स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०७३

विकिस्रोतः तः


॥ सूत उवाच ॥ ॥
एवं ते कौरवाः सर्वे पांडोः पुत्राश्च शालिनः ॥
तस्मात्स्थानात्ततो जग्मुर्यत्र द्वारवती पुरी ॥ १ ॥
तत्र गत्वा विवाहं तु चक्रुः संहृष्टमानसाः ॥
दुर्योधनस्य भूपस्य भानुमत्या समं तदा ॥ २ ॥
नानावादित्रघोषेण वेदध्वनियुतेन च ॥
गीतैर्मनोहरैः पाठैर्बन्दिनां च सहस्रशः ॥ ३ ॥
एवं महोत्सवो जज्ञे तत्र यावद्दिनाष्टकम् ॥
यादवानां कुरूणां च मिलितानां परस्परम् ॥ ४ ॥
कृतार्थास्तत्र संजाताः सूतमागध बन्दिनः ॥
चारणा ब्राह्मणेंद्राश्च तथान्येऽपि च तार्किकाः ॥ ५ ॥
ततस्तु नवमे प्राप्ते दिवसे कुरुपांडवाः ॥
भीष्माद्याः पुंडरीकाक्षमिदमूचुः ससौहृ दम् ॥ ६ ॥
न वयं पुंडरीकाक्ष तव रामस्य चाश्रयम् ॥
कथंचित्त्यक्तुमिच्छामः स्नेहपाशनियंत्रिताः ॥ ७ ॥
तथापि च प्रगन्तव्यं स्वपुरं प्रति माध व ॥
बलभद्रसमायुक्तस्तस्मान्नः कुरु मोक्षणम् ॥ ८ ॥
॥ विष्णुरुवाच ॥ ॥
न तावद्वत्सरो जातो न मासः पक्ष एव च ॥
स्थितानामत्र युष्माकं तत्किमौत्सुक्यमागतम् ॥ ९ ॥
तस्मादत्रैव तिष्ठामः सहिताः कुरुपांडवाः ॥
यूयं वयं विनोदेन मृगयाक्षोद्भवेन च ॥ ६.७३.१० ॥
शस्त्रशिक्षाक्रियाभिश्च दमनेन च दन्तिनाम् ॥
तथाभिवांछितैरन्यैः स्नेहोऽस्ति यदि वो मयि ॥ ११ ॥
॥ भीष्म उवाच ॥ ॥
उपपन्नमिदं विष्णो यत्त्वया व्याहृतं वचः ॥
परं शृणुष्व मे वाक्यं यदर्थं ह्युत्सुका वयम् ॥ १२ ॥
आनर्तविषयेऽस्माभिरागच्छद्भिस्तवांतिकम् ॥
दृष्टमत्यद्भुतं क्षेत्रं हाटकेश्वरजं महत् ॥
तत्र लिंगानि दृष्टानि भूपतीनां महात्मनाम् ॥ १३ ॥
सूर्यचन्द्रान्वयोत्थानामन्येषां च महात्मनाम् ॥ १४ ॥
देवानां दानवानां च मुनीनां च विशेषतः ॥
साकाराणि सुतेजांसि नानाप्रासादभोजि च ॥ १५ ॥
ततश्च कुरुमुख्यानां पांडवानां च माधव ॥
लिंगसंस्थापनार्थाय तत्र जाता मतिर्दृढा ॥ १६ ॥
ते वयं तत्र गत्वाशु यथाशक्त्या यथेच्छया ॥
लिंगानि स्थापयिष्यामः स्वानिस्वानि पृथक्पृथक् ॥ १७ ॥
एतस्मात्कारणात्तूर्णं चलिता वयमच्युत ॥
न वयं तव संगस्य तृप्यामोऽब्दशतैरपि ॥ १८ ॥
तस्मादाज्ञापयस्वाद्य कृत्वा चित्तं दृढं विभो ॥
भूयोऽप्यत्रागमिष्यामस्तव दर्शनलालसाः ॥ १९ ॥
॥ श्रीभगवानुवाच ॥ ॥
अहं जानामि तत्क्षेत्रं सुपुण्यं पापनाशनम् ॥
तापसैः कीर्तितं नित्यं ममान्यैस्तीर्थयात्रिकैः ॥ ६.७३.२० ॥
तस्मात्तत्र समेष्यामो युष्माभिः सहिता वयम् ॥
लिंग संस्थापनार्थाय क्षेत्रदर्शनवांछया ॥ २१ ॥
॥ सूत उवाच ॥ ॥
तच्छुत्वा कौरवाः सर्वे परं हर्षमुपागताः ॥
तथा पांडुसुताश्चैव ये चान्ये तत्र पार्थिवाः ॥ २२ ।
ते तु संप्रस्थिताः सर्वे मिलिताः कुरुपांडवाः ॥
गजवाजिविमर्देन कम्पयन्तो वसुन्धराम् ॥ २३ ॥
अथ तत्क्षेत्रमासाद्य दूरे कृत्वा निवेशनम् ॥
कौरवा यादवा मुख्याश्चमत्कारपुरं गताः ॥ २४ ॥
तत्र सर्वान्समाहूय ब्राह्मणान्विनयान्विताः ॥
प्रोचुर्दत्त्वा विचित्राणि भूषणाच्छादनानि च ॥ २५ ॥
वयं सर्वेऽत्र वांछामो लिगसंस्थापनक्रियाम् ॥
कर्तुं प्रासादमुख्यानां पृथक्त्वेन स्वशक्तितः ॥ २६ ॥
तस्मात्कृत्वा प्रसादं नो दयां च द्विजसत्तमाः ॥
आज्ञापयत शीघ्रं हि येन कर्म प्रवर्तते ॥ २७ ॥
भविष्यथ तथा यूयं होतारः सर्वकर्मसु ॥
न चान्यो ब्राह्मणो बाह्यो यद्यपि स्याद्बृहस्पतिः ॥ २८ ॥
यतोऽस्माभिः श्रुता वार्ता कीर्त्यमाना पुरातनी ॥
विष्णुना तस्य राजर्षेः प्रेतश्राद्धसमुद्भवा ॥ २९ ॥
यथा तेन कृतं श्राद्धं पितुः प्रेतस्य यत्नतः ॥
ब्राह्मणानां पुरोऽन्येषां यथोक्तानामपि द्विजाः ॥ ६.७३.३० ॥
यथोक्तविधिना तीर्थे नागानां पंचमीदिने ॥।
श्रावणे मासि नो मुक्तः पिता तस्य तथापि सः ॥ ३१ ॥
प्रेतत्वात्सर्पदोषेण संजाता द्विजसत्तमाः ॥
देवशर्मपुरो यावत्तत्कृतं श्राद्धमादरात् ॥
तावत्पिता विनिर्मुक्तः प्रेतत्वाद्दारुणाद्द्विजाः ॥ ३२ ॥
यदत्र क्रियते किंचित्कर्म धर्म्यं द्विजोत्तमाः ॥
तद्बाह्यं च भवेद्व्यर्थमेतद्विद्मः स्फुटं वयम् ॥ ॥ ३३ ॥
प्रार्थयामो विशेषेण तेन दैन्यं समागताः ॥
प्रसादः क्रियतां तस्मादाज्ञां यच्छत मा चिरम् ॥ ३४ ॥
॥ सूत उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा ब्राह्मणास्ते परस्परम् ॥
मन्त्रं चक्रुस्तदर्थं हि किं कृतं सुकृतं भवेत् ॥ ३५ ॥
एके प्रोचुर्न दास्यामः प्रासादार्थं वसुन्धराम् ॥
एतेषामपि चैकस्य तस्माद्गच्छंतु सत्वरम् ॥ ३६ ॥
पंचक्रोशप्रमाणेन क्षेत्रमेतद्व्यवस्थितम् ॥
पूर्वेषामपि देवानां प्रासादैस्तत्समावृतम् ॥ ३७ ॥
अन्ये प्रोचुर्धनोमत्ता यूयं च सुखमाश्रिताः ॥
दारिद्यार्तिं न जानीथ ब्रूथ तेन भृशं वचः ॥ ३८ ॥
तस्माद्वयं प्रदास्याम एतेषां हि वसु न्धराम् ॥
अर्थसिद्धिर्भवेद्येन भूषा स्थानस्य जायते ॥ ३९ ॥
तथान्ये मध्यमाः प्रोचुर्यत्र साक्षाज्जनार्दनः ॥
स्वयं प्रार्थयते भूमिं तत्कस्मान्न प्रदीयते ॥ ६.७३.४० ॥
तस्माद्यत्र समायाताः कुरुपांडवयादवाः ॥
प्राधान्येन प्रकुर्वंतु प्रासादांस्तेन चापरे ॥ ४१ ॥
याचते यत्र गांगेयः स्वयमेव तथा परः ॥
धृतराष्ट्रः सपुत्रश्च पांडवाश्च महाबलाः ॥
लिंगसंस्थापनार्थाय निषेधस्तत्र नार्हति ॥ ४२ ॥
तेषां तद्वचनं श्रुत्वा प्रतिपन्नं द्विजोत्तमैः ॥
निर्धनैः सधनैश्चापि सस्पृहैर्निःस्पृहैरपि ॥ ४३ ॥
ततः समेत्य ते सर्वे ब्राह्मणाः कुरुसत्तमान् ॥
यादवान्पांडवान्प्रोचुः कृत्वा वै मन्त्रनिश्चयम् ॥ ४४ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
एतत्स्वल्पतरं क्षेत्रं सर्वेषामपि भूभुजाम् ॥
प्रासादैः सर्वतो व्याप्तं तत्किं ब्रूमोऽधुना वयम् ॥ ४५ ॥
तद्भवंतः प्रकुर्वंतु प्राधान्येन यदृच्छया ॥
क्षेत्रेऽत्रैवाभिमुख्येन प्रासादान्सुमनोहरान् ॥
यथाज्येष्ठं यथाश्रेष्ठं पृथक्त्वेन व्यवस्थिताः ॥ ४६ ॥
अथ हर्षसमायुक्ता धृतराष्ट्रमुखाः क्रमात् ॥
प्राधान्येन यथाश्रेष्ठं चक्रुः प्रासादपद्धतिम् ॥ ४७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धृतराष्ट्रादिकृतप्रासादस्थापनोद्यमवर्णनंनाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥ ॥॥