स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०७६

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति भास्करत्रितयं शुभम् ॥
यैस्तुष्टैस्त्रिषु लोकेषु मानवो मुक्तिमाप्नुयात् ॥ १ ॥
मुण्डीरं प्रथमं तत्र कालप्रियं तथापरम् ॥
मूलस्थानं तृतीयं च सर्वव्याधिविनाशनम् ॥ २ ॥
तत्र संक्रमते सूर्यो मुंडीरे रजनीक्षये ॥
कालप्रिये च मध्याह्ने मूलस्थाने क्षपागमे ॥ ३ ॥
तस्मिन्काले नरो भक्त्या पश्येदप्येकमेवच ॥
कृतक्षणो नरो मोक्षं सत्यं याति न संशयः ॥ ४ ॥
॥ ऋषय ऊचुः ॥ ॥
मुंडीरः पूर्वदिग्भागे धरित्र्याः श्रूयते किल ॥
मध्ये कालप्रियो देवो मूलस्थानं तदन्तरे ॥ ५ ॥
तत्कथं ते त्रयस्तत्र संजाताः सूत भास्कराः ॥
हाटकेश्वरजे क्षेत्रे सर्वं नो ब्रूहि विस्तरात् ॥ ६ ॥
॥ सूत उवाच ॥ ॥
अस्ति सागरपर्यंते विटंकपुरमुत्तमम् ॥
समुद्रवीचिसंसक्तप्रोच्चप्राकारमण्डनम् ॥ ७ ॥
तत्राभूद्ब्राह्मणः कश्चित्कुष्ठव्याधिसमन्वितः ॥
पूर्वकर्मविपाकेन यौवनेसमुपस्थिते ॥ ८ ॥
तस्य भार्याऽभवत्साध्वी कुलीना शीलमंडना ॥
तथाभूतमपि प्रायः सा पश्यति यथा स्मरम् ॥ ९ ॥
औषधानि विचित्राणि महार्घ्याण्यपि चाददे ॥
तदर्थमुपलेपांश्च पथ्यानि विविधानि च ॥ ६.७६.१० ॥
तथा भिषग्वरान्नित्यमानिनाय च सादरम् ॥
तदर्थे न गुणस्तस्य तथापि स्याच्छरीरजः ॥ ११ ॥
यथायथा स गृह्णाति भेषजानि द्विजोत्तमाः ॥
कुष्ठेन सर्वगात्रेषु व्याप्यते च तथातथा ॥ १२ ॥
अथैवं वर्तमानस्य तस्य विप्रवरस्य च ॥
गृहेऽतिथिः समायातः कश्चित्पांथः श्रमान्वितः ॥ १३ ॥
अथ विप्रं गृहं प्राप्तं दृष्ट्वा तस्य सती प्रिया ॥
अज्ञातमपिसद्भक्त्या सूपचारैरतोषयत् ॥ १४ ॥
अथ तं स्नातमाचांतं कृताहारं द्विजोत्तमम् ॥
विश्रान्तं शयने विप्रः प्रोवाच स गृहाधिपः ॥ १५ ॥
तेजोऽन्वितं यथा भानुं रूपौदार्यगुणान्वितम् ॥
यौवने वर्तमानं च मूर्तं काममिवापरम् ॥ १६ ॥
॥ कुष्ठ्युवाच ॥ ॥
कुत आगम्यते विप्र क्व यास्यसि वदाऽधुना ॥
एवं लावण्ययुक्तोऽपि किमेकाकी यथार्तिभाक् ॥ १७ ॥
॥ पथिक उवाच ॥ ॥
अस्ति कान्तीपुरीनाम पुरंदरपुरी यथा ॥
सुस्थितैः सेविता नित्यं जनैर्धर्मव्रतान्वितैः ॥ १८ ॥
तस्यामहं कृतावासो गृहस्थाश्रममावहन् ॥
ग्रस्तः कुष्ठेन रौद्रेण यथा त्वं द्विजसत्तम ॥ १९ ॥
ततः श्रुतं मया तावत्पुराणे स्कान्दसंज्ञिते ॥
भास्करत्रितयं भूमौ सर्वव्याधिविनाशनम् ॥ ६.७६.२० ॥
ततो निर्वेदमापन्नो भेषजैः क्लेशितश्चिरम् ॥
क्षारैश्चाम्लैः कषायैश्च कटुकैरथ तिक्तकैः ॥ २१ ॥
ततो विनिश्चयं चित्ते कृत्वा गृह्य धनं महत् ॥
मुण्डीरस्वामिनं गत्वा स्थितस्तस्यैव सन्निधौ ॥ २२ ॥
ततः प्रातः समुत्थाय नित्यं पश्यामि तं विभुम् ॥
पूजयामि स्वशक्त्या च प्रणमामि ततः परम्॥ २३ ॥
सूर्यवारे विशेषेण निराहारो यतेन्द्रियः ॥
करोमि जागरं रात्रौ गीतवादित्रनिःस्वनैः ॥ २४ ॥
ततः संवत्सरस्यांते तं प्रणम्य दिनाधिपम् ॥
कालप्रियं ततः पश्चाच्छ्रद्धया परया युतः ॥ २५ ॥
तेनैव विधिना विप्र तस्यापि दिवसेशितुः ॥
पूजां करोमि मध्याह्ने श्रद्धा पूतेन चेतसा ॥ २६ ॥
ततोऽपि वत्सरस्यांते तं प्रणम्याथ शक्तितः ॥
मूलस्थानं गतो देवमपरस्यां दिशि स्थितम् ॥ २७ ॥
तेनैव विधिना पूजा तस्यापि विहिता मया ॥
संध्याकाले द्विजश्रेष्ठ यावत्संवत्सरं स्थितः ॥ २८ ॥
ततः संवत्सरस्यांते स्वप्ने मां भास्करोऽब्रवीत् ॥
समेत्य प्रहसन्विप्रः संप्रहृष्टेन चेतसा ॥ २९ ॥
परितुष्टोऽस्मि ते विप्र कर्मणाऽनेन भक्तितः ॥
ममाराधनजेनैव तस्मात्कुष्ठं प्रयातु ते ॥ ६.७६.३० ॥
गच्छ शीघ्रं द्विजश्रेष्ठ श्रांतोऽसि निजमंदिरम् ॥
पश्य बंधुजनं सर्वं सोत्कण्ठं तत्कृते स्थितम् ॥ ३१ ॥
त्वया हृतं पुरा रुक्मं ब्राह्मणस्य महात्मनः ॥
तेन कर्मविपाकेन कुष्ठव्याधिरुपस्थितः ॥ ३२॥
स मया नाशितस्तुभ्यं प्रहृष्टेनाधुना द्विज ॥
एतज्ज्ञात्वा न कर्तव्यं सुवर्णहरणं पुनः ॥ ३३ ॥
दृश्यन्ते ये नरा लोके कुष्ठव्याधिसमाकुलाः ॥
सुवर्णहरणं सर्वैस्तैः कृतं पापकर्मभिः ॥ ३४ ॥
तस्माद्देयं यथाशक्त्या न स्तेयं कनकं बुधैः ॥
इच्छद्भिः परमं सौख्यं स्वशरीरस्य शाश्वतम् ॥ ३५ ॥
एवमुक्त्वा सहस्रांशुस्ततश्चादर्शनं गतः ॥
अहं च विस्मयाविष्टः प्रोत्थितः शयनाद्द्रुतम् ॥ ॥ ३६ ॥
यावत्पश्यामि देहं स्वं कुष्ठव्याधिपरिच्युतम् ॥
द्वादशार्कप्रभं दिव्यं यथा त्वं पश्यसे द्विज ॥ ३७ ॥
तस्मात्त्वमपि विप्रेंद्र भक्त्या तद्भास्करत्रयम् ॥
अनेन विधिना पश्य येन कुष्ठं प्रशाम्यति ॥३८॥
किमौषधैः किमाहांरैः कटुकैरपि योजितैः ॥
सर्वव्याधिप्रणाशेशे स्थितेऽस्मिन्भास्करत्रये ॥ ३९ ॥
स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं तां पुरीं प्रति ॥
गृहेऽद्य तव विश्रांतो यथा विप्र निजे गृहे ॥ ६.७६.४० ॥
एवमुक्तः स पांथेन तेन विप्रः स कुष्ठभाक् ॥
वीक्षांचक्रे ततो वक्त्रं स्वपत्न्या दुःखसंयुतः ॥ ४१ ॥
साऽब्रवीद्युक्तमुक्तं ते पांथेनानेन वल्लभ ॥
तस्मात्तत्र द्रुतं गच्छ यत्र तद्भास्करत्रयम् ॥ ४२ ॥
अहं त्वया समं तत्र शुश्रूषानिरता सती ॥
गमिष्यामि न संदेहस्तस्माद्गच्छ द्रुतं विभो ॥ ४३ ॥
एवमुक्तस्तया सोऽथ वित्तमादाय भूरिशः ॥
प्रस्थितः कांतया सार्धं मुण्डीरस्वामिनं प्रति ॥ ४४ ॥
प्रतिज्ञया गमिष्यामि द्रष्टुं तद्देवतात्रयम्॥
मुंडीरं कालनाथं च मूल स्थानं च भास्करम् ॥ ४५ ॥
ततः कृच्छ्रेण महता कुष्ठव्याधिसमाकुलः ॥
हाटकेश्वरजे क्षेत्रे संप्राप्तः स द्विजोत्तमाः ॥ ४६ ॥
तद्दृष्ट्वा सुमहत्क्षेत्रं तापसौघनिषेवितम् ॥
निर्विण्णः कुष्ठरोगेण पथि श्रांतोऽब्रवीत्प्रियाम् ॥ ४७ ॥
अहं निर्वेदमापन्नो रोगेणाथ बुभुक्षया ॥
मुण्डीरस्वामिनं यावन्न शक्रोमि प्रसर्पितुम् ॥४८॥
तस्मादत्रैव देहं स्वं विहास्यामि न संशयः ॥
त्वं गच्छ स्वगृहं कांते सार्थमासाद्य शोभनम् ॥४९॥
॥ पत्न्युवाच ॥ ॥
अभुक्ते त्वयि नो भुक्तं कदाचित्कांत वै मया ॥
एकांतेऽपि महाभाग न सुप्तं जाग्रति त्वयि ॥ ६.७६.५० ॥
तस्मादेतन्महाक्षेत्रं संप्राप्य त्वां व्यवस्थितम्॥
परलोकाय संत्यज्य कथं गच्छाम्यहं गृहम् ॥ ५१ ॥
दर्शयिष्ये मुखं तेषां त्वया हीना अहं कथम् ॥
बांधवानां गुरूणां च अन्येषां सुदृदा मपि ॥५२॥
तस्मात्त्वया समं नाथ प्रवेक्ष्यामि हुताशनम् ॥
स्नेहपाशविनिर्बद्धा सत्येनात्मानमालभे॥५३॥
यावतस्तव संजाता उपवासा महामते॥
तावंतश्च तथास्माकं कथं गच्छामि तद्गृहम्॥५४॥
एवं तस्या विदित्वा स निश्चयं ब्राह्मणस्तदा ॥
चितिं कृत्वा तु दाहार्थं तया सार्धे ततोऽविशत् ॥ ॥५५॥
भास्करं मनसि ध्यात्वा यावदग्निं समाददे ॥
तावत्पश्यति चाग्रस्थं सुदीप्तं पुरुषत्रयम्॥५६॥
तद्दृष्ट्वा विस्मयाविष्टः क एते पुरुषास्त्रयः॥
न कदाचिन्मया दृष्टा ईदृक्तेजःसमन्विताः ॥ ५७ ॥
॥ पुरुषा ऊचुः ॥ ॥
मा त्वं मृत्युपथं गच्छ कृत्वा वैराग्यमाकुलः ॥
व्यावृत्य स्वगृहं गच्छ स्व भार्यासहितो द्विज ॥ ५८ ॥
॥ ब्राह्मण उवाच ॥ ॥
प्रतिज्ञाय मया पूर्व गृहं मुक्तं निजं यतः ॥
मुण्डीरस्वामिनं दृष्ट्वा तथाऽन्यं कालवल्लभम् ॥ ॥ ५९ ॥
मूलस्थानं च कर्तव्यं ततः सस्यप्रभक्षणम् ॥
सोऽहं तानविलोक्याथ कथं गच्छामि मन्दिरम् ॥
भक्षयामि तथा सस्यं तेन त्यक्ष्यामि जीवितम्॥ ६.७६.६० ॥
॥ पुरुषा ऊचुः ॥ ॥
वयं ते भास्करा ब्रह्मंस्त्रयोऽत्रैव समागताः ॥
त्वद्भक्त्याकृष्टमनसो ब्रूहि किं करवामहे ॥ ६१ ॥ ॥
॥ ब्राह्मण उवाच ॥ ॥
यदि यूयं समायाताः स्वयमेव ममांतिकम् ॥
त्रयोऽपि भास्करा नाशमेष कुष्ठः प्रगच्छतु ॥ ६२ ॥
तथाऽत्रैव सदा स्थेयं क्षेत्रे युष्माभिरेव हि ॥
सांनिध्यं त्रिषु लोकेषु गन्तव्यं च यथा पुरा ॥ ६३ ॥
॥ भास्करा ऊचुः ॥ ॥
एवं विप्र करिष्यामः स्थास्यामो ऽत्र सदा वयम् ॥
त्वं चापि रोगनिर्मुक्तः सुखं प्राप्स्यस्यनुत्तमम् ॥ ६४ ॥
प्रासादत्रितयं तस्मादस्मदर्थं निरूपय ॥
येन त्रिकालमासाद्य गच्छामः संनिधिं द्विज ॥ ६५ ॥
एवमुक्त्वा तु ते सर्वे गताश्चाद्दर्शनं ततः ॥
सोऽपि पश्यति कायं स्वं यावद्रोगविवर्जितम् ॥ ६६ ॥
द्वादशार्क प्रतीकाशं सर्वलक्षणलक्षितम् ॥
ततः प्रोवाच तां भार्यां विनयावनतां स्थिताम् ॥ ६७ ॥
पश्य त्वं सुभ्रूर्मे गात्रं यादृग्रूपं पुनः स्थितम् ॥
प्रसादाद्देवदेवस्य भास्करस्यांशुमालिनः ॥ ६८ ॥
सोऽहमत्र स्थितो नित्यं पूजयिष्यामि भास्करम् ॥
न यास्यामि पुनः सद्म सत्यमेतन्मयोदितम्॥६९॥
एवमुक्त्वा स विप्रेन्द्रस्तस्मिन्क्षेत्रे सुशोभने॥
प्रासादत्रितयं रम्यं निर्ममे भक्तिसंयुतः॥६.७६.७॥।
मुण्डीरस्वामिनश्चैकमन्यत्कालप्रियस्य च॥
मूलस्थानस्य चान्यत्तु सत्पताकाविभूषितम्॥७॥।
त्रयाणामपि तेषां तु साध्वर्चाः शास्त्रसूचिताः॥
स्थापयामास सूर्याणां हस्तार्के सूर्यवासरे ॥। ७२ ॥
ततस्ताः पुष्पधूपाद्यैः समभ्यर्च्य चिरं द्विजः ॥
त्रिसंध्यं क्रमशः प्राप्तो देहांते भास्करालयम् ॥ ७३ ॥
॥ सूत उवाच ॥ ॥
एवं ते तत्र संजातास्त्रयोऽपि द्विजसत्तमाः ॥
भास्करा भक्तलोकस्य सर्वव्याधिविनाशकाः ॥ ७४ ॥
यस्तान्पश्यति काले स्वे यथोक्ते सूरर्यवासरे ॥
स वांछिताँल्लभेत्कामान्दुर्लभानपि मानवैः ॥७५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मुंडीरकालप्रियमूलस्थानप्रतिष्ठावर्णनंनाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥ ॥ छ ॥