स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०५३

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
तत्रैवोज्जयनीपीठमस्ति कामप्रदं नृणाम् ॥
प्रभूताश्चर्यसंयुक्तं बहुसिद्धनिषेवितम् ॥ १ ॥
यस्य मध्यगतो नित्यं स्वयमेव महेश्वरः ॥
महाकालस्वरूपेण स तिष्ठति द्विजोत्तमाः ॥ २ ॥
वैशाख्यां यो नरस्तत्र कृत्वा श्राद्धं समाहितः ॥
ततः पश्यति देवेशं महाकाल इति स्मृतम्॥
पूजयेद्दक्षिणां मूर्तिं समाश्रित्य द्विजोत्तमाः ॥ ३ ॥
दश पूर्वान्दशातीतानात्मानं च द्विजोत्तमाः ॥
पुरुषान्स समुद्धृत्य शिवलोके महीयते ॥ ४ ॥
यो यं काममभिध्याय तत्र पीठं प्रपूजयेत् ॥
संपूज्य योगिनीवृंदं कन्यकावृन्दमेव च ॥ ५ ॥
स तत्कृत्स्नमवाप्नोति यदपि स्यात्सुदुर्लभम् ॥
तत्र वैशाखमासस्य पौर्णमास्यां समाहितः ॥ ६ ॥
श्रद्धायुक्तो नरो यो वा उपवासपरः शुचिः ॥
करोति जागरं तस्य पुरतः श्रद्धयान्वितः ॥
स याति परमं स्थानं जरामरणवर्जितम् ॥ ७ ॥
किं व्रतैः किं वृथा दानैः किं जपैर्नियमेन वा ॥
महाकालस्य ते सर्वे कलां नार्हंति षोडशीम् ॥ ८ ॥
॥ सूत उवाच ॥ ॥
तत्रैवास्ति महाभागा भ्रूणगर्तेति विश्रुता ॥
गर्ता सुविपुलाकारा सर्वपातकनाशिनी ॥ ९ ॥
ब्रह्महत्याविनिर्मुक्तः सौदासो यत्र पार्थिवः ॥
स्त्रीहत्यया विनिर्मुक्तः सुषेणो वसुधाधिपः ॥ ६.५३.१० ॥
॥ ऋषय ऊचुः ॥ ॥
ब्रह्महत्या कथं तस्य सौदासस्य महीपतेः ॥
ब्रह्मण्यस्यापि संजाता तदस्माकं प्रकीर्तय ॥ ११ ॥
श्रूयते स महीपालो ब्राह्मणानां हिते रतः ॥
कर्मणा मनसा वाचा ब्रह्मघ्नः सोऽभवत्कथम् ॥ १२ ॥
विमुक्तश्च कथं भूयो भ्रूणगर्तामुपाश्रितः ॥
सापि गर्ता कथं जाता सर्वं नो वद विस्तरात् ॥ १३ ॥
॥ सूत उवाच ॥ ॥
यदा लिंगस्य पातोऽभूद्देवदेवस्य शूलिनः ॥
तदा स लज्जयाविष्टो लिंगाभावाद्द्विजोत्तमाः ॥ १४ ॥
कृत्वाऽतिविपुलां गर्तां प्रविवेश ततः परम् ॥
न कस्यचित्तदात्मानं दर्शयामास शूलधृक् ॥ १५ ॥
एवं सा तत्र संजाता गर्ता ब्राह्मणसत्तमाः ॥
यथा तस्यां विपाप्माभूत्सौ दासस्तद्वदाम्यहम् ॥ १६ ॥
आसीन्मित्रसहोनाम राजा परमधार्मिकः ॥
सौदासस्तत्सुतः साक्षात्सूर्यवंशसमुद्भवः ॥ १७ ॥
तेनेष्टं विपुलैर्यज्ञैः सुवर्णवरदक्षिणैः ॥
असंख्यातानि दानानि प्रदत्तानि महात्मना ॥ १८ ॥
कस्यचित्त्वथ कालस्य सत्रे द्वादशवार्षिके ॥
वर्तमाने यथान्यायं विधिदृष्टेन कर्मणा ॥ १९ ॥
क्रूराक्षः क्रूरबुद्धिश्च राक्षसौ बलवत्तरौ ॥
यज्ञविघ्नाय संप्राप्तौ संप्राप्ते रजनीमुखे ॥ ६.५३.२० ॥
राक्षसैर्बहुभिः सार्धं तथान्यैर्भूतसंज्ञितैः ॥
पिशाचैश्च दुराधर्षैर्यज्ञविध्वंसतत्परैः ॥ २१ ॥
अथ ते राक्षसाः सर्वे किंचिच्छिद्रमवेक्ष्य च ॥
विविशुर्यज्ञवाटं तं प्रसर्पन्तः समंततः ॥ २२ ॥
निघ्नन्तो ब्राह्मणश्रेष्ठान्भक्षयन्तो हवींषि च ॥
तथा यानि विचित्राणि यज्ञार्थे कल्पितानि च ॥ २३ ॥
एतस्मिन्नंतरे तत्र हाहाकारो महानभूत् ॥
भक्ष्यमाणेषु विप्रेषु राक्षसैर्बलवत्तरैः ॥ २४ ॥
ततो मैत्रसहिः क्रुद्धस्त्यक्त्वा दीक्षाव्रतं नृपः ॥
आदाय सशरं चापं ध्वंसयामास वीक्ष्य तान् ॥ २५ ॥
कृतरक्षो वसिष्ठेन स्वयमेव पुरोधसा ॥
क्रूराक्षं सूदयामास राक्षसैर्बहुभिः सह ॥ २६ ॥
क्रूरबुद्धिरथो वीक्ष्य हतं श्रेष्ठं सहोदरम् ॥
तं च पार्थिवशार्दूलमगम्यं ब्रह्मतेजसा ॥ २७ ॥
हतशेषान्समादाय राक्षसान्बलसंयुतः ॥
पलायनं भयाच्चक्रे क्षतांगस्तस्य सायकैः ॥ २८ ॥
 ततस्तद्वैरमाश्रित्य भ्रातुर्ज्येष्ठस्य राक्षसः ॥
छिद्रमन्वेषयामास तद्वधाय दिवानिशम् ॥ २९ ॥
एवं सवीक्षमाणस्य तस्य च्छिद्रं महात्मनः ॥
समाप्तिमगमद्विप्राः सत्रं तद्द्वादशाब्दिकम् ॥ ६.५३.३० ॥
न सूक्ष्ममपि संप्राप्तं छिद्रं तेन दुरात्मना ॥
वसिष्ठविहिता रक्षा सत्रे तस्य महीपतेः ॥ ३१ ॥
अथासौ ब्राह्मणान्सर्वान्विसृज्याहितदक्षिणान्॥
कृतांजलिपुटो भूत्वा वसिष्ठमिदमब्रवीत् ॥ ३२ ॥
स्वहस्तेन गुरोद्याहं त्वां भोजयितुमुत्सहे ॥
क्रियतां तत्प्रसादो मे भुक्त्वाद्य मम मन्दिरे ॥ ३३ ॥
॥ सूत उवाच ॥ ॥
स तथेति प्रतिज्ञाय वसिष्ठो मुनिसत्तमः ॥
क्षालितांघ्रिः स्वयं तेन निविष्टो भोजनाय वै ॥ ३४ ॥
कूरबुद्धिरथो वीक्ष्य तदर्थं चामिषं शुभम् ॥
सुसंस्कृतं विधानेन सूपकारैर्द्विजोत्तमाः ॥३५॥
उखां कृत्वा ततस्तादृक्तत्प्रमाणामतर्किताम्॥
महामांसाभृतां कृत्वा तां जहारामिषान्विताम् ॥३६॥
अथासौ मुनिशार्दूलो भुंजानो बुबुधे हि तत् ॥
महामांसमिति क्रुद्धस्तत्र प्रोवाच मन्युमान्॥ ३७ ॥
महामांसाशनं यस्मात्कारितोऽहं त्वयाधम ॥
रक्षोवद्राक्षसस्तस्मात्त्वमद्यैव भविष्यसि ॥३८ ॥
ततः संशोधयामास तस्य मांसस्य चागमम् ॥
निपुणं सूपकारांस्तान्दृष्ट्वा राजा पृथक्पृथक् ॥ ३९ ॥
तेऽब्रुवन्नैतदस्माभिः श्रपितं मांसमीदृशम् ॥
श्रद्धीयतां महीपाल नान्येन मनुजेन वा ॥ ६.५३.४० ॥
राक्षसं वा पिशाचं वा दानवं वा विना विभो ॥
एतज्ज्ञात्वा ततो नाथ यद्युक्तं तत्समाचर ॥ ४१ ॥
एतस्मिन्नंतरे तस्य नारदो मुनिसत्तमः॥
समागत्याब्रवीत्सर्वं तद्राक्षसविचेष्टितम्॥ ४२ ॥.
तच्छ्रुत्वा कोपमापन्नः स राजा शप्तुमुद्यतः ॥
वसिष्ठं स्वकरे कृत्वा जलं सौदासभूपतिः ॥
शापोद्यतं च तं दृष्ट्वा नारदो वाक्यमब्रवीत् ॥ ४३ ॥
निघ्नन्तो वा शपन्तो वा द्विषन्तो वा द्विजातयः॥
नमस्कार्या महीपाल तथापि स्वहितेच्छुना॥
गुरुरेष पुनर्मान्यस्तव पार्थिवसत्तम॥४४॥
तस्मान्नार्हसि शप्तुं त्वं प्रतिशापेन सन्मुनिम् ॥
निषिद्धः स तथा भूपस्ततस्तत्सलिलं करात् ॥
पादयोः कृत्स्नमुपरि प्रमुमोच ततः परम् ॥ ४५ ॥
अथ तौ चरणौ तस्य तप्त शापोदकप्लुतौ ॥
दग्धौ कृष्णत्वमापन्नौ तत्क्षणाद्द्विजसत्तमाः ॥ ४६ ॥
कल्माषपाद इत्युक्तस्ततःप्रभृति स क्षितौ ॥
भूपालो द्विजशार्दूला ना्म्ना तेन विशेषतः ॥ ४७ ॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे विप्रो वसिष्ठो लज्जयान्वितः ॥
ज्ञात्वा दत्तं वृथा शापं तस्य भूमिपतेस्तदा ॥ ४८॥
उवाच व्यर्थः शापोऽयं तव दत्तो मया नृप ॥
न च मे जायते वाक्यमसत्यं हि कथंचन ॥ ४९ ॥
तस्मात्त्वं राक्षसो भूत्वा कञ्चित्कालं नृपो त्तम ॥
स्वरूपं लप्स्यसे भूयो यस्मिन्काले शृणुष्व तम् ॥ ६.५३.५० ॥
यदा त्वं क्रूरबुद्धिं तं राक्षसं निहनिष्यसि ॥
तदा त्वं लप्स्यसे मोक्षं राक्षसत्वात्सुदारुणात् ॥ ५१ ॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नन्तरे राजा यातुधानो बभूव सः ॥
ऊर्ध्वकेशो महाकायः कृष्णदन्तो भया नकः ॥ ५२ ॥
ततो जघान विप्रेन्द्रान्राक्षसं भावमाश्रितः ॥
यज्ञान्विध्वंसयामास मुनीनामाश्रमानपि ॥ ५३ ॥
कस्यचित्त्वथ कालस्य क्रूर बुद्धिः स राक्षसः ॥
ज्ञात्वा तं राक्षसीभूतमेकदाऽऽयुधवर्जितम् ॥ ५४ ॥
भ्रातुर्वधकृतं वैरं स्मरमाणस्ततः परम् ॥
तद्वधार्थं समायातो राक्षसैर्बहुभिर्वृतः ॥ ५५ ॥
ततस्तं वेष्टयित्वापि समंताद्राक्षसो नृपम् ॥
प्रोवाच वचनं क्रुद्धो नादेनापूरयन्दिशः ॥ ५६ ॥
त्वया यो निहतोऽस्माकं ज्येष्ठो भ्राता सुदुर्मते ॥
वसिष्ठस्य बलाद्यज्ञे तस्याद्य फलमाप्नुहि ॥ ५७ ॥
॥ राजोवाच ॥ ॥
यद्ब्रवीषि दुराचार कर्मणा तत्समाचर ॥
शारदस्येव मेघस्य गर्जितं तव निष्फलम् ॥ ५८ ॥
एवमुक्त्वा समादाय ततो वृक्षं स पार्थिवः ॥
प्राद्रवत्संमुखं तस्य गर्जमानो यथा घनः ॥५९॥
सोऽपि वृक्षं समुत्पाट्य क्रोधसंरक्तलोचनः ॥
त्रिशंखां भृकुटीं कृत्वा तस्याप्यभिमुखं ययौ ॥ ६.५३.६० ॥
एवं द्वावपि तौ शूरौ वृक्षयुद्धं महाबलौ ०।
कृतवन्तौ वने तत्र बहुवृक्षक्षयावहम् ॥ ६१ ॥
अथ तं श्रांतमालोक्य कूरबुद्धिं महीपतिः ॥
प्रगृह्य पादयोर्वेगाद्भ्रामयामास पुष्करे ॥ ६२ ॥
ततश्चास्फोटयामास भूमौ कोपसमन्वितः ॥
चक्रे चामिषखण्डं स पिष्ट्वापिष्ट्वा मुहुर्मुहुः ॥ ६३ ॥
तस्मिंस्तु निहते शूरे राक्षसे स महीपतिः ॥
राक्षसत्वाद्विनिर्मुक्तो लेभे कायं नृपोद्भवम् ॥ ६४ ॥
ततस्ते राक्षसाः शेषाः समंतात्तं महीपतिम्॥
परिवार्य महावृक्षैर्जघ्नुः पाषाणवृष्टिभिः॥ ६५ ॥
ततस्तानपि भूपालो जघान प्रहसन्निव ॥
वृक्षहस्तस्तु विश्रब्धो लीलया द्विजसत्तमाः ॥ ६६ ॥
ततश्च स्वपुरं प्राप्तः संप्रहृष्टतनूरुहः ॥
राक्षसानां वधं कृत्वा लब्ध्वा देहं पुरातनम् ॥ ६७ ॥
ततस्तं तेजसा हीनं दुर्गंधेन समावृतम् ॥
ब्रह्महत्योद्भवैश्चिह्नैरन्यैरपि पृथग्विधैः ॥ ६८ ॥
दृष्ट्वा ते मंत्रिणस्तस्य पुत्र पौत्रास्तथा परे ॥
नोपसर्पंति भूपालं पापस्पर्शभयान्विताः ॥ ६९ ॥
ऊचुश्च पार्थिवश्रेष्ठ न त्वमर्हसि संगमम् ॥
कर्तुं सार्धमिहास्माभिर्ब्रह्महत्या न्वितो यतः ॥ ६.५३.७० ॥
तस्माद्वसिष्ठमाहूय प्रायश्चित्तं समाचर ॥
अशुद्धं शुद्धिमायाति येन गात्रमिदं तव ॥ ७१ ॥
ततः स पार्थिवस्तूर्णं वसिष्ठं मुनिपुंगवम् ॥
समाहूयाब्रवीद्वाक्यं दूरस्थो विनयान्वितः ॥ ७२ ॥
तव प्रसादतो विप्र स हतो राक्षसो मया॥
मुक्तशापोऽस्मि संजातः परं शृणु वचो मुने ॥ ७३ ॥
मम गात्रात्सुदुर्गंधः समुद्गच्छति सर्वतः ॥
भाराक्रांतानि गात्राणि सर्वाण्येवाचलानि च ॥ ७४ ॥
तत्किमेतद्द्विजश्रेष्ठ तेजो हानिरतीव मे ॥
मंत्रिणोऽपि तथा पुत्रा न स्पृशंति यतोऽद्य माम् ॥ ७५ ॥
॥ वसिष्ठ उवाच ॥ ॥
राक्षसत्वं प्रपन्नेन त्वया पार्थिवसत्तम ॥
ब्राह्मणा बहवो ध्वस्तास्तथा विध्वंसिता मखाः ॥
तेषां त्वं पार्थिवश्रेष्ठ संस्पृष्टो ब्रह्महत्यया ॥ ७६ ॥
॥ राजोवाच ॥ ॥
तदर्थं देहि मे विप्र प्रायश्चित्तं विशुद्धये ॥
येन निर्मुक्तपापोऽहं राज्यं प्राप्नोमि चात्मनः ॥ ७७ ॥
॥ वसिष्ठ उवाच ॥ ॥
अत्रार्थे तीर्थयात्रां त्वं कुरु पार्थिव सत्तम ॥
निर्ममो निरहंकारस्ततः सिद्धिमवाप्स्यसि ॥ ७८ ॥
ततः स पार्थिवश्रेष्ठः संयतात्मा जितेंद्रियः ॥
प्रयागादिषु तीर्थेषु स्नानं चक्रे समा हितः ॥ ७९ ॥
न नश्यति स दुर्गंधो न च तेजः प्रवर्धते ॥
न कायो लघुतां याति नालस्येन विमुच्यते ॥ ६.५३.८० ॥
ततः संभ्रममाणश्च कदाचि द्द्विजसत्तमाः ॥
चमत्कारपुरे क्षेत्रे स्नानार्थं समुपागतः ॥ ८१ ॥
सुश्रांतः क्षुत्पिपासार्तो निशीथे तमसावृते ॥
गर्तायां पतितोऽकस्मात्पूर्णायां पयसा नृपः ॥ ८२ ॥
कृच्छ्रात्ततो विनिष्क्रांतस्तीर्थात्तस्मान्महीपतिः ॥
यावत्पश्यति चात्मानं द्वादशार्कसमप्रभम् ॥ ८३ ॥
दुर्गंधेन परित्यक्तं सोद्यमं लघुतां गतम् ॥
दृष्ट्वा च चिंतयामास नूनं मुक्तोऽस्मि पातकात् ॥ ८४ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
हर्षयन्ती महीपालं विमुक्तं ब्रह्महत्यया ॥८५॥
विमुक्तोऽसि महाराज सांप्रतं पूर्वपातकैः ॥
तीर्थस्यास्य प्रभावेन तस्माद्गच्छ निजं गृहम्॥ ८६ ॥
अत्र संनिहितो नित्यं भ्रूणरूपेण शंकरः ॥
कृष्णपक्षे विशेषेण चतुर्दश्यां महीपते ॥ ८७ ॥
यदा प्रपतितं लिंगं देवदेवस्य शूलिनः ॥
द्विजशापेन गर्तैषा तदानेन विनिर्मिता ॥ ८८ ॥
लज्जितेन स्ववासार्थं महद्दुःखयुतेन च ॥
सतीवियोगयुक्तेन भ्रूणत्वं प्रगतेन च ॥ ८९ ॥
सर्वपापहरा तेन गर्तेयं पृथि वीपते ॥
भ्रूणगर्तेति विख्याता तस्य नामा जगत्त्रये ॥ ६.५३.९० ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वाथ सा वाणी विररामांऽतरिक्षगा ॥
सोऽपि पार्थिवशार्दूलः प्रहृष्टः स्वपुरं ययौ ॥ ९१ ॥
ततस्तं पापनिर्मुक्तं तेजसा भास्करोपमम् ॥
दृष्ट्वा पुत्रास्तथा मर्त्याः प्रणेमुस्तुष्टिसंयुताः ॥ ९२ ॥
सोऽपि ब्राह्मणशार्दूलो वसिष्ठस्तं महीपतिम्॥
समभ्येत्य ततः प्राह हर्षगद्गदया गिरा ॥ ९३ ॥
दिष्ट्या मुक्तोसि राजेंद्र पापाद्ब्रह्मवधोद्भवात् ॥
दिष्ट्या त्वं तेजसा युक्तः पुनः प्राप्तो निजं पुरम् ॥ ९४ ॥
तस्मात्कीर्तय भूपाल कस्मिंस्तीर्थे समागतः ॥
त्वं मुक्तः पातकाद्घोराद्ब्रह्महत्यासमुद्भवात् ॥ ९५ ॥
ततः स कथयामास भ्रूणगर्तासमुद्भवम् ॥
वृत्तांतं तस्य विप्रर्षेरनुभूतं यथा तथा ॥ ९६ ॥
ततस्ते मंत्रिणो वृद्धाः स च राजा मुनीश्वरः ॥
पुत्रं प्रतर्दनंनाम राज्ये संस्थाप्य तत्क्षणात् ॥ ९७ ॥
भ्रूणगर्तां समासाद्य तामेव द्विजसत्तमाः ॥
तपश्चेरुर्महादेवं ध्यायमाना दिवा निशम् ॥ ९८॥
गताश्च परमां सिद्धिं कालेनाल्पेन दुर्लभाम् ॥
भ्रूणरूपधरं देवं पूजयित्वा महेश्वरम् ॥ ९९ ॥
ततःप्रभृति सा गर्ता प्रख्याता धरणीतले ॥
भ्रूणगर्तेति विप्रेंद्राः सर्वपातकनाशिनी ॥ ६.५३.१०० ॥
तत्र कृष्णचतुर्दश्यां यः श्राद्धं कुरुते नरः ॥
स पितॄंस्तारयेन्नूनं दश पूर्वान्दशा परान्॥ १०१ ॥
तस्मात्सर्वप्रयत्नेन तत्र श्राद्धं समाचरेत् ॥
स्नानं च ब्राह्मणश्रेष्ठा दानं वापि स्वशक्तितः ॥ १०२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये भ्रूणगर्तामाहात्म्यवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥ ॥