स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०६२

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
एवं स निश्चयं कृत्वा पार्थिवो द्विजसत्तमाः ॥
नात्यजत्तां तथोक्तोऽपि दैवज्ञैर्विषकन्यकाम् ॥
दीयमानामपि प्रीत्या न च गृह्णाति भूभुजा ॥ १ ॥
शर्मणष्ठीवनं यस्मात्तया स्वपितुराहितम् ॥
शर्मिष्ठेति सुविख्याता ततः सा ह्यभवद्भुवि ॥ २ ॥
एतस्मिन्नंतरे तस्य शत्रवः पृथिवीपतेः ॥
सर्वतः पीडयामास राष्ट्रं क्रोधसमन्विताः। ॥३॥
अथा सौ पार्थिवः क्रुद्धः स्वसैन्यपरिवारितः ॥
युद्धाय निर्ययौ स्थानान्मृत्युं कृत्वा निवर्तने ॥४॥
ततः संप्राप्य ताञ्छत्रूंश्चकार स महाहवम् ॥
चतुरंगेन सैन्येन यमराष्ट्रविवर्धनम् ॥ ५॥
ततश्च दशमे प्राप्ते शत्रुभिः स महीपतिः ॥
निहतो दिवसे सर्वैर्वेष्टयित्वा समन्ततः ॥ ६ ॥
ततस्तस्य नरेन्द्रस्य हतशेषाश्च ये नराः ॥
भयार्तास्ते द्रुतं जग्मुः स्वपुरं प्रति दुःखिताः ॥ ७ ॥
तेपि शत्रुगणाः सर्वे संप्रहृष्टा जिगीषवः ॥
तत्पुरं वेष्टयामासुस्तत्पुत्रोच्छेदनाय वै ॥ ८ ॥
एतस्मिन्नंतरे पौराः सर्वे शोकपरायणाः ॥
जगर्हुः परुषैर्वाक्यैर्दुष्टां तां विषकन्यकाम् ॥९॥
अस्या दोषेण पापाया मृतश्च स महीपतिः॥
तथा राष्ट्रस्य विध्वंसे भविष्यति पुरः क्षयः ॥ ६.६२.१० ॥
उक्तः स नृपतिः पूर्वं ब्राह्मणैर्ज्ञानिभिस्तदा ॥
त्यजैनां बहुदोषाढ्यां निन्दितां विषकन्यकाम् ॥॥॥
न तेन तत्कृतं वाक्यमपि तेषां हितैषिणाम् ॥
स्नेहपाशनिबद्धेन दयाढ्येन महात्मना॥।२॥
तस्मादद्यापि पापैषा वध्यतामाशु कन्यका ॥
निर्यास्यतां पुरादस्माद्यावन्न स्यात्पुरक्षयः ॥ १३ ॥
॥ सूत उवाच ॥ ॥
सापि श्रुत्वा जनोक्तांस्तानपवादान्पृथग्विधान् ॥
वैराग्यं परमं गत्वा निंदां चक्रे तथात्मनः ॥ १४ ॥
ततो रात्रौ विनिष्क्रम्य भयशोकसमन्विता ॥
प्रतस्थेऽरण्यमासाद्य मरणे कृतनिश्चया ॥।५॥
अथ दृष्टं तया क्षेत्रं हाटकेश्वरजं महत् ॥
तपस्विभिः समाकीर्णं चित्ताह्लादकरं परम् ॥ १६ ॥
अथ तस्याः स्मृतिर्जाता पूर्वजन्मसमुद्भवा ॥
चंडालत्वे मया पूर्वं गौरेका वितृषीकृता ॥ १७ ॥
तत्प्रभावादहं जाता सुपुण्ये नृपमंदिरे ॥
क्षेत्रस्यास्य प्रभावेन तस्मादत्रैव मे स्थितिः ॥ १८ ॥
सूत उवाच ॥ ॥
अन्यदेहांतरे ह्यासीच्चंडाली सा विगर्हिता ॥
बहुप्रसूतिसंयुक्ता दरिद्रेण कदर्थिता ॥ १९ ॥
अथ सा भ्रममाणाऽत्र क्षेत्रे प्राप्ता तृषार्दिता ॥
मध्यंदिनगतेसूर्ये ज्येष्ठमासे सुदारुणे ॥ ६.६२.२० ॥
अथापश्यत्स्तोकजलां सा तत्र लघुकूपिकाम् ॥
तृषार्तां कपिलां गां वर्तमानां तदां तिके ॥ २१ ॥
ततो दयां समाश्रित्य त्यक्त्वा स्नेहं सुतोद्भवम् ॥
आत्मनश्च तथा प्राणान्गां वितृष्णामथाकरोत् ॥ २२ ॥
जलाभावे तथा सा च समस्तैर्बालकैः सह ॥
वैवस्वतगृहं प्राप्ता गोभक्तिधृतमानसा ॥ २३ ॥
ततो नृपगृहे जाता तत्प्रभावाद्द्विजोत्तमाः ॥
पूर्वकर्मविपाकेन संजाता विष कन्यका ॥ २४ ॥
॥ ऋषय ऊचुः ॥ ॥
केन कर्मविपाकेन संजाता विषकन्यका ॥
स्वकुलोच्छेदनकरी सर्वं सूत ब्रवीहि नः ॥ २५ ॥
॥ सूत उवाच ॥ ॥
चंडालत्वे तया विप्रा वर्तंत्या भ्रममाणया ॥
देवतायतने दृष्टा गौरी हेममयी शुभा ॥ २६ ॥
ततस्तां विजने प्राप्य गत्वा देशांतरं मुदा॥
यावत्करोति खंडानि विक्रयार्थं सुनिंदिता ॥
तावदन्वेषमाणास्तां संप्राप्ता नृपसेवकाः ॥२७॥
अथ ते तां समालोक्य भर्त्सयित्वा मुहुर्मुहुः॥
संताड्य लकुटाघातैर्लोष्टघातैश्च मुष्टिभिः ॥ २८ ॥
ततः सुवर्णमादाय त्यक्त्वा तां रुधिरप्लुताम् ॥
अवध्यैषेति संचिंत्य स्वपुरं प्रति ते गताः ॥२९॥
यत्तया पार्वती स्पृष्टा ततो वै खण्डशः कृता ॥
तेन कर्मविपाकेन संजाता विषकन्यका ॥ ६.६२.३० ॥
ततः संस्मृतिमासाद्य पूर्वजन्मसमुद्भवाम् ॥
माहात्म्यं जलदानस्य गोपीतस्य विचार्य च ॥
चकार कूपिकास्थाने तडागं विमलोदकम् ॥३॥।
समुद्रप्रतिमं चारु पद्मिनीखंडमंडितम् ॥
मत्स्यकच्छपसंकीर्णं शिशुमारविराजितम् ॥ ३२ ॥
सेवितं बहुभिर्हंसैर्बकैश्चक्रैः समंततः ॥
अगाधसलिलं पुण्यं सेवितं जलजंतुभिः ॥ ३३ ॥
प्रासादं तत्समीपस्थं साधु दृष्टिमनोहरम् ॥
कारयित्वातिसंभक्त्या कैलासशिखरोपमम् ॥ ३४ ॥
ततस्तत्र तपस्तेपे गौरीं संस्थाप्य भक्तितः॥
तदग्रे व्रतमास्थाय यथोक्तं शास्त्र संभवम्॥ ३५ ॥
प्रातः स्नात्वा तु हेमंते गौरीं संपूज्य भक्तितः॥
बलिपूजोपहारैश्च विप्रदानादिभिस्तथा ॥ ३६ ॥
ततश्च शिशिरे प्राप्ते सायं प्रातः समाहिता ॥
एकांतरोपवासैः सा स्नानं चक्रे नृपात्मजा ॥ ३७ ॥
वसंते नृत्यगीतैश्च तोषयामास पार्वतीम् ॥
षष्ठकालाशना साध्वी सस्यदानपरा यणा ॥ ३८ ॥
 पञ्चाग्निसाधका ग्रीष्मे फलाहारं तपस्विनी ॥
चकार श्रद्धयोपेता वृकभूमिपतेः सुता ॥ ३९ ॥
वर्षासु च जलाहारा भूत्वा सा विष कन्यका ॥
आकाशे शयनं चक्रे परित्यक्तकुटीरका ॥ ६.६२.४० ॥
वायुभक्षा सती चाऽथ साऽनयच्छरदं ततः ॥
कृतजप्यपरा नित्यं पार्वतीगतमानसा ॥४॥।
एवमाराधयंत्याश्च तस्या देवीं गिरेः सुताम् ॥
जगाम सुमहान्कालो न लेभे फलमीहितम् ॥४२॥
मुखं वलिभिराक्रान्तं पलितैरंकितं शिरः॥
कन्याभावेपि वर्तंत्या न च तुष्टा हरप्रिया ॥ ४३ ॥
कस्यचित्त्वथ कालस्य तत्परीक्षार्थमेव सा ॥
शक्राणीरूपमास्थाय ततः सन्दर्शनं गता ॥४४॥
सुधावदातं सूर्याभं कैलासशिखरोपमम् ॥
सुप्रलंबकरं मत्तं चतुर्दंतं महागजम् ॥ ४५ ॥
समास्थाय वृता स्त्रीभिर्देवानां सर्वतो दिशम् ॥
दधती मुकुटं मूर्ध्नि हारकेयूरभूषिता ॥ ४६ ॥
पांडुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥
सेव्यमानाऽप्सरोभिश्च स्तूयमाना च किन्नरैः ॥ ४७ ॥
गन्धर्वैर्गीयमानासीत्ततः प्रोवाच सादरम् ॥
वरं यच्छामि ते पुत्रि प्रार्थयस्व यथेप्सितम् ॥ ४८ ॥
अनेन तपसा तुष्टा पुष्कलेन तवाधुना ॥
अहं भार्या सुरेन्द्रस्य शचीति परिकीर्तिता ॥
त्रैलोक्येऽपि स्वयं प्राप्ता दयां कृत्वा तवोपरि ॥ ४९ ॥
त्वया महत्तपस्तप्तं ध्यायंत्या हरवल्लभाम् ॥
तपसा तुष्टिमायाता भवानी न सुनिष्ठुरा ॥ ६.६२.५० ॥
॥ सूत उवाच ॥ ॥
सा तस्या वचनं श्रुत्वा शक्राण्या विषकन्यका ॥
नमस्कृत्वाऽथ तामूचे कृतांजलिपुटा स्थिता ॥ ५१ ॥
॥ विषकन्योवाच ॥ ॥
नाहं त्वत्तो वरं देवि प्रार्थयामि कथञ्चन ॥
तथान्यासामपींद्राणि देवतानामसंशयम्॥ ५२ ॥
अप्यहं नरकं रौद्रं प्रगच्छामींद्रवल्लभे ॥
हरकांता समादेशान्न स्वर्गेऽपि तवाज्ञया ॥ ५३ ॥
अनादिमध्यपर्य्यन्ता ज्ञानैश्वर्यसम न्विता ॥
या देवी पूज्यते देवैर्वरं तस्या वृणोम्यहम्॥ ५४ ॥
यामाराधयते विष्णुर्ब्रह्मा रुद्रश्च वासवः ॥
वांछितार्थं सदा देवीं वरं तस्या वृणो म्यहम् ॥ ५५ ॥
यया व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥
स्त्रीरूपैर्विविधैर्देव्या वरं तस्या वृणोम्यहम् ॥ ५६ ॥
॥ श्रीदेव्युवाच ॥ ॥
अहं भार्या सुरेन्द्रस्य प्राणेभ्योऽपि गरीयसी ॥
ममाज्ञां पालयन्ति स्म देवदानवपन्नगाः ॥ ५७ ॥
किंनरा गुह्का यक्षाः किं पुनर्मर्त्यधर्मिणः ॥
तस्मात्त्वं किं न गृह्णासि वरं मत्तः कुतापसि ॥ ५८ ॥
तन्नूनं वज्रघातेन चूर्णयिष्यामि ते शिरः ॥
तस्यास्तद्वचनं श्रुत्वा तापस्यथ ततो द्विजाः ॥ ५९ ॥
धैर्यमालंब्य तां प्राह भूय एव सुरेश्वरीम् ॥
स्वामिनी त्वं हि देवानां सत्यमेतदसंशयम् ॥ ६.६२.६० ॥
यस्याः प्राप्तं त्वयैश्वर्यं परा तां तोषयाम्यहम् ॥
स्वल्पमप्यपराधं ते न करोमि सुरेश्वरि ॥ ६१ ॥
तथापि वधयोग्यां मां मन्यसे विक्षिपायुधम् ॥
अन्यच्चापि वचो मह्यं शक्राणि शृणु सादरम् ॥ ॥ ६२ ॥
तच्छुत्वा कुरु यच्छ्रेयो विचिन्त्य मनसा ततः ॥
न त्वं न ते पतिः शक्रो न चान्येपि सुरासुराः ॥
मां निषूदयितुं शक्ताः पार्वत्यां शरणं गताम् ॥ ६३ ॥
तस्माद्द्रुतं दिवं गच्छ मा त्वं कोपं वृथा कुरु ॥
सन्मार्गे वर्तमानायां मम सर्वसुरेश्वरि ॥ ६४ ॥
॥ सूत उवाच ॥ ॥
एवं सा तां शचीमुक्त्वा दुःखिता विषकन्यका ॥
चिन्तयामास तदिदं मरणे कृतनिश्चया ॥ ६५ ॥
न प्रसीदति मे देवी यस्मात्पर्वतनंदिनी ॥
तस्मान्मां यदि शक्राणी नैषा व्यापादयिष्यति ॥ ६६ ॥
तन्नूनं ज्वलनं दीप्तं सेवयिष्यामि सत्वरम् ॥
अथापश्यत्क्षणेनैव तं चैरावणवारणम् ॥ ६७ ॥
दुग्धकुंदेन्दुसंकाशं संजातं सहसा वृषम् ॥
तस्योपरि स्थितां देवीं शंभुना सह पार्वतीम् ॥ ६८ ॥
चतुर्भुजां प्रसन्नास्यां दिव्यरूपसमन्विताम् ॥
शुक्लमाल्यांबरधरां चन्द्रार्धकृतमस्तकाम् ॥ ६९ ॥
ततः सम्यक्समालोक्य ज्ञात्वा तां पर्वतात्मजाम् ॥
विषकन्या स्तुतिं चक्रे प्रणिपत्य मुहुर्मुहुः ॥ ६.६२.७० ॥
नमस्ते देवदेवेशि नमस्ते सर्ववासिनि ॥
सर्वकामप्रदे सत्ये जरामरणवर्जिते ॥ ७१ ॥
शक्रादयोऽपि देवास्ते परमार्थेन नो विदुः ॥
स्वरूपवर्णनं कर्तुं किं पुनर्देवि मानुषी ॥ ७२ ॥
यस्याः सर्वं महीव्योमजलाग्निपवनात्मकम् ॥
ब्रह्मांडमंगसंभूतं सदेवासुरमानुषम् ॥ ७३ ॥
न तस्या जन्मनि ब्रह्मा न नाशाय महेश्वरः ॥
पालनाय न गोविंदस्तां त्वां स्तोष्याम्यहं कथम्॥७४॥
तथाष्टगुणमैश्वर्यं यस्याः स्वाभाविकं परम् ॥
निरस्तातिशयं लोके स्पृहणीयतमं सदा ॥ ७५ ॥
यस्या रूपाण्यनेकानि सम्यग्ध्यानपरायणाः ॥
ध्यायंति मुनयो भक्त्या प्राप्नुवंति च वांछितम् ॥ ७६ ॥
हृदि संकल्प्य यद्रूपं ध्यानेनार्चंति योगिनः ॥
सम्यग्भावात्मकैः पुष्पैर्मोक्षाय कृत निश्चयाः ॥ ७७ ॥
तां देवीं मानुषी भूत्वा कथं स्तौमि महेश्वरीम् ॥ ७८ ॥
॥ देव्युवाच ॥ ॥
परितुष्टास्मि ते पुत्रि वरं प्रार्थय सुव्रते ॥
असंदिग्धं प्रदास्यामि यत्ते हृदि सदा स्थितम् ॥ ७९ ॥
॥ विषकन्योवाच ॥ ॥
भर्तुरर्थे मया देवि कृतोऽयं तपउद्यमः ॥
तत्किं तेन करिष्यामि सांप्रतं जरयावृता ॥ ६.६२.८० ॥
तस्मादत्राऽऽश्रमे साकं त्वया स्थेयं सदैव तु ॥
हिताय सर्वनारीणां वचनान्मम पार्वति ॥ ८१ ॥ ॥
॥ श्रीदेव्युवाच ॥ ॥
अद्यप्रभृत्यहं भद्रे श्रेष्ठेऽस्मिन्नाश्रमे शुभे ॥
स्वमाश्रमं करिष्यामि यत्ते हृदि समाश्रितम् ॥ ८२ ॥
माघशुक्लतृतीयायां या ऽत्र स्नानं करिष्यति ॥
नारी सा मत्प्रसादेन लप्स्यते वांछितं फलम् ॥ ८३ ॥
अपि कृत्वा महापापं नारी वा पुरुषोऽथवा ॥
यत्र स्नात्वा प्रसादान्मे विपाप्मा संभविष्यति ॥ ८४ ॥
अत्र ये फलदानं च प्रकरिष्यंति मानवाः ॥
सफलाः सकलास्तेषामाशाः स्युर्नात्र संशयः ॥ ८५ ॥
अपि हत्वा स्त्रियं मर्त्यो योऽत्र स्नानं करिष्यति॥
माघशुक्लतृतीयायां विपाप्मा स भविष्यति ॥ ८६ ॥
या तत्र कन्यका भद्रे स्नानं भक्त्या करि ष्यति ॥
तस्मिन्दिने पतिश्रेष्ठं लप्स्यते नात्र संशयः ॥ ८७ ॥
॥सूत उवाच ॥ ॥
एवमुक्त्वा ततो गौरी तां च पस्पर्श पाणिना ॥
ततश्च तत्क्षणाज्जाता दिव्यरूपवपुर्द्धरा ॥ ८८ ॥
वृद्धत्वेन परित्यक्ता दिव्यमाल्यानुलेपना ॥
पीनोन्नतकुचाभोगा प्रमत्तगजगामिनी ॥ ८९ ॥
ततस्तां सा समादाय विधाय निजकिंकरीम् ॥
कैलासं पर्वतश्रेष्ठं जगाम हरसंयुता ॥ ६.६२.९० ॥
ततःप्रभृति तत्तीर्थं शर्मिष्ठातीर्थमुच्यते ॥
प्रख्यातं त्रिषु लोकेषु सर्वपातकनाशनम् ॥ ९१ ॥
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥
माघशुक्लतृतीयायां यथावद्द्विजसत्तमाः ॥ ९२ ॥
एतत्पवित्रमायुष्यं सर्व पातकनाशनम् ॥
स्त्रीतीर्थसंभवं नॄणां माहात्म्यं यन्मयोदितम् ॥ ९३ ॥
यश्चैतत्प्रातरुत्थाय सदा पठति मानवः ॥
स सर्वाँल्लभते कामान्मनसा वांछितान्सदा ॥९४॥
तथा पर्वणि संप्राप्ते यश्चैतत्पठते नरः ॥
शृणोति चाशु भक्त्या यः स याति शिवमंदिरम्॥९५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये शर्मिष्ठातीर्थमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥