स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०४५

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
तत्रैवास्ति द्विजश्रेष्ठाः सुपुण्यं पुष्करत्रयम्॥
यत्र पूर्वं तपस्तप्तमानर्ताधिपभूभुजा ॥ १ ॥
यस्तत्र कार्तिके मासि कृत्तिकास्थे निशाकरे ॥
मध्याह्ने कुरुते स्नानं स गच्छति परां गतिम् ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
कथं तत्र समायातं सुपुण्यं पुष्करत्रयम् ॥
कस्मिन्स्थाने च विज्ञेयं कैश्चिह्नैर्वद सूतज ॥ ॥ ३ ॥
॥ सूत उवाच ॥ ॥
अहं वः कीर्तयिष्यामि यैश्चिह्नैः पुष्करत्रयम् ॥
प्राग्दृष्टं मुनिना तत्र विश्वामित्रेण धीमता ॥ ४ ॥
पुरा निवसतस्तस्य विश्वामित्रस्य सन्मुनेः ॥
संप्राप्ता कार्तिकी पुण्या कृत्तिकायोगसंयुता ॥ ५ ॥
सर्वतीर्थमयं क्षेत्रं तद्विज्ञाय तपोनिधिः ॥
ततश्च चिन्तयामास स्वचित्ते गाधिनन्दनः ॥ ६ ॥
अद्येयं कार्तिकी पुण्या कृत्तिकायोगसंयुता ॥
यस्यां स्नाने नरैः श्रेयः प्राप्यते पुष्करोदके ॥
आद्यं तु पुष्करं दूरे न गन्तुं शक्यतेऽधुना ॥ ७ ॥
तस्मादत्र स्थितं यच्च तस्मिन्स्नानं करोम्यहम् ॥
स एवं निश्चयं कृत्वा श्रद्धापूतेन चेतसा ॥ ८ ॥
ततश्चान्वेषयामास पुष्कराणि समंततः ॥
बहुत्वात्तत्र तीर्थानां निश्चयं नान्वपद्यत ॥९॥
दृष्ट्वादृष्ट्वा जलस्थानं स्नानं चक्रे ततः परम्॥
स तदा श्रममापन्नो भ्रममाण इतस्ततः॥६.४५.१०॥
वृक्षमूलं समाश्रित्य निविष्टश्च क्षितौ ततः॥
तुष्टावाथ शुचिर्भूत्वा श्रद्धया च त्रिपुष्करम् ॥॥॥
मध्यमाद्योजनं स्वर्गः कनिष्ठादर्ध योजनम् ॥
ज्येष्ठकुण्डात्पुनः ख्यातो हस्तप्रायः शुभात्मभिः ॥ १२ ॥
पावयंति हि तीर्थानि स्नानदानादसंशयम् ॥
पुष्करालोकनादेव नरः पापात्प्रमु च्यते ॥ १३ ॥
पुष्करारण्यमाश्रित्य शाकमूलफलैरपि ॥
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥ १४ ॥
पुष्करे दुष्करं स्नानं पुष्करे दुष्करं तपः ॥
पुष्करे दुष्करो वासः सर्वं पुष्करदुष्करम् ॥ १५ ॥
कार्तिक्यां कृत्तिकायोगे पुष्करे स्नाति यो नरः ॥
स क्षणान्मुच्यते पापादाजन्ममरणोद्भवात् ॥ १६ ॥
ज्येष्ठे प्रातश्च मध्याह्ने मध्यमे स्नाति यो नरः ॥
कनिष्ठेऽस्तमिते भानौ सकृत्स्वर्गमवाप्नुयात् ॥ १७ ॥
तावत्तिष्ठति देहेषु पातकं सर्वदेहिनाम् ॥
यावन्न पौष्करैस्तोयैः स्नानं वै कुर्वते नराः ॥ १८ ॥
दिवाकरकरैः स्पृष्टं तमो यद्वत्प्रणश्यति ॥
पुष्करोदकसंस्पर्शाच्छीघ्रं गच्छति पातकम् ॥ १९ ॥
ब्रह्महत्यादिकं पापं कृत्वापि पुरुषो भुवि ॥
कार्तिक्यां पुष्करे स्नात्वा निर्दोषत्वं प्रपद्यते ॥ ६.४५.२० ॥
किं दानैः किं व्रतैर्होमैः किं यज्ञैर्वहुविस्तरैः ॥
कार्तिक्यां पुष्करे स्नानैः सर्वेषां लभ्यते फलम् ॥ २१ ॥
यद्येषा भारती सत्या मया सम्यमुदीरिता ॥
तन्मे स्याद्दर्शनं शीघ्रं सद्यः पुष्करसंभवम् ॥ २२ ॥
एवं तस्य ब्रुवाणस्य विश्वामित्रस्य धीमतः ॥
अशरीराऽभवद्वाणी गगनाद्द्विजसत्तमाः ॥ २३ ॥
विश्वामित्र मुनिश्रेष्ठ सदा मे गगने स्थितिः ॥
मुक्त्वैकां कार्तिकीं चैव कृत्तिकायोगसंयुताम् ॥ २४ ॥
तदत्र दिवसे वासो मम भूमितले ध्रुवम् ॥
अस्मिन्नेव वने पुण्ये तत्त्वं स्नानं समाचर ॥ २५ ॥
॥ विश्वामित्र उवाच ॥ ॥
सर्वेषामेव तीर्थानां श्रूयते च समाश्रयः ॥
तत्कथं वेद्मि तीर्थेश त्वामत्रैव व्यवस्थितम् ॥ २६ ॥
तदोत्थिता पुनर्वाणी तारा गगनगोचरा ॥
विश्वामित्रं मुनिश्रेष्ठं हर्षयंती द्विजोत्तमाः ॥ २७ ॥
नातिदूरे वनादस्मादत्र संति जलाशयाः ॥
तेषामेकतमे पद्मं विद्यतेऽधोमुखं स्थितम् ॥ २८ ॥
ऊर्ध्ववक्त्रं द्वितीये च तिर्यग्वक्त्रं तृतीयके ॥
तत्रोर्ध्वास्यैः सरोजैश्च विज्ञेयं ज्येष्ठपुष्करम् ॥ २९ ॥
पार्श्ववक्त्रैर्द्विजश्रेष्ठ मध्यमं परिकीर्तितम् ॥
अधोवक्त्रैस्तथा ज्ञेयं कनिष्ठं पुष्करं क्षितौ ॥ ६.४५.३० ॥
एतैश्चिह्नैर्मुनिश्रेष्ठ ज्ञात्वा स्नानं समाचर ॥
तच्छ्रुत्वा स मुनिस्तूर्णं समुत्थाय ययौ ततः ॥ ३१ ॥
तादृशैः कमलैस्तत्र संस्थितास्ते जलाशयाः ॥
तान्दृष्ट्वा श्रद्धयोपेतः कृत्वा स्नानं यथाक्रमम् ॥ ३२ ॥
ततश्च विधिना सम्यक्चकारपितृतर्पणम् ॥ ३३ ॥
ततः शाकैश्च मूलैश्च नीवारैः फलसंयुतैः ॥
चकार विधिना श्राद्धं तत्रैव द्विजसत्तमाः ॥ ३४ ॥
तत्र तस्यैव तीरस्थो वीक्षांचक्रे समाहितः ॥
कार्तिक्यां कृत्तिकायोगे चिह्नदर्शनलालसः ॥ ३५॥
॥ ब्राह्मणा ऊचुः ॥ ॥
कीदृशं जायते चिह्नं कार्तिक्यां ज्येष्ठपुष्करे ॥
संप्राप्ते कृत्तिकायोगे सर्वं तत्र वदाशु नः ॥ ३६ ॥
॥ सूत उवाच ॥ ॥
कार्तिक्यां कृत्तिकायोगे यदा गच्छति चंद्रमाः ॥
तदा निष्क्रामति श्रेष्ठं कमलं जलमध्यतः ॥ ३७ ॥
तन्मध्येंऽगुष्ठमात्रस्तु पुरुषो दृश्यते जनैः ॥
सुस्नातैः श्रद्धयोपेतैस्ततस्तीर्थफलं लभेत् ॥ ३८ ॥
एतस्मात्कारणात्स्नात्वा विश्वामित्रो महामुनिः ॥
तच्चिह्नं वीक्षयामास महद्यत्नं समाश्रितः ॥ ॥ ३९ ॥
तस्यैवं वीक्षमाणस्य विश्वामित्रस्य धीमतः ॥
आनर्ताधिपतिस्तत्र प्राप्तो राजा बृहद्बलः ॥ ६.४५.४० ॥
अत्यंतं मृगयाश्रांतो हत्वा मृगगणान्बहून् ॥
ऋक्षांश्चैव वराहांश्च सारंगानथ संबरान् ॥ ४१ ॥
सिंहान्व्याघ्रान्वृकांश्चैव हिंसानारण्यचारिणः ॥
तथान्यानपि मध्याह्ने तेन मार्गेण संगतः ॥ ४२ ॥
अथापश्यद्द्रुमोपांते विश्वामित्रं मुनीश्वरम् ॥
उपविष्टं कृतस्नानं वीक्षमाणं जलाशयम् ॥ ४३ ॥
ततस्तं प्रणिपत्योच्चैरवतीर्य तुरंगमात् ॥
श्रमार्त्तः सलिले तस्मिन्प्रविवेश नृपोत्तमः ॥ ४४ ॥
एतस्मिन्नंतरे तोयात्कमलं तद्विनिर्गतम् ॥
सहस्रपत्रसंजुष्टं द्वादशार्कसमप्रभम् ॥ ॥ ४५ ॥
तद्दृष्ट्वा स महीपालः पद्ममत्यद्भुतं महत् ॥
जग्राह कौतुकाविष्टः स्वयं सव्येन पाणिना ॥ ४६ ॥
स्पृष्टमात्रे ततस्तस्मिन्कमले द्विजसत्तमाः ॥
उत्थितः सुमहाञ्छब्दो विश्वं येन प्रपूरितम् ॥ ४७ ॥
तं शब्दं स महीपालः श्रुत्वा मूर्छामुपाविशत् ॥
पतितश्च जले तस्मिन्पद्मं चादर्शनं गतम् ॥ ४८ ॥
ततः कृच्छ्रेण महता कर्षितः सलिलाद्बहिः ॥
सेवकैर्दुःखशोकार्त्तैर्हाहेति प्रतिजल्पकैः ॥ ४९ ॥
ततस्तीरं समासाद्य कृच्छ्रात्प्राप्याथ चेतनाम् ॥
यावद्वीक्षयति स्वांगं तावत्कुष्ठं समागतम् ॥ ६.४५.५० ॥
ततो विषादमापन्नो दृष्ट्वा तादृङ्निजं वपुः ॥
शीर्णघ्राणांघ्रिहस्तं च घर्घरस्वरसंयुतम् ॥ ५१ ॥
अथ गत्वा मुनेः पार्श्वे विश्वामित्रस्य भूमिपः ॥
उवाच वचनं दीनं बाष्पगद्गदया गिरा ॥ ॥ ५२ ॥
भगवन्पश्य मे जातं यादृशं वपुरेव हि ॥
अकस्मादेव मग्नस्य सलिलेऽत्र विगर्हितम् ॥ ५३ ॥
तत्किं पानीयदोषो वा किं वा भूमेर्मुनी श्वर ॥
येनेदृक्सहसा यातं विकृतिं मे शरीरकम् ॥ ५४ ॥
॥ विश्वामित्र उवाच ॥ ॥
सावित्रं पद्ममेवैतद्यत्स्पृष्टं भूपते त्वया ॥
उच्छिष्टेन रविर्मध्ये स्वयं यस्य व्यवस्थितः ॥ ५५ ॥
यदा स्यात्कृत्तिकायोगः कार्तिके मासि पार्थिव ॥
शशांकस्य तदा चैतज्जायते पौष्करे जले ॥ ५६ ॥
तदिदं पुष्करं ज्येष्ठं भवान्यत्र श्रमातुरः ॥
प्रविष्टः कार्तिकी चाद्य कृत्तिकायोगसंयुता ॥ ५७ ॥
एतद्वीक्ष्य नरो ह्यत्र स्नानं कुर्याज्जलाशये ॥
श्रद्धया परया युक्तः स गच्छति परां गतिम् ॥५८॥
उच्छिष्टेन त्वया राजन्हरणाय हि केवलम् ॥
एतत्सरोरुहं स्पृष्टं तेनेदृक्संस्थितं फलम् ॥५९॥ ॥
॥ बृहद्बल उवाच ॥ ॥
कथं मे स्यान्मुनिश्रेष्ठ कुष्ठव्याधिपरिक्षयः ॥
तपसा नियमेनापि व्रतेनापि कृतेन वै ॥ ६.४५.६० ॥
॥ विश्वामित्र उवाच ॥ ॥
आराधय सहस्रांशुमस्मिन्क्षेत्रे महीपते ॥
ततः प्राप्स्यसि संसिद्धिं कुष्ठनाशसमुद्भवाम् ॥ ६१ ॥
तच्छ्रुत्वा स मुनेर्वाक्यं भूमिपालो बृहद्बलः ॥
तत्क्षणात्स्थापयामास सूर्यस्य प्रतिमां तदा ॥ ६२ ॥
अर्चयामास विधिवत्पुष्पधूपानुलेपनैः ॥
श्रद्धया परया युक्तो रविवारे विशेषतः॥ ॥ ६३ ॥
उपवासपरो भूत्वा रक्तचन्दनसंयुतैः ॥
पूजयन्रक्तपुष्पैश्च श्रद्धया परया युतः ॥ ६४ ॥
ततः संवत्सरस्यांते स बभूव महीपतिः ॥
कुष्ठ व्याधि विनिर्मुक्तो द्वादशार्कसमप्रभः ॥ ६५ ॥
ततः स्वं राज्यमासाद्य भुक्त्वा भोगाननेकशः ॥
देहांते दिननाथस्य संप्राप्तो मंदिरं तथा ॥ ६६ ॥
॥ ॥ सूत उवाच ॥ ॥
एवं तत्र द्विजश्रेष्ठा विश्वामित्रेण धीमता ॥
प्रकटं सर्वलोकस्य विहितं पुष्करत्रयम् ॥ ६७ ॥
यस्तत्र कार्तिके मासे कार्त्तिक्यां कृत्तिकासु च ॥
प्रकरोति नरः स्नानं ब्रह्मलोकं स गच्छति ॥ ६८ ॥
तथा यो भास्करं पश्येद्बृहद्वलप्रतिष्ठितम् ॥
वत्सरं रविवारेण यावत्कृत्वा क्षणं नरः ॥
स मुच्यते नरो रोगैर्यदि स्याद्रोगसंयुतः ॥ ६९ ॥
नीरोगो वा नरः सद्यो लभते मनसेप्सितम् ॥
निष्कामो मोक्षमाप्नोति प्रसादात्तीक्ष्णदीधितेः ॥ ६.४५.७० ॥
कार्त्तिक्यां कृत्तिकायोगे वृषोत्सर्गं करोति यः ॥
पुष्करेषु सुपुण्येषु सोऽश्वमेधफलं लभेत् ॥ ७१ ॥
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ॥
यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ७२ ॥
एकतः सर्वतीर्थानि सर्वदानानि चैकतः ॥
एकतस्तु वृषोत्सर्गः कार्तिक्यां पुष्करेषु च ॥ ७३ ॥
यश्चैतच्छुणुयान्नित्यं पठेद्वा श्रद्धयान्वितः ॥
संप्राप्य सर्वकामान्वै ब्रह्मलोके महीयते ॥ ७४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये त्रिपुष्करमाहात्म्यवर्णनंनाम पंचचत्वारिंशोऽध्यायः ॥ ४५ ॥ ॥ छ ॥