन्तकाः ॥
पूजां सम्यक्करिष्यंति सर्वासां भक्तिसंयुताः ॥ १३ ॥
पादुके मे प्रपूज्यादौ मांस मद्यादिभिः क्रमात् ॥
अवाप्स्यंति च संसिद्धिं दुर्लभाममरैरपि ॥ १४ ॥
ततस्तथेति ताः प्रोच्य गुहामध्ये व्यवस्थिताः ॥
परिवार्य शुभे तस्याः पादुके मोक्षदायिके ॥ १५ ॥
ततस्तत्र समागत्य पुरुषा अपि दूरतः ॥
प्रपूज्य पादुके सम्यङ्मातॄस्ताश्च ततः परम्॥
प्रयांति च परां सिद्धिं जन्म मृत्युविवर्जिताम् ॥ १६ ॥
एतस्मिन्नंतरे नष्टा अग्निष्टोमादिकाः क्रियाः ॥
तीर्थयात्राव्रतान्येव संयमा नियमाश्च ये १७ ॥
ये चापि ब्राह्मणाः शांताः सदा मद्यस्य दूषणम् ॥
प्रकुर्वंति स्वहस्तेन तेऽपि मद्यैः पृथग्विधैः ॥ १८ ॥
तर्पयंति तथा मांसैस्त्यक्ताशेषमखक्रियाः ॥
पादुके मातृभिर्जुष्टे तथा धूपानुलेपनैः ॥ १९ ॥
एतस्मिन्नंतरे भीताः सर्वे देवाः सवासवाः ॥
दृष्ट्वा यज्ञक्रियोच्छेदं क्षुत्पिपासा समाकुलाः॥६.८९.२०॥।
प्रोचुर्महेश्वरं गत्वा विनयावनताः स्थिताः ॥
स्तुत्वा पृथग्विधैः सूक्तैर्वेदोक्तैः शतरुद्रियैः ॥ २१ ॥
देवा ऊचुः ॥ ॥
हाटकेश्वरजे क्षेत्रे पादुके तत्र संस्थिते ॥
अंबाया मातृभिः सार्धं गुहामध्ये सुगुप्तके ॥ २२ ॥
ब्राह्मणा अपिदेवेश मद्यमांसेन भक्तितः ॥
ताभ्यां पूजां प्रकुर्वंति प्रयांति परमां गतिम् ॥ २३ ॥
नष्टा धर्मक्रिया सर्वा मर्त्यलोकेत्र सांप्रतम् ॥
अस्माकं संक्षयो जातो यज्ञभागं विना प्रभो॥२४॥
तस्मात्त्वं कुरु देवेश यथा स्यात्पादुकाक्षयः॥
प्रभवंति मखा भूमावस्माकं स्युः परा मुदः ॥२५॥
॥ श्रीभगवानुवाच ॥ ॥
या सा अंबेति विख्याता शक्तिः सा परमेश्वरी॥
जगन्माताऽक्षया साक्षान्ममा पि जननी च सा ॥ २६ ॥
तत्कथं संक्षयस्तस्याः कर्तुं केनापि शक्यते ॥
मनसापि महाभागाः पादुकानां विशेषतः ॥ २७ ॥
परं तत्र करिष्यामि सुखोपायं सुरेश्वराः ॥
युष्मभ्यं पादुकायां च महत्त्वं येन जायते ॥ २८ ॥
एवमुक्त्वा ततो ध्यानं चक्रे देवो महेश्वरः ॥
व्यावृत्यकमलं हृत्स्थमष्टपत्रं सकर्णिकम् ॥ २९ ॥
तस्यांतर्गतमासीनमंगुष्ठाग्रमितं शुभम् ॥
द्वादशार्कप्रभं सूक्ष्मं स्वमात्मानं व्यलोकयत् ॥ ६.८९.३० ॥
तस्यैवं ध्यायमानस्य तृतीयनयनात्ततः ॥
श्वेतांबरधरा शुभ्रा निर्गता कन्यका शुभा ॥ ३१ ॥
अथ सा प्राह तं देवं प्रणिपत्य महेश्वरम् ॥
किमर्थं देव सृष्टास्मि ममादेशः प्रदीयताम् ॥ ३२ ॥
॥ श्रीभगवानुवाच ॥ ॥
हाटकेश्वरजे क्षेत्रे पादुके संस्थिते शुभे ॥
श्रीमातुर्जगतां मुख्ये ताभ्यां पूजां त्वमाचर ॥ ३३ ॥
कन्यकां संपरित्यज्य तवान्वयविवर्द्धिताम्॥
यः करिष्यति तत्पूजामाहारः स्यात्स मातृषु ॥ ३४ ॥
कौमारब्रह्मचर्य्येण त्वयापि च सुभक्तितः ॥
ताभ्यां पूजा प्रकर्तव्या नो चेन्नाशमवाप्स्यसि ॥ ३५ ॥
तव पूजा करिष्यन्ति ये नरा भक्तितत्पराः ॥
मातॄणां संमतास्ते स्युः सर्वदैव सुखान्विताः ॥ ३६ ॥
एवमुक्त्वा ततस्तस्या मंत्रमार्गं यथोचितम् ॥
पूजामार्गं विशेषेण कथयामास विस्तरात् ॥ ३७।
ततो विसर्जयामास दत्त्वा छत्रादिभूषणम् ॥
प्रतिपत्तिं महादेवस्तांश्च सर्वान्सुरेश्वरान् ॥ ३८ ॥
॥ कुमार्युवाच ॥ ॥
त्वयेतत्कथितं देव त्वदन्वयसमुद्भवाः ॥
कन्यकाः पूजयिष्यंति पादुके ते सुशोभने ॥ ३९ ॥
कौमारब्रह्मचर्य्येण भविष्यत्यन्वयः कथम् ॥
एतन्मे विस्तरात्सर्वं यथावद्वक्तुमर्हसि ।। ६.८९.४० ॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
यस्यायस्याः प्रसन्ना त्वं कन्यकाया वदिष्यसि ॥
मंत्रग्राममिमं सम्यक्त्वद्भावा सा भविष्यति ॥ ४१ ॥
एवं चान्या महाभागे पारंपर्येण कन्यकाः ॥
तव वंशोद्भवाः सर्वाः प्रभविष्यंति मंत्रतः ॥ ४२
ततः सा तां समासाद्य पादुकासंभवां गुहाम् ॥
पूजां चक्रे यथान्यायं यथोक्तं त्रिपुरारिणा ॥ ४३ ॥
॥ सूत उवाच ॥ ॥
तदन्वयसमुत्थायाः कन्यकायाः करेण यः ॥
पादुकाभ्यां नरः पूजां प्रकरोति समाहितः ॥
इह लोके सुखं प्राप्य स स्यात्प्रेत्य सुखान्वितः ॥ ४४ ॥
तस्मात्सर्वप्रयत्नेन कन्याहस्तेन पादुके ॥
पूजनीये विशेषेण पूज्या सा चापि कन्यका ॥ ४५ ॥
वांछद्भिः शाश्वतं सौख्यमिह लोके परत्र च ॥
मानवैर्भक्तिसंयुक्तैरित्युवाच महेश्वरः ॥ ४६ ॥
एतद्वः सर्वमाख्यातं माहात्म्यं पादुकोद्भवम् ॥
श्रीमातुरनुषंगेण अंबादेव्या द्विजोत्तमाः ॥ ४७ ॥
यश्चैतच्छृणुयाद्भक्त्या चतुर्दश्यां समाहितः ॥
तथाष्टम्यां विशेषेण स प्राप्नोति परं पदम् ॥ ४८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीमातुः पादुकामाहात्मवर्णनंनामैकोननवतितमोऽध्यायः ॥ ८९ ॥